उद्धरस्व गुरो सर्वान्केशाकर्षेण कूपतः। कस्य देवस्य शरणं गच्छामो ब्राह्मणोत्तम
दैवतं च प्रपन्नानां प्रकाशय महामते। स्मरणेनोपवासेन ध्यानधारणया तथा
पूजोपहारे च कृते अपवर्गस्तु लभ्यते। विरक्तास्स्म कुटुंबे तु भूयो नात्र यतामहे
एवं चैव गुरुश्छन्नस्तैरुक्तो दनुपुंगवैः। चिंतयामास तत्कार्यं कथमेतत्करोम्यहम्
कथमेते मया पापाः कर्तव्या नरकौकसः। विडंबनाच्छ्रुतेर्बाह्यास्त्रैलोक्ये हास्यकारिणः
इत्युक्त्वा धिषणो राजंश्चिन्तयामास केशवम्। तस्य तच्चिंतितं ज्ञात्वा मायामोहं जनार्दनः
समुत्पाद्य ददौ तस्य प्राह चेदं बृहस्पतिम्। मायामोहोयमखिलांस्तान्दैत्यान्मोहयिष्यति
भवता सहितः सर्वान्वेदमार्गबहिष्कृतान्। एवमादिश्य भगवानंतर्द्धानं जगाम ह
तपस्यभिरतान्सोथ मायामोहो गतोऽसुरान्। तेषां समीपमागत्य बृहस्पतिरुवाच ह
अनुग्रहार्थं युष्माकं भक्त्या प्रीतस्त्विहागतः। योगी दिगम्बरो मुण्डो बर्हिपत्रधरो ह्ययम्
इत्युक्ते गुरुणा पश्चान्मायामोहोब्रवीद्वचः। भो भो दैत्याधिपतयः प्रब्रूत तपसि स्थिताः
एहिकार्थं तु पारक्यं तपसः फलमिच्छथ। दानवा ऊचुः। पारक्यधर्मलाभाय तपश्चर्या हि नो मता
अस्माभिरियमारब्धा किं वा तत्र विवक्षितम्। दिगंबर उवाच। कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ
आर्हतं सर्वमेतच्च मुक्तिद्वारमसंवृतम्। धर्माद्विमुक्तेरर्होयं नैतस्मादपरः परः३५० 1.13.
अत्रैवावस्थिताः स्वर्गं मुक्तिं चापि गमिष्यथ। एवंप्रकारैर्बहुभिर्मुक्तिदर्शनवर्जितैः
मायामोहेन ते दैत्याः वेदमार्गबहिष्कृताः। धर्मायैतदधर्माय सदेतदसदित्यपि
विमुक्तये त्विदं नैतद्विमुक्तिं संप्रयच्छति। परमार्थोयमत्यर्थं परमार्थो न चाप्ययम्
कार्यमेतदकार्यं हि नैतदेतत्स्फुटं त्विदम्। दिग्वाससामयं धर्मो धर्मोयं बहुवाससाम्
इत्यनेकार्थवादांस्तु मायामोहेन ते यतः। उक्तास्ततोऽखिला दैत्याः स्वधर्मांस्त्याजिता नृप
अर्हध्वं मामकं धर्मं मायामोहेन ते यतः। उक्तास्तमाश्रिता धर्ममार्हतास्तेन तेभवन्
त्रयीमार्गं समुत्सृज्य मायामोहेन तेसुराः। कारितास्तन्मया ह्यासंस्तथान्ये तत्प्रबोधिताः
तैरप्यन्ये परे तैश्च तैरन्योन्यैस्तथापरे। नमोऽर्हते चेति सर्वे संगमे स्थिरवादिनः
अल्पैरहोभिः संत्यक्ता तैर्दैत्यैः प्रायशस्त्रयी। पुनश्च रक्तांबरधृन्मायामोहो जितेक्षणः
सोन्यानप्यसुरान्गत्वा ऊचेन्यन्मधुराक्षरम्। स्वर्गार्थं यदि वो वाञ्छा निर्वाणार्थाय वा पुनः
तदलं पशुघातादि दुष्टधर्मैर्निबोधत। विज्ञानमयमेतद्वै त्वशेषमधिगच्छत
बुध्यध्वं मे वचः सम्यग्बुधैरेवमिहोदितम्। जगदेतदनाधारं भ्रांतिज्ञानानुतत्परम्
रागादिदुष्टमत्यर्थं भ्राम्यते भवसंकटे। नानाप्रकारं वचनं स तेषां मुक्तियोजितम्
तथा तथावदद्धर्मं तत्यजुस्ते यथायथा। केचिद्विनिंदां वेदानां देवानामपरे नृप
यज्ञकर्मकलापस्य तथा चान्ये द्विजन्मनाम्। नैतद्युक्तिसहं वाक्यं हिंसा धर्माय जायते
हवींष्यनलदग्धानि फलान्यर्हंति कोविदाः। निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते