उपवासं च यस्तस्यां करोत्येतत्समं स्मृतम् । तस्यां जगत्पतिर्देवस्तुष्टः सर्वेश्वरो हरिः
प्रत्यक्षतां प्रयात्येव तत्रानंतफलं स्मृतम् । सगरेण ककुत्स्थेन नहुषेण च साधितः
तस्यामाराधितः कृष्णो दत्तवानखिलं भुवि । वाचिकान्मानसाद्वापि कायजाच्च विशेषतः
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः । तामेकां समुपोष्याथ पुण्यनक्षत्रसंयुताम्
एकादशीसहस्रस्य फलं प्राप्नोति मानवः । स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम्
यत्तस्यां क्रियते किंचित्तदक्षयफलं स्मृतम् । तस्मादेषा प्रकर्तव्या यत्नेन फलकांक्षिभिः
पंचमेनाश्वमेधेन यदि स्नातो युधिष्ठिरः । पर्यपृच्छत धर्मात्मा कृष्णं यदुकुलोद्वहम्
युधिष्ठिर उवाच- उपवासस्य नक्तस्य त्वेकभुक्तस्य मे प्रभो । किं पुण्यं किं फलं तस्य ब्रूहि सर्वं जनार्दन
श्रीभगवानुवाच- हेमंते चैव संप्राप्ते मासे मार्गे च शोभने । कृष्णपक्षे च या पार्थ द्वादशी तामुपोषयेत् । दशम्यां चैकभक्तश्च शुद्धचित्तो दृढव्रतः
नक्तं चैव तथा ज्ञात्वा दशम्यां नियतः सदा । दिवसस्याष्टमे भागे मंदीभूते दिवाकरे
नक्तं च तद्विजानीयान्न नक्तं निशिभोजनम् । नक्षत्रदर्शनान्नक्तं गृहस्थस्य विधीयते
यतेर्दिनाष्टमे भागे रात्रौ तस्य निषेधनम् । ततः प्रभातसमये कृत्वा च नियमं व्रती
मध्याह्ने च तथा पार्थ स्नानं शुचिः समाचरेत् । अधमं कूपके स्नानं वाप्यां स्नानं च मध्यमम्
तडागे चोत्तमं स्नानं नद्यां स्नानं ततः परम् । पीड्यंते जंतवो यत्र जलमध्ये व्यवस्थिते
तत्र स्नाने कृते पार्थ पापं पुण्यं समं भवेत् । गृहे चैवोत्तमं स्नानं जलं चैव विशोधयेत्
तस्मात्तु पांडवश्रेष्ठ गृहे स्नानं समाचरेत् । अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे
मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् । क्रोधलोभौ परित्यज्य चैकचित्तो दृढव्रतः
नालापेतांत्यजं चैव तथा पाखंडिनो नरान् । मिथ्यावादरतांश्चैव तथा ब्राह्मणनिंदकान्
अन्यांश्चैव दुराचारानगम्यागमनेरतान् । परद्रव्यापहारांश्च परदाराभिगामिनः
केशवं पूजयित्वा तु नैवेद्यं तत्र कारयेत् । दीपं दद्याद्गृहे तत्र भक्तियुक्तेन चेतसा
तद्दिने वर्जयेत्पार्थ निद्रां चैव तु मैथुनम् । धर्मशास्त्रविनोदेन दिनं सर्वं निवारयेत्
रात्रौ जागरणं कृत्वा भक्तियुक्तो नृपोत्तम । विप्रेभ्यो दक्षिणां दद्यात्प्रणिपत्य क्षमापयेत्
यथा कृष्णा तथा शुक्ला विधिनैवं प्रकारयेत् । एकादशीं द्विजः पार्थ विभेदं नैव कारयेत्
एवं हि कुरुते यस्तु शृणु तस्य हि यत्फलम् । शंखोद्धारे नरः स्नात्वा दृष्ट्वा देवं गदाधरम्
एकादश्युपवासस्य कलां नार्हति षोडशीम् । संक्रांतिषु चतुर्लक्षं यो ददाति नृपोत्तम
एकादश्युपवासस्य कलां नार्हति षोडशीम् । प्रभासक्षेत्रे यत्पुण्यं ग्रहणे चंद्र सूर्ययोः
तत्फलं जायते नूनमेकादश्युपवासिनः । केदारे चोदकं पीत्वा पुनर्जन्म न विद्यते
तथा चैकादशी पार्थ गर्भवासक्षयंकरी । अश्वमेधस्य यज्ञस्य पृथिव्यां यत्फलं लभेत्
तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः । तपस्विनो गृहे यस्य भुंजते च द्विजोत्तमाः
तत्फलं जायते नूनमेकादश्युपवासिनः । गोसहस्रेण यत्पुण्यं दत्वा वेदांतपारगे