तथा तपस्यतां मृत्युं गतानां कालपर्ययात्। पाषाणेन शिरोभग्नं भवते पुण्यकर्मणाम्
अरण्ये निर्जने वासःकदा वै भविता हि नः। कर्णजप्यं श्रावकाश्च करिष्यंति समाहिताः
भोभो ऋषे न गंतव्यं मोक्षमार्गी यतो भवान्। लब्धानि यानि स्थानानि भूयोवृत्तिकराणि च
त्याज्यानि तेन चैतानि सत्यमेव वचो हि नः। अस्मदीयेन तपसा नियमैर्विविधैस्तथा
व्रजध्वं चोत्तमं स्थानं मोक्षमार्गं च यं बुधाः। विंदंति भक्तिभावेन तपोयुक्तास्तपस्विनः
अक्षेषु निग्रहो यत्र दयाभूतेषु सर्वदा। तत्तपोधर्ममित्युक्तं सर्वा चान्या विडंबना
ज्ञात्वैतद्भवता साध्यं गंतव्यं परमं पदम्। यां वै तीर्थंकरा याता यां गतिं योगिनो गताः
एवं वै देवताः पूर्वं विद्याधरमहोरगाः। मनोरथाभिलाषांस्ते चिंतयंतो दिवानिशम्
यद्येषणा वै युष्माकं संसारविरतौ कृता। परित्यजध्वं दाराणि स्वर्गमार्गार्गलानि च
यस्यां योनौ पिता यातस्तां योनिं सेवसे कथम्। आत्ममांसोपमं मांसं कथं खादंति जंतवः
ततस्ते दानवा भीष्मा ऊचुः सर्वे गुरुं वचः। दीक्षस्व नो महाभाग भ्रूणकानग्रतः स्थितान्
तथा कृत्वा स तानाह समयेन पुरोहितः। प्रणामो नान्यदेवेषु कर्तव्यो वः कदाचन
एकस्थाने यदा भक्तं भोक्तव्यं करसंपुटे। तत्रस्थाने स्थितं तोयं केशकीटविवर्जितम्
तुल्यं प्रियाप्रियं कार्यं नान्यदृष्टिहतं क्वचित्। भोक्तव्यमेतेन विभो आचारेण तथा कुरु४०० 1.13.
भवध्वं सहिता यूयं ते तथा मोक्षभागिनः। एवमुक्त्वा स नियमान्कृत्वा तान्दनुपुंगवान्
जगाम धिषणो राजन्देवलोकं दिवौकसाम्। आचचक्षे स तत्सर्वं दानवानां च कारितम्
ततस्ते त्वसुरा जग्मुर्नर्मदामभितो वसन्। दृष्ट्वा तान्दानवांस्तत्र प्रह्लादेन विना कृतान्
देवराजस्ततो हृष्टो नमुचिं प्राह वै वचः। हिरण्याक्षं यज्ञहनं धर्मघ्नं वेदनिंदकम्
राक्षसं क्रूरकर्माणं प्रघसं विघसं तथा। मुचिं चैव तथा बाणं विरोचनमथापि वा
महिषाक्षं बाष्कलं च प्रचंडं चंडकं तथा। रोचमानं तथात्युग्रं सुषेणं दानवोत्तमम्
एतान्दृष्ट्वा तथा चान्यान्दानवेंद्रानथाब्रवीत्। इन्द्र उवाच। दानवेंद्राः पुरा जाताः कृतं राज्यं त्रिविष्टपे
इदानीं कथमेवेदं व्रतं वेदविलोपकम्। भवद्भिः कर्तुमारब्धं नग्नमुंडिकमंडलु
मयूरध्वजधारित्वं कथं चैवेह तिष्ठथ। दानवा ऊचुः। त्यक्तः सर्वासुरभाव ऋषिधर्मे वयं स्थिताः
धर्मवृद्धिकरं कर्म चरामः सर्वजंतुषु। त्रैलोक्यराज्यमखिलं भुंक्ष्व शक्र व्रजस्व च
तथेति चोक्त्वा मघवा पुनर्यातस्त्रिविष्टपम्। एवं ते मोहिताः सर्वे भीष्म देवपुरोधसा
नर्मदा सरितं प्राप्य स्थिता दानवसत्तमाः। ज्ञात्वा शुक्रेण ते सर्वे वृत्तांतमनुबोधिताः
तदा त्रैलोक्यहरणे चक्रुः क्रूरां पुनर्मतिम्
भीष्म उवाच। कथं त्रिपुरुषाज्जातो ह्यर्जुनः परवीरहा। कथं कर्णस्तु कानीनः सूतजः परिकीर्त्यते
वरं तयोः कथं भूतं निसर्गादेव तद्वद। बृहत्कौतूहलं मह्यं तद्भवान्वक्तुमर्हति
पुलस्त्य उवाच। छिन्ने वक्त्रे पुरा ब्रह्मा क्रोधेन महता वृतः। ललाटे स्वेदमुत्पन्नं गृहीत्वा ताडयद्भुवि