स्वेदतः कुंडली जज्ञे सधनुष्को महेषुधिः। सहस्रकवची वीरः किंकरोमीत्युवाच ह
तमुवाच विरिंचस्तु दर्शयन्रुद्रमोजसा। हन्यतामेष दुर्बुद्धिर्जायते न यथा पुनः
ब्रह्मणो वचनं श्रुत्वा धनुरुद्यम्य पृष्ठतः। संप्रतस्थे महेशस्य बाणहस्तोतिरौद्रदृक्
दृष्ट्वा पुरुषमत्युग्रं भीतस्तस्य त्रिलोचनः। अपक्रांतस्ततो वेगाद्विष्णोराश्रममभ्यगात्
त्राहित्राहीति मां विष्णो नरादस्माच्च शत्रुहन्। ब्रह्मणा निर्मितः पापो म्लेच्छरूपो भयंकरः
यथा हन्यान्न मां क्रुद्धस्तथा कुरु जगत्पते। हुंकारध्वनिना विष्णुर्मोहयित्वा तु तं नरम्
अदृश्यः सर्वभूतानां योगात्मा विश्वदृक्प्रभुः। तत्र प्राप्तं विरूपाक्षं सांत्वयामास केशवः
ततस्स प्रणतो भूमौ दृष्टो देवेन विष्णुना। विष्णुरुवाच। पौत्रो हि मे भवान्रुद्र कं ते कामं करोम्यहम्
दृष्ट्वा नारायणं देवं भिक्षां देहीत्युवाच ह। कपालं दर्शयित्वाग्रे प्रज्वलंस्तेजसोत्कटम्
कपालपाणिं संप्रेक्ष्य रुद्रं विष्णुरचिन्तयत्। कोन्यो योग्यो भवेद्भिक्षुर्भिक्षादानस्य सांप्रतम्
योग्योऽयमिति संकल्प्य दक्षिणं भुजमर्पयत्। तद्बिभेदातितीक्ष्णेन शूलेन शशिशेखरः
प्रावर्तत ततो धारा शोणितस्य विभोर्भुजात्। जांबूनदरसाकारा वह्निज्वालेव निर्मिता
निपपात कपालांतश्शम्भुना सा प्रभिक्षिता। ऋज्वी वेगवती तीव्रा स्पृशंती त्वांबरं जवात्
पंचाशद्योजना दैर्घ्याद्विस्ताराद्दशयोजना। दिव्यवर्षसहस्रं सा समुवाह हरेर्भुजात्
इयंतं कालमीशोसौ भिक्षां जग्राह भिक्षुकः। दत्ता नारायणेनाथ कापाले पात्र उत्तमे
ततो नारायणः प्राह शंभुं परमिदं वचः। संपूर्णं वा न वा पात्रं ततो वै परमीश्वरः
सतोयांबुदनिर्घोषं श्रुत्वा वाक्यं हरेर्हरः। शशिसूर्याग्निनयनः शशिशेखरशोभितः
कपाले दृष्टिमावेश्य त्रिभिर्नेत्रैर्जनार्दनम्। अंगुल्या घटयन्प्राह कपालं परिपूरितम्
श्रुत्वा शिवस्य तां वाणीं विष्णुर्धारां समाहरत्। पश्तोऽथ हरेरीशः स्वांगुल्या रुधिरं तदा
दिव्यवर्षसहस्रं च दृष्टिपातैर्ममंथ सः। मथ्यमाने ततो रक्ते कलिलं बुद्बुदं क्रमात्
बभूव च ततः पश्चात्किरीटी सशरासनः। बद्धतूणीरयुगलो वृषस्कंधोङ्गुलित्रवान्
पुरुषो वह्निसंकाशः कपाले संप्रदृश्यते। तं दृष्ट्वा भगवान्विष्णुः प्राह रुद्रमिदं वचः
कपाले भव को वाऽयं प्रादुर्भूतोऽभवन्नरः। वचः श्रुत्वा हरेरीशस्तमुवाच विभो शृणु
नरो नामैष पुरुषः परमास्त्रविदां वरः। भवतोक्तो नर इति नरस्तस्माद्भविष्यति
नरनारायणौ चोभौ युगे ख्यातौ भविष्यतः। संग्रामे देवकार्येषु लोकानां परिपालने
एष नारायणसखो नरस्तस्माद्भविष्यति। अथासुरवधे साह्यं तव कर्ता महाद्युतिः
मुनिर्ज्ञानपरीक्षायां जेता लोके भविष्यति। तेजोधिकमिदं दिव्यं ब्रह्मणः पंचमं शिरः
तेजसो ब्रह्मणो दीप्ताद्भुजस्य तव शोणितात्। मम दृष्टि निपाताच्च त्रीणि तेजांसि यानि तु
तत्संयोगसमुत्पन्नः शत्रुं युद्धे विजेष्यति। अवध्या ये भविष्यंति दुर्जया अपि चापरे
शक्रस्य चामराणां च तेषामेष भयंकरः। एवमुक्त्वा स्थितः शंभुर्विस्मितश्च हरिस्तदा