वत्सगुल्मं च गोकर्णं तथा चैवोत्तरान्कुरून्। भद्राश्वं केतुमालं च वर्षं हैरण्यकं तथा
कामरूपं प्रभासं च महेंद्रं चैव पर्वतम्। ब्रह्महत्याभिभूतोसौ भ्रमंस्त्राणं न विंदति
त्रपान्वितः कपालं तु पश्यन्हस्तगतं सदा। करौ विधुन्वन्बहुशो विक्षिप्तश्च मुहुर्मुहुः
यदास्य धुन्वतो हस्तौ कपालं पतते न तु। तदास्य बुद्धिरुत्पन्ना व्रतं चैतत्करोम्यहम्
मदीयेनैव मार्गेण द्विजा यास्यंति सर्वतः। ध्यात्वैवं सुचिरं देवो वसुधां विचचार ह
पुष्करं तु समासाद्य प्रविष्टोऽरण्यमुत्तमम्। नानाद्रुमलताकीर्णं नानामृगरवाकुलम्
द्रुमपुष्पभरामोद वासितं यत्सुवायुना। बुद्धिपूर्वमिव न्यस्तैः पुष्पैर्भूषितभूतलम्
नानागधंरसैरन्यैः पक्वापक्वैः फलैस्तथा। विवेश तरुवृंदेन पुष्पामोदाभिनंदितः
अत्राराधयतो भक्त्या ब्रह्मा दास्यति मे वरम्। ब्रह्मप्रसादात्संप्राप्तं पौष्करं ज्ञानमीप्सितम्
पापघ्नं दुष्टशमनं पुष्टिश्रीबलवर्द्धनम्। एवं वै ध्यायतस्तस्य रुद्रस्यामिततेजसः
आजगाम ततो ब्रह्मा भक्तिप्रीतोऽथ कंजजः। उवाच प्रणतं रुद्रमुत्थाप्य च पुनर्गुरुः
दिव्यव्रतोपचारेण सोहमाराधितस्त्वया। भवता श्रद्धयात्यर्थं ममदर्शनकांक्षया
व्रतस्था मां हि पश्यंति मनुष्या देवतास्तथा। तदिच्छया प्रयच्छामि वरं यत्प्रवरं वरम्
सर्वकामप्रसिद्ध्यर्थं व्रतं यस्मान्निषेवितम्। मनोवाक्कायभावैश्च संतुष्टेनांतरात्मना
कं ददामि च वै कामं वद भोस्ते यथेप्सितम्। रुद्र उवाच। एष एवाद्य भगवन्सुपर्याप्तो महा वरः
यद्दृष्टोसि जगद्वंद्य जगत्कर्तर्नमोस्तुते। महता यज्ञसाध्येन बहुकालार्जितेन च
प्राणव्ययकरेण त्वं तपसा देव दृश्यते। इदं कपालं देवेश न करात्पतितं विभो
त्रपाकरा ऋषीणां च चर्यैषा कुत्सिता विभो। त्वत्प्रसादाद्व्रतं चेदं कृतं कापालिकं तु यत्
सिद्धमेतत्प्रपन्नस्य महाव्रतमिहोच्यताम्। पुण्यप्रदेशे यस्मिंस्तु क्षिपामीदं वदस्व मे
पूतो भवामि येनाहं मुनीनां भावितात्मनाम्। ब्रह्मोवाच। अविमुक्तं भगवतः स्थानमस्ति पुरातनम्
कपालमोचनं तीर्थं तव तत्र भविष्यति। अहं च त्वं स्थितस्तत्र विष्णुश्चापि भविष्यति
दर्शने भवतस्तत्र महापातकिनोपि ये। तेपि भोगान्समश्नंति विशुद्धा भवने मम
वरणापि असीचापि द्वे नद्यौ सुरवल्लभे। अंतराले तयोः क्षेत्रे वध्या न विशति क्वचित्
तीर्थानां प्रवरं तीर्थं क्षेत्राणां प्रवरं तव। आदेहपतनाद्ये तु क्षेत्रं सेवंति मानवाः
ते मृता हंसयानेन दिवं यांत्यकुतोभयाः। पंचक्रोशप्रमाणेन क्षेत्रं दत्तं मया तव
क्षेत्रमध्याद्यदा गंगा गमिष्यति सरित्पतिम्। तदा सा महती पुण्या पुरी रुद्र भविष्यति
पुण्या चोदङ्मुखी गंगा प्राची चापि सरस्वती। उदङ्मुखी योजने द्वे गच्छते जाह्नवी नदी
तत्र वै विबुधाः सर्वे मया सह सवासवाः। आगता वासमेष्यंति कपालं तत्र मोचय
तस्मिंस्तीर्थे तु ये गत्वा पिण्डदानेन वै पितॄन्। श्राद्धैस्तु प्रीणयिष्यंति तेषां लोकोऽक्षयो दिवि
वाराणस्यां महातीर्थे नरः स्नातो विमुच्यते। सप्तजन्मकृतात्पापाद्गमनादेव मुच्यते