आजगाम ततो ब्रह्मा भक्तिप्रीतोऽथ कंजजः। उवाच प्रणतं रुद्रमुत्थाप्य च पुनर्गुरुः
दिव्यव्रतोपचारेण सोहमाराधितस्त्वया। भवता श्रद्धयात्यर्थं ममदर्शनकांक्षया
व्रतस्था मां हि पश्यंति मनुष्या देवतास्तथा। तदिच्छया प्रयच्छामि वरं यत्प्रवरं वरम्
सर्वकामप्रसिद्ध्यर्थं व्रतं यस्मान्निषेवितम्। मनोवाक्कायभावैश्च संतुष्टेनांतरात्मना
कं ददामि च वै कामं वद भोस्ते यथेप्सितम्। रुद्र उवाच। एष एवाद्य भगवन्सुपर्याप्तो महा वरः
यद्दृष्टोसि जगद्वंद्य जगत्कर्तर्नमोस्तुते। महता यज्ञसाध्येन बहुकालार्जितेन च
प्राणव्ययकरेण त्वं तपसा देव दृश्यते। इदं कपालं देवेश न करात्पतितं विभो
त्रपाकरा ऋषीणां च चर्यैषा कुत्सिता विभो। त्वत्प्रसादाद्व्रतं चेदं कृतं कापालिकं तु यत्
सिद्धमेतत्प्रपन्नस्य महाव्रतमिहोच्यताम्। पुण्यप्रदेशे यस्मिंस्तु क्षिपामीदं वदस्व मे
पूतो भवामि येनाहं मुनीनां भावितात्मनाम्। ब्रह्मोवाच। अविमुक्तं भगवतः स्थानमस्ति पुरातनम्
कपालमोचनं तीर्थं तव तत्र भविष्यति। अहं च त्वं स्थितस्तत्र विष्णुश्चापि भविष्यति
दर्शने भवतस्तत्र महापातकिनोपि ये। तेपि भोगान्समश्नंति विशुद्धा भवने मम
वरणापि असीचापि द्वे नद्यौ सुरवल्लभे। अंतराले तयोः क्षेत्रे वध्या न विशति क्वचित्
तीर्थानां प्रवरं तीर्थं क्षेत्राणां प्रवरं तव। आदेहपतनाद्ये तु क्षेत्रं सेवंति मानवाः
ते मृता हंसयानेन दिवं यांत्यकुतोभयाः। पंचक्रोशप्रमाणेन क्षेत्रं दत्तं मया तव
क्षेत्रमध्याद्यदा गंगा गमिष्यति सरित्पतिम्। तदा सा महती पुण्या पुरी रुद्र भविष्यति
पुण्या चोदङ्मुखी गंगा प्राची चापि सरस्वती। उदङ्मुखी योजने द्वे गच्छते जाह्नवी नदी
तत्र वै विबुधाः सर्वे मया सह सवासवाः। आगता वासमेष्यंति कपालं तत्र मोचय
तस्मिंस्तीर्थे तु ये गत्वा पिण्डदानेन वै पितॄन्। श्राद्धैस्तु प्रीणयिष्यंति तेषां लोकोऽक्षयो दिवि
वाराणस्यां महातीर्थे नरः स्नातो विमुच्यते। सप्तजन्मकृतात्पापाद्गमनादेव मुच्यते
तत्तीर्थं सर्वतीर्थानामुत्तमं परिकीर्तितम्। त्यजंति तत्र ये प्राणान्प्राणिनः प्रणतास्तव
रुद्रत्वं ते समासाद्य मोदंते भवता सह। तत्रापि हि तु यद्दत्तं दानं रुद्र यतात्मना
स्यान्महच्च फलं तस्य भविता भावितात्मनः। स्वांगस्फुटित संस्कारं तत्र कुर्वंति ये नराः
ते रुद्रलोकमासाद्य मोदंते सुखिनः सदा। तत्र पूजा जपो होमः कृतो भवति देहिनां
अनंतफलदः स्वर्गो रुद्रभक्तियुतात्मनः। तत्र दीपप्रदाने तु ज्ञानचक्षुर्भवेन्नरः
अव्यंगं तरुणं सौम्यं रूपवंतं तु गोसुतम्। योङ्कयित्वा मोचयति स याति परमं पदम्
पितृभिः सहितो मोक्षं गच्छते नात्र संशयः। अथ किं बहुनोक्तेन यत्तत्र क्रियते नरैः२०० 1.14.
कर्मधर्मं समुद्दिश्य तदनंतफलं भवेत्। स्वर्गापवर्गयोर्हेतुस्तद्धि तीर्थम्मतं भुवि
स्नानाज्जपात्तथा होमादनंतफलसाधनम्। गत्वा वाराणसीतीर्थं भक्त्या रुद्रपरायणाः
ये तत्र पंचतां प्राप्ता भक्तास्ते नात्र संशयः। वसवः पितरो ज्ञेया रुद्राश्चैव पितामहाः