अंगस्पर्शे कृते रुद्र सचैलो जलमाविशेत्। एवं शुद्धिमवाप्नोति पूर्वं दृष्टां मनीषिभिः
स भवान्ब्रह्महन्तासि शुद्ध्यर्थं व्रतमाचर। चीर्णे व्रते पुनर्भूयः प्राप्स्यसि त्वं वरान्बहून्
एवमुक्त्वा गतो ब्रह्मा रुद्रस्तन्नाभिजज्ञिवान्। अचिंतयत्तदाविष्णुं ध्यानगत्या ततः स्वयं
लक्ष्मीसहायं वरदं देवदेवं सनातनम्। अष्टांगप्रणिपातेन देवदेवस्त्रिलोचनः
तुष्टाव प्रणतो भूत्वा शंखचक्रगदाधरम्। रुद्र उवाच। परं पराणाममृतं पुराणं परात्परं विष्णुमनंतवीर्यं
स्मरामि नित्यं पुरुषं वरेण्यं नारायणं निष्प्रतिमं पुराणम्। परात्परं पूर्वजमुग्रवेगं गंभीरगंभीरधियां प्रधानम्
नतोस्मि देवं हरिमीशितारं परात्परं धामपरं च धाम। परापरं तत्परमं च धाम परापरेशं पुरुषं विशालम्
नारायणं स्तौमि विशुद्धभावं परापरं सूक्ष्ममिदं ससर्ज। सदास्थितत्वात्पुरुषप्रधानं शांतं प्रधानं शरणं ममास्तु
नारायणं वीतमलं पुराणं परात्परं विष्णुमपारपारम्। पुरातनं नीतिमतां प्रधानं धृतिक्षमाशांतिपरं क्षितीशम्
शुभं सदा स्तौमि महानुभावं सहस्रमूर्द्धानमनेकपादम्। अनंतबाहुं शशिसूर्यनेत्रं क्षराक्षरं क्षीरसमुद्रनिद्रम्
नारायणं स्तौमि परं परेशं परात्परं यत्त्रिदशैरगम्यम्। त्रिसर्गसंस्थं त्रिहुताशनेत्रं त्रितत्वलक्ष्यं त्रिलयं त्रिनेत्रम्
नमामि नारायणमप्रमेयं कृते सितं द्वापरतश्च रक्तम्। कलौ च कृष्णं तमथो नमामि ससर्ज यो वक्त्रत एव विप्रान्
भुजांतरात्क्षत्रमथोरुयुग्माद्विशः पदाग्राच्च तथैव शूद्रान्। नमामि तं विश्वतनुं पुराणं परात्परं पारगमप्रमेयम्
सूक्ष्ममूर्त्तिं महामूर्त्तिं विद्यामूर्त्तिममूर्तिकम्। कवचं सर्वदेवानां नमस्ये वारिजेक्षणम्
सहस्रशीर्षं देवेशं सहस्राक्षं महाभुजम्। जगत्संव्याप्य तिष्ठंतं नमस्ये परमेश्वरम्
शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम्। नीलमेघप्रतीकाशं नमस्ये शार्ङ्गपाणिनम्
शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम्। भावाभावविनिर्मुक्तं नमस्ये सर्वगं हरिम्१५० 1.14.
न चात्र किंचित्पश्यामि व्यतिरिक्तं तवाच्युत। त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम्
एवं तु वदतस्तस्य रुद्रस्य परमेष्ठिनः। इतीरितेस्तेन सनातन स्वयं परात्परस्तस्य बभूव दर्शने
रथांगपाणिर्गरुडासनो गिरिं विदीपयन्भास्करवत्समुत्थितः। वरं वृणीष्वेति सनातनोब्रवीद्वरस्तवाहं वरदः समागतः
इतीरिते रुद्रवरो जगाद ममातिशुद्धिर्भविता सुरेश। न चास्य पापस्य हरं हि चान्यत्संदृश्यतेग्र्यं च ऋते भवं तम्
ब्रह्महत्याभिभूतस्य तनुर्मे कृष्णतां गता। शवगंधश्च मे गात्रे लोहस्याभरणानि मे
कथं मे न भवेदेवमेतद्रूपं जनार्दनम्। किं करोमि महादेव येन मे पूर्विका तनूः
त्वत्प्रसादेन भविता तन्मे कथय चाच्युत। विष्णुरुवाच। ब्रह्मवध्या परा चोग्रा सर्वकष्टप्रदा परा
मनसापि न कुर्वीत पापस्यास्य तु भावनाम्। भवता देववाक्येन निष्ठा चैषा निबोधिता
इदानीं त्वं महाबाहो ब्रह्मणोक्तं समाचर। भस्मसर्वाणि गात्राणि त्रिकालं घर्षयेस्तनौ
शिखायां कर्णयोश्चैव करे चास्थीनि धारय। एवं च कुर्वतो रुद्र कष्टं नैव भविष्यति
संदिश्यैवं स भगवांस्ततोंऽतर्द्धानमीश्वरः। लक्ष्मीसहायो गतवान्रुद्रस्तं नाभिजज्ञिवान्
कपालपाणिर्देवेशः पर्यटन्वसुधामिमाम्। हिमवंतं समैनाकं मेरुणा च सहैव तु
कैलासं सकलं विंध्यं नीलं चैव महागिरिम्। कांचीं काशीं ताम्रलिप्तां मगधामाविलां तथा