छिन्ने वक्त्रे ततो देवा हृष्टास्तं वृषभध्वजम्। तुष्टुवुर्विविधैस्तोत्रैर्देवदेवं कपर्दिनम्
देवा ऊचुः। नमः कपालिने नित्यं महाकालस्य कालिने। ऐश्वर्यज्ञानयुक्ताय सर्वभागप्रदायिने
नमो हर्षविलासाय सर्वदेवमयाय च। कलौ संहारकर्ता त्वं महाकालः स्मृतो ह्यसि
भक्तानामार्तिनाशस्त्वं दुःखांतस्तेन चोच्यसे। शंकरोष्याशुभक्तानां तेन त्वं शंकरः स्मृतः
छिन्नं ब्रह्मशिरो यस्मात्त्वं कपालं बिभर्षि च। तेन देव कपाली त्वं स्तुतो ह्यद्य प्रसीद नः
एवं स्तुतः प्रसन्नात्मा देवान्प्रस्थाप्य शंकरः। स्वानि धिष्ण्यानि भगवांस्तत्रैवासीन्मुदान्वितः
विज्ञाय ब्रह्मणो भावं ततो वीरस्य जन्म च। शिरो नीरस्य वाक्यात्तु लोकानां कोपशांतये
शिरस्यंजलिमाधाय तुष्टावाथ प्रणम्य तम्। तेजोनिधि परं ब्रह्म ज्ञातुमित्थं प्रजापतिम्
निरुक्तसूक्तरहस्यैर्ऋग्यजुः सामभाषितैः। रुद्र उवाच। अप्रमेय नमस्तेस्तु परमस्य परात्मने
अद्भुतानां प्रसूतिस्त्वं तेजसां निधिरक्षयः। विजयाद्विश्वभावस्त्वं सृष्टिकर्ता महाद्युते
ऊर्द्ध्ववक्त्र नमस्तेस्तु सत्वात्मकधरात्मक। जलशायिन्जलोत्पन्न जलालय नमोस्तु ते
जलजोत्फुल्लपत्राक्ष जय देव पितामह। त्वया ह्युत्पादितः पूर्वं सृष्ट्यर्थमहमीश्वर
यज्ञाहुतिसदाहार यज्ञांगेश नमोऽस्तु ते। स्वर्णगर्भ पद्मगर्भ देवगर्भ प्रजापते
त्वं यज्ञस्त्वं वषट्कारः स्वधा त्वं पद्मसंभव। वचनेन तु देवानां शिरश्छिन्नं मया प्रभो
ब्रह्महत्याभिभूतोस्मि मां त्वं पाहि जगत्पते। इत्युक्तो देवदेवेन ब्रह्मा वचनमब्रवीत्
ब्रह्मोवाच। सखा नाराणो देवः स त्वां पूतं करिष्यति। कीर्तनीयस्त्वया धन्यः स मे पूज्यः स्वयं विभुः
अनुध्यातोऽसि वै नूनं तेन देवेन विष्णुना। येन ते भक्तिरुत्पन्ना स्तोतुं मां मतिरुत्थिता
शिरश्छेदात्कपाली त्वं सोमसिद्धांतकारकः। कोटीः शतं च विप्राणामुद्धर्तासि महाद्युते
ब्रह्महत्याव्रतं कुर्या नान्यत्किंचन विद्यते। अभाष्याः पापिनः क्रूरा ब्रह्मघ्नाः पापकारिणः
वैतानिका विकर्मस्था न ते भाष्याः कथंचन। तैस्तु दृष्टैस्तथा कार्यं भास्करस्यावलोकनम्
अंगस्पर्शे कृते रुद्र सचैलो जलमाविशेत्। एवं शुद्धिमवाप्नोति पूर्वं दृष्टां मनीषिभिः
स भवान्ब्रह्महन्तासि शुद्ध्यर्थं व्रतमाचर। चीर्णे व्रते पुनर्भूयः प्राप्स्यसि त्वं वरान्बहून्
एवमुक्त्वा गतो ब्रह्मा रुद्रस्तन्नाभिजज्ञिवान्। अचिंतयत्तदाविष्णुं ध्यानगत्या ततः स्वयं
लक्ष्मीसहायं वरदं देवदेवं सनातनम्। अष्टांगप्रणिपातेन देवदेवस्त्रिलोचनः
तुष्टाव प्रणतो भूत्वा शंखचक्रगदाधरम्। रुद्र उवाच। परं पराणाममृतं पुराणं परात्परं विष्णुमनंतवीर्यं
स्मरामि नित्यं पुरुषं वरेण्यं नारायणं निष्प्रतिमं पुराणम्। परात्परं पूर्वजमुग्रवेगं गंभीरगंभीरधियां प्रधानम्
नतोस्मि देवं हरिमीशितारं परात्परं धामपरं च धाम। परापरं तत्परमं च धाम परापरेशं पुरुषं विशालम्
नारायणं स्तौमि विशुद्धभावं परापरं सूक्ष्ममिदं ससर्ज। सदास्थितत्वात्पुरुषप्रधानं शांतं प्रधानं शरणं ममास्तु
नारायणं वीतमलं पुराणं परात्परं विष्णुमपारपारम्। पुरातनं नीतिमतां प्रधानं धृतिक्षमाशांतिपरं क्षितीशम्
शुभं सदा स्तौमि महानुभावं सहस्रमूर्द्धानमनेकपादम्। अनंतबाहुं शशिसूर्यनेत्रं क्षराक्षरं क्षीरसमुद्रनिद्रम्