गत्वा तु पुंडरीकाक्षो ब्रह्माणं प्राह वै पुनः। त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्
आवां कार्यस्य करणे सहायौ च तव प्रभो। स्वयं कृत्वा पुनर्नाशं कर्तुं देव न बुध्यसे
कृतं जुगुप्सितं कर्म शंभुमेतं जिघांसता। त्वया च देवदेवस्य सृष्टः कोपेन वै पुमान्
शुद्ध्यर्थमस्य पापस्य प्रायश्चित्तं परं कुरु। गृह्णन्वह्नित्रयं देव अग्निहोत्रमुपाहर
पुण्यतीर्थे तथा देशे वने वापि पितामह। स्वपत्न्या सहितो यज्ञं कुरुष्वास्मत्परिग्रहात्
सर्वे देवास्तथादित्या रुद्राश्चापि जगत्पते। आदेशं ते करिष्यंति यतोस्माकं भवान्प्रभुः
एकोहि गार्हपत्योग्निर्दक्षिणाग्निर्द्वितीयकः। आहवनीयस्तृतीयस्तु त्रिकुंडेषु प्रकल्पय
वर्तुले त्वर्चयात्मानम्मामथो धनुराकृतौ। चतुःकोणे हरं देवं ऋग्यजुःसामनामभिः
अग्नीनुत्पाद्य तपसा परामृद्धिमवाप्य च। दिव्यं वर्षसहस्रं तु हुत्वाग्नीन्शमयिष्यसि
अग्निहोत्रात्परं नान्यत्पवित्रमिह पठ्यते। सुकृतेनाग्निहोत्रेण प्रशुद्ध्यंति भुवि द्विजाः
पंथानो देवलोकस्य ब्राह्मणैर्दशितास्त्वमी। एकोग्निः सर्वदा धार्यो गृहस्थेन द्विजन्मना
विनाग्निना द्विजेनेह गार्हस्थ्यन्न तु लभ्यते। भीष्म उवाच। योऽसौ कपालादुत्पन्नो नरो नाम धनुर्द्धरः
किमेष माधवाज्जात उताहो स्वेन कर्मणा। उत रुद्रेण जनितो ह्यथवा बुद्धिपूर्वकम्
ब्रह्मन्हिरण्यगर्भोऽयमंडजातश्चतुर्मुखः। अद्भुतं पञ्चमं तस्य वक्त्रं तत्कथमुत्थितम्
सत्वे रजो न दृश्येत न सत्वं रजसि क्वचित्। सत्वस्थो भगवान्ब्रह्मा कथमुद्रेकमादधात्
मूढात्मना नरो येन हंतुं हि प्रहितो हरं। पुलस्त्य उवाच। महेश्वरहरी चैतो द्वावेव सत्पथि स्थितौ
तयोरविदितं नास्ति सिद्धासिद्धं महात्मनोः। ब्रह्मणः पंचमं वक्त्रमूर्द्ध्वमासीन्महात्मनः
ततो ब्रह्माभवन्मूढो रजसा चोपबृंहितः। ततोऽयं तेजसा सृष्टिममन्यत मया कृता
मत्तोऽन्यो नास्ति वै देवो येन सृष्टिः प्रवर्तिता। सह देवाः सगंधर्वाः पशुपक्षिमृगाकुलाः
एवं मूढः स पंचास्यो विरिंचिरभवत्पुनः। प्राग्वक्त्रं मुखमेतस्य ऋग्वेदस्य प्रवर्तकम्
द्वितीयं वदनं तस्य यजुर्वेदप्रवर्तकम्। तृतीयं सामवेदस्य अथर्वार्थं चतुर्थकम्
सांगोपांगेतिहासांश्च सरहस्यान्ससंग्रहान्। वेदानधीते वक्त्रेण पंचमेनोर्द्ध्वचक्षुषा
तस्याऽसुरसुराः सर्वे वक्त्रस्याद्भुतवर्चसः। तेजसा न प्रकाशंते दीपाः सूर्योदये यथा
स्वपुरेष्वपि सोद्वेगा ह्यवर्तंत विचेतसः। न कंचिद्गणयेच्चान्यं तेजसा क्षिपते परान्
नाभिगंतु न च द्रष्टुं पुरस्तान्नोपसर्पितुम्। शेकुस्त्रस्ताः सुरास्सर्वे पद्मयोनिं महाप्रभुम्
अभिभूतमिवात्मानं मन्यमाना हतत्विषः। सर्वे ते मंत्रयामासुर्दैवता हितमात्मनः
गच्छामः शरणं शंभुं निस्तेजसोऽस्य तेजसा। देवा ऊचुः। नमस्तेसर्वसत्वेश महेश्वर नमोनमः१०० 1.14.
जगद्योने परंब्रह्म भूतानां त्वं सनातनः। प्रतिष्ठा सर्वजगतां त्वं हेतुर्विष्णुना सह
एवं संस्तूयमानोसौ देवर्षिपितृदानवैः। अंतर्हित उवाचेदं देवाः प्रार्थयतेप्सितम्
देवा ऊचुः। प्रत्यक्षदर्शनं दत्वा देहि देव यथेप्सितम्। कृत्वा कारुण्यमस्माकं वरश्चापि प्रदीयताम्