कपालस्थः स तत्रैव तुष्टाव हरकेशवौ। शिरस्यंजलिमाधाय तदा वीर उदारधीः
किंकरोमीति तौ प्राह इत्युक्त्वा प्रणतः स्थितः। तमुवाच हरः श्रीमान्ब्रह्मणा स्वेन तेजसा
सृष्टो नरो धनुष्पाणिस्त्वमेनं तु निषूदय। इत्थमुक्त्वांजलिधरं स्तुवंतं शंकरो नरम्
तथैवांजलिसंबद्धं गृहीत्वा च करद्वयम्। उद्धृत्याथ कपालात्तं पुनर्वचनमब्रवीत्
स एष पुरुषो रौद्रो यो मया वेदितस्तव। विष्णुहुंकाररचितमोहनिद्रां प्रवेशितः
विबोधयैनं त्वरितमित्युक्त्वान्तर्दधे हरः। नारायणस्य प्रत्यक्षं नरेणानेन वै तदा
वामपादहतः सोपि समुत्तस्थौ महाबलः। ततो युद्धं समभवत्स्वेदरक्तजयोर्महत्
विस्फारितधनुः शब्दं नादिताशेषभूतलम्। कवचं स्वेदजस्यैकं रक्तजेन त्वपाकृतम्
एवं समेतयोर्युद्धे दिव्यं वर्षद्वयं तयोः। युध्यतोः समतीतं च स्वेदरक्तजयोर्नृप
रक्तजं द्विभुजं दृष्ट्वा स्वेदजं चैव संगतौ। विचिन्त्य वासुदेवोगाद्ब्रह्मणः सदनं परम्
ससंभ्रममुवाचेदं ब्रह्माणं मधुसूदनः। रक्तजेनाद्य भो ब्रह्मन्स्वेदजोयं निपातितः
श्रुत्वैतदाकुलो ब्रह्मा बभाषे मधुसूदनम्। हरे द्यजन्मनि नरो मदीयो जीवतादयम्
तथा तुष्टोऽब्रवीत्तं च विष्णुरेवं भविष्यति। गत्वा तयो रणमपि निवार्याऽऽह च तावुभौ
अन्यजन्मनि भविता कलिद्वापरयोर्मिथः। संधौ महारणे जाते तत्राहं योजयामि वां
विष्णुना तु समाहूय ग्रहेश्वरसुरेश्वरौ। उक्ताविमौ नरौ भद्रौ पालनीयौ ममाज्ञया
सहस्रांशो स्वेदजोयं स्वकीयोंऽशो धरातले। द्वापरांतेवतार्योयं देवानां कार्यसिद्धये
यदूनां तु कुले भावी शूरोनाम महाबलः। तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि५० 1.14.
उत्पत्स्यति महाभागा देवानां कार्यसिद्धये। दुर्वासास्तु वरं तस्यै मंत्रग्रामं प्रदास्यति
मंत्रेणानेन यं देवं भक्त्या आवाहयिष्यति। देवि तस्य प्रसादात्तु तव पुत्रो भविष्यति
सा च त्वामुदये दृष्ट्वा साभिलाषा रजस्वला। चिंताभिपन्ना तिष्ठंती भजितव्या विभावसो
तस्या गर्भे त्वयं भावी कानीनः कुंतिनंदनः। भविष्यति सुतो देवदेवकार्यार्थसिद्धये
तथेति चोक्त्वा प्रोवाच तेजोराशिर्दिवाकरः। पुत्रमुत्पादयिष्यामि कानीनं बलगर्वितम्
यस्य कर्णेति वै नाम लोकः सर्वो वदिष्यति। मत्प्रसादादस्य विष्णो विप्राणां भावितात्मनः
अदेयं नास्ति वै लोके वस्तु किंचिच्च केशव। एवं प्रभावं चैवैनं जनये वचनात्तव
एवमुक्त्वा सहस्रांशुर्देवं दानवघातिनम्। नारायणं महात्मानं तत्रैवांतर्दधे रविः
अदर्शनं गते देवे भास्करे वारितस्करे। वृद्धश्रवसमप्येवमुवाच प्रीतमानसः
सहस्रनेत्ररक्तोत्थो नरोऽयं मदनुग्रहात्। स्वांशभूतो द्वापरांते योक्तव्यो भूतले त्वया
यदा पांडुर्महाभागः पृथां भार्यामवाप्स्यति। माद्रीं चापि महाभाग तदारण्यं गमिष्यति
तस्याप्यरण्यसंस्थस्य मृगः शापं प्रदास्यति। तेन चोत्पन्नवैराग्यः शतशृगं गमिष्यति
पुत्रानभीप्सन्क्षेत्रोत्थान्भार्यां स प्रवदिष्यति। अनीप्संती तदा कुंती भर्त्तारं सा वदिष्यति