त्रयीमार्गं समुत्सृज्य मायामोहेन तेसुराः। कारितास्तन्मया ह्यासंस्तथान्ये तत्प्रबोधिताः
तैरप्यन्ये परे तैश्च तैरन्योन्यैस्तथापरे। नमोऽर्हते चेति सर्वे संगमे स्थिरवादिनः
अल्पैरहोभिः संत्यक्ता तैर्दैत्यैः प्रायशस्त्रयी। पुनश्च रक्तांबरधृन्मायामोहो जितेक्षणः
सोन्यानप्यसुरान्गत्वा ऊचेन्यन्मधुराक्षरम्। स्वर्गार्थं यदि वो वाञ्छा निर्वाणार्थाय वा पुनः
तदलं पशुघातादि दुष्टधर्मैर्निबोधत। विज्ञानमयमेतद्वै त्वशेषमधिगच्छत
बुध्यध्वं मे वचः सम्यग्बुधैरेवमिहोदितम्। जगदेतदनाधारं भ्रांतिज्ञानानुतत्परम्
रागादिदुष्टमत्यर्थं भ्राम्यते भवसंकटे। नानाप्रकारं वचनं स तेषां मुक्तियोजितम्
तथा तथावदद्धर्मं तत्यजुस्ते यथायथा। केचिद्विनिंदां वेदानां देवानामपरे नृप
यज्ञकर्मकलापस्य तथा चान्ये द्विजन्मनाम्। नैतद्युक्तिसहं वाक्यं हिंसा धर्माय जायते
हवींष्यनलदग्धानि फलान्यर्हंति कोविदाः। निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते
स्वपिता यजमानेन किं वा तत्र न हन्यते। तृप्तये जायते पुंसो भुक्तमन्येन चेद्यदि
दद्याच्छ्राद्धं प्रवसतो न वहेयुः प्रवासिनः। यज्ञैरनेकैर्देवत्वमवाप्येंद्रेण भुज्यते
शम्यादि यदि चेत्काष्ठं तद्वरं पत्रभुक्पशुः। जना श्रद्धेयमित्येतदवगम्य तु तद्वचः
उपेक्ष्य श्रेयसे वाक्यं रोचतां यन्मयेरितम्। न ह्याप्तवादा नभसो निपतंति महासुराः
युक्तिमद्वचनं ग्राह्यं मयान्यैश्च भवद्विधैः। दानवा ऊचुः। तत्ववादे वयं सर्वे प्रपन्नास्तव भक्तितः
कुरुष्वानुग्रहं चाद्य प्रसन्नोसि यदि प्रभो। संभारानाहरामोद्य दीक्षायोग्यांश्च सर्वशः
प्रसादात्तव येनाशु मोक्षो हस्तगतो भवेत्। ततस्तानब्रवीत्सर्वान्मायामोहोसुरांस्तदा
प्रपन्नः शासनं ह्येष मदीयो गुरुरग्र्यधीः। दीक्षां दास्यति युष्माकं निदेशान्मम सत्तमः
एतान्दीक्षय भो ब्रह्मन्वचनान्मम पुत्रकान्। गते मोहे दानवास्ते भार्गवं वाक्यमब्रुवन्
देहि दीक्षां महाभाग सर्वसंसारमोचनीम्। तथेत्याहोशना दैत्यान्गच्छामो नर्मदामनु
भोभोस्त्यजत वासांसि दीक्षां कारयितास्मि वः। एवं ते दानवा भीष्म भृगुरूपेण धीमता
आंगिरसेन ते तत्र कृता दिग्वाससोसुराः। बर्हिपिच्छध्वजं तेषां गुंजिका चारुमालिकां
दत्वा चकार तेषां तु शिरसो लुंचनं ततः। केशस्योत्पाटनं चैव परमं धर्मसाधनम्
धनानामीश्वरो देवो धनदः केशलुंचनात्। सिद्धिं परमिकां प्राप्ताः सदा वेषस्य धारणात्
नित्यत्वं लभ्यते ह्येवं पुरा प्राहार्हतः स्वयम्। वालोत्पाटेन देवत्वं मानुषैर्लभ्यते त्विह
किं न कुर्वीत तत्तस्मान्महापुण्यप्रदं यतः। मनोरथो हि देवानां लोके वै मानुषे कदा
अस्मिन्स्याद्भारते वर्षे जन्मनः श्रावके कुले। तपसा युञ्ज्महेस्मान्वै केशोत्पाटनपूर्वकम्
तीर्थंकराश्चतुर्विंशत्तथा तैस्तु पुरस्कृताः। छायाकृतं फणींद्रेण ध्यानमार्गप्रदर्शकम्
स्तुवन्तं मंत्रवादेन स्वर्गो हस्तगतोर्हतं। मोक्षो वा भविता नूनं विचारः कोत्र कथ्यते
कदा स्यामर्षयो भूत्वा सूर्याग्निसमतेजसः। जप्त्वा विरागिणश्चैवमनुपंचांगकं तथा