तद्दिने वर्जयेत्पार्थ निद्रां चैव तु मैथुनम् । धर्मशास्त्रविनोदेन दिनं सर्वं निवारयेत्
रात्रौ जागरणं कृत्वा भक्तियुक्तो नृपोत्तम । विप्रेभ्यो दक्षिणां दद्यात्प्रणिपत्य क्षमापयेत्
यथा कृष्णा तथा शुक्ला विधिनैवं प्रकारयेत् । एकादशीं द्विजः पार्थ विभेदं नैव कारयेत्
एवं हि कुरुते यस्तु शृणु तस्य हि यत्फलम् । शंखोद्धारे नरः स्नात्वा दृष्ट्वा देवं गदाधरम्
एकादश्युपवासस्य कलां नार्हति षोडशीम् । संक्रांतिषु चतुर्लक्षं यो ददाति नृपोत्तम
एकादश्युपवासस्य कलां नार्हति षोडशीम् । प्रभासक्षेत्रे यत्पुण्यं ग्रहणे चंद्र सूर्ययोः
तत्फलं जायते नूनमेकादश्युपवासिनः । केदारे चोदकं पीत्वा पुनर्जन्म न विद्यते
तथा चैकादशी पार्थ गर्भवासक्षयंकरी । अश्वमेधस्य यज्ञस्य पृथिव्यां यत्फलं लभेत्
तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः । तपस्विनो गृहे यस्य भुंजते च द्विजोत्तमाः
तत्फलं जायते नूनमेकादश्युपवासिनः । गोसहस्रेण यत्पुण्यं दत्वा वेदांतपारगे
तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः । येषां देहे त्रयो देवा ब्रह्मविष्णुमहेश्वराः
वसंति तेषां ते तुल्या एकादश्युपवासिनः । ते नराः पुण्यकर्माणो ये भक्ता हरिपूजकाः
एकादशीव्रतस्यापि पुण्यसंख्या न विद्यते । एतत्पुण्यं भवेत्तस्य यत्सुरैरपि दुर्ल्लभम्
एतस्मादर्द्धपुण्यं तु प्राप्यते नक्तभोजनात् । नक्तस्यार्द्धं भवेत्पुण्यमेकभक्तेन देहिनाम्
तावद्गर्जंति तीर्थानि दानानि नियमानि च । यावन्नोपोषयेज्जंतुर्वासरं विष्णुवल्लभम्
तस्मात्त्वं पांडवश्रेष्ठ व्रतमेतत्समाचर । पुण्यसंख्यां न जानामि यत्त्वं पृच्छसि पांडव
एतद्धि कथितं पार्थ यद्गोप्यं व्रतमुत्तमम् । एकादशीसमं नास्ति कृत्वा यज्ञसहस्रकम्
युधिष्ठिर उवाच- उत्पन्ना सा कथं देव पुण्या चैकादशी तिथिः । कथं पवित्रा विश्वेऽस्मिन्कथं वै देवताप्रिया
श्रीभगवानुवाच - पुरा कृतयुगे पार्थ मुरनामेति दानवः । अत्यद्भुतो महारौद्र सर्वदेवभयंकरः 6.38.
इंद्रोऽपि निर्जितस्तेन सर्वदेवास्तथा नृप । महासुरेण तेनैव मृत्युना च दुरात्मना
स्वर्गान्निराकृतास्तेन विचरंति महीतले । सशंका भयभीताश्च सर्वे गत्वा महेश्वरम्
इंद्रेण कथितं सर्वमीश्वरस्यापि चाग्रतः । स्वर्गलोकपरिभ्रष्टा विचरंति महीतले
मर्त्येषु संस्थिता देवा न शोभंते महेश्वर । उपायं ब्रूहि मे देव ह्यमरा यांति कां गतिम्
महादेव उवाच- देवराजसुरश्रेष्ठयत्रास्तेगरुडध्वजः । शरण्यश्च जगन्नाथः परित्राता परायणः
तत्र गच्छ सुरश्रेष्ठ स वो रक्षां विधास्यति । ईश्वरस्य वचः श्रुत्वा देवराजो महामतिः
त्रिदशैः सहितो यत्र गतस्तत्र युधिष्ठिर । जलमध्ये प्रसुप्तं तं दृष्ट्वा देवं गदाधरम्
कृतांजलिपुटो भूत्वा इंद्रः स्तोत्रमुदीरयत्
इंद्र उवाच- ॐनमो देवदेवेश देवदानववंदित । दैत्यारे पुंडरीकाक्ष त्राहि नो मधुसूदन
सुराः सर्वे समायाता भयभीताश्च दानवात् । शरणं त्वां जगन्नाथ त्राहि मां भक्तवत्सल
त्राहि नो देवदेवेश त्राहि त्राहि जनार्दन । त्राहि वै पुंडरीकाक्ष दानवानां विनाशक