यदस्माकं महद्वीर्यं तेज ओजः पराक्रमः। तत्सर्वं ब्रह्मणा ग्रस्तं पंचमास्यस्य तेजसा
विनेशुः सर्वतेजांसि त्वत्प्रसादात्पुनः प्रभो। जायते तु यथापूर्वं तथा कुरु महेश्वर
ततः प्रसन्नवदनो देवैश्चापि नमस्कृतः। जगाम यत्र ब्रह्माऽसौ रजोहंकारमूढधीः
स्तुवंतो देवदेवेशं परिवार्य समाविशन्। ब्रह्मा तमागतं रुद्रं न जज्ञे रजसावृतः
सूर्यकोटिसहस्राणां तेजसा रंजयन्जगत्। तदादृश्यत विश्वात्मा विश्वसृग्विश्वभावनः
सपितामहमासीनं सकलं देवमंडलम्। अभिगम्य ततो रुद्रो ब्रह्माणं परमेष्ठिनम्
अहोतितेजसा वक्त्रमधिकं देव राजते। एवमुक्त्वाट्टहासं तु मुमोच शशिशेखरः
वामांगुष्ठनखाग्रेण ब्रह्मणः पंचमं शिरः। चकर्त कदलीगर्भं नरः कररुहैरिव
विच्छिन्नं तु शिरः पश्चाद्भवहस्ते स्थितं तदा। ग्रहमंडलमध्यस्थो द्वितीय इव चंद्रमाः
करोत्क्षिप्तकपालेन ननर्त च महेश्वरः। शिखरस्थेन सूर्येण कैलास इव पर्वतः
छिन्ने वक्त्रे ततो देवा हृष्टास्तं वृषभध्वजम्। तुष्टुवुर्विविधैस्तोत्रैर्देवदेवं कपर्दिनम्
देवा ऊचुः। नमः कपालिने नित्यं महाकालस्य कालिने। ऐश्वर्यज्ञानयुक्ताय सर्वभागप्रदायिने
नमो हर्षविलासाय सर्वदेवमयाय च। कलौ संहारकर्ता त्वं महाकालः स्मृतो ह्यसि
भक्तानामार्तिनाशस्त्वं दुःखांतस्तेन चोच्यसे। शंकरोष्याशुभक्तानां तेन त्वं शंकरः स्मृतः
छिन्नं ब्रह्मशिरो यस्मात्त्वं कपालं बिभर्षि च। तेन देव कपाली त्वं स्तुतो ह्यद्य प्रसीद नः
एवं स्तुतः प्रसन्नात्मा देवान्प्रस्थाप्य शंकरः। स्वानि धिष्ण्यानि भगवांस्तत्रैवासीन्मुदान्वितः
विज्ञाय ब्रह्मणो भावं ततो वीरस्य जन्म च। शिरो नीरस्य वाक्यात्तु लोकानां कोपशांतये
शिरस्यंजलिमाधाय तुष्टावाथ प्रणम्य तम्। तेजोनिधि परं ब्रह्म ज्ञातुमित्थं प्रजापतिम्
निरुक्तसूक्तरहस्यैर्ऋग्यजुः सामभाषितैः। रुद्र उवाच। अप्रमेय नमस्तेस्तु परमस्य परात्मने
अद्भुतानां प्रसूतिस्त्वं तेजसां निधिरक्षयः। विजयाद्विश्वभावस्त्वं सृष्टिकर्ता महाद्युते
ऊर्द्ध्ववक्त्र नमस्तेस्तु सत्वात्मकधरात्मक। जलशायिन्जलोत्पन्न जलालय नमोस्तु ते
जलजोत्फुल्लपत्राक्ष जय देव पितामह। त्वया ह्युत्पादितः पूर्वं सृष्ट्यर्थमहमीश्वर
यज्ञाहुतिसदाहार यज्ञांगेश नमोऽस्तु ते। स्वर्णगर्भ पद्मगर्भ देवगर्भ प्रजापते
त्वं यज्ञस्त्वं वषट्कारः स्वधा त्वं पद्मसंभव। वचनेन तु देवानां शिरश्छिन्नं मया प्रभो
ब्रह्महत्याभिभूतोस्मि मां त्वं पाहि जगत्पते। इत्युक्तो देवदेवेन ब्रह्मा वचनमब्रवीत्
ब्रह्मोवाच। सखा नाराणो देवः स त्वां पूतं करिष्यति। कीर्तनीयस्त्वया धन्यः स मे पूज्यः स्वयं विभुः
अनुध्यातोऽसि वै नूनं तेन देवेन विष्णुना। येन ते भक्तिरुत्पन्ना स्तोतुं मां मतिरुत्थिता
शिरश्छेदात्कपाली त्वं सोमसिद्धांतकारकः। कोटीः शतं च विप्राणामुद्धर्तासि महाद्युते
ब्रह्महत्याव्रतं कुर्या नान्यत्किंचन विद्यते। अभाष्याः पापिनः क्रूरा ब्रह्मघ्नाः पापकारिणः
वैतानिका विकर्मस्था न ते भाष्याः कथंचन। तैस्तु दृष्टैस्तथा कार्यं भास्करस्यावलोकनम्