नाहं मर्त्यस्य वै राजन्पुत्रानिच्छे कथंचन। दैवतेभ्यः प्रसादाच्च पुत्रानिच्छे नराधिप
प्रार्थयंत्यै त्वया शक्र कुंत्यै देयो नरस्ततः। वचसा च मदीयेन एवं कुरु शचीपते
अथाब्रवीत्तदा विष्णुं देवेशो दुःखितो वचः। अस्मिन्मन्वंतरेऽतीते चतुर्विंशतिके युगे
अवतीर्य रघुकुले गृहे दशरथस्य च। रावणस्य वधार्थाय शांत्यर्थं च दिवौकसाम्
रामरूपेण भवता सीतार्थमटता वने। मत्पुत्रो हिंसितो देव सूर्यपुत्रहितार्थिना
वालिनाम प्लवंगेंद्रः सुग्रीवार्थे त्वया यतः। दुःखेनानेन तप्तोहं गृह्णामि न सुतं नरम्
अगृह्णमानं देवेंद्रं कारणांतरवादिनम्। हरिः प्रोचे शुनासीरं भुवो भारावतारणे
अवतारं करिष्यामि मर्त्यलोके त्वहं प्रभो। सूर्यपुत्रस्य नाशार्थं जयार्थमात्मजस्य ते
सारथ्यं च करिष्यामि नाशं कुरुकुलस्य च। ततो हृष्टोभवच्छक्रो विष्णुवाक्येन तेन ह
प्रतिगृह्य नरं हृष्टः सत्यं चास्तु वचस्तव। एवमुक्त्वा वरं देवः प्रेषयित्वाऽच्युतः स्वयम्
गत्वा तु पुंडरीकाक्षो ब्रह्माणं प्राह वै पुनः। त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्
आवां कार्यस्य करणे सहायौ च तव प्रभो। स्वयं कृत्वा पुनर्नाशं कर्तुं देव न बुध्यसे
कृतं जुगुप्सितं कर्म शंभुमेतं जिघांसता। त्वया च देवदेवस्य सृष्टः कोपेन वै पुमान्
शुद्ध्यर्थमस्य पापस्य प्रायश्चित्तं परं कुरु। गृह्णन्वह्नित्रयं देव अग्निहोत्रमुपाहर
पुण्यतीर्थे तथा देशे वने वापि पितामह। स्वपत्न्या सहितो यज्ञं कुरुष्वास्मत्परिग्रहात्
सर्वे देवास्तथादित्या रुद्राश्चापि जगत्पते। आदेशं ते करिष्यंति यतोस्माकं भवान्प्रभुः
एकोहि गार्हपत्योग्निर्दक्षिणाग्निर्द्वितीयकः। आहवनीयस्तृतीयस्तु त्रिकुंडेषु प्रकल्पय
वर्तुले त्वर्चयात्मानम्मामथो धनुराकृतौ। चतुःकोणे हरं देवं ऋग्यजुःसामनामभिः
अग्नीनुत्पाद्य तपसा परामृद्धिमवाप्य च। दिव्यं वर्षसहस्रं तु हुत्वाग्नीन्शमयिष्यसि
अग्निहोत्रात्परं नान्यत्पवित्रमिह पठ्यते। सुकृतेनाग्निहोत्रेण प्रशुद्ध्यंति भुवि द्विजाः
पंथानो देवलोकस्य ब्राह्मणैर्दशितास्त्वमी। एकोग्निः सर्वदा धार्यो गृहस्थेन द्विजन्मना
विनाग्निना द्विजेनेह गार्हस्थ्यन्न तु लभ्यते। भीष्म उवाच। योऽसौ कपालादुत्पन्नो नरो नाम धनुर्द्धरः
किमेष माधवाज्जात उताहो स्वेन कर्मणा। उत रुद्रेण जनितो ह्यथवा बुद्धिपूर्वकम्
ब्रह्मन्हिरण्यगर्भोऽयमंडजातश्चतुर्मुखः। अद्भुतं पञ्चमं तस्य वक्त्रं तत्कथमुत्थितम्
सत्वे रजो न दृश्येत न सत्वं रजसि क्वचित्। सत्वस्थो भगवान्ब्रह्मा कथमुद्रेकमादधात्
मूढात्मना नरो येन हंतुं हि प्रहितो हरं। पुलस्त्य उवाच। महेश्वरहरी चैतो द्वावेव सत्पथि स्थितौ
तयोरविदितं नास्ति सिद्धासिद्धं महात्मनोः। ब्रह्मणः पंचमं वक्त्रमूर्द्ध्वमासीन्महात्मनः
ततो ब्रह्माभवन्मूढो रजसा चोपबृंहितः। ततोऽयं तेजसा सृष्टिममन्यत मया कृता
मत्तोऽन्यो नास्ति वै देवो येन सृष्टिः प्रवर्तिता। सह देवाः सगंधर्वाः पशुपक्षिमृगाकुलाः
एवं मूढः स पंचास्यो विरिंचिरभवत्पुनः। प्राग्वक्त्रं मुखमेतस्य ऋग्वेदस्य प्रवर्तकम्