योनिजास्तु कथं योनिं सेवंते जंतवस्त्वमी। मैथुनेन कथं स्वर्गं यास्यंते दानवेश्वर। मृद्भस्मना यत्रशुद्धिस्तत्र शुद्धिस्तु का भवेत्
विपरीततमं लोकं पश्य दानव यादृशम्। विण्मूत्रस्य कृतोत्सर्गे शिश्नापाने तु शोधनम्
भुक्ते वा भोजने राजन्कथं नापानशिश्नयोः
क्रियते शोधनं तद्वद्विपरीता स्थितिस्त्वियम्। यत्र प्रक्षालनं प्रोक्तं तत्र तेनैव कुर्वते
तारां बृंहस्पतेर्भार्यां हृत्वा सोमः पुरा गतः। तस्यां जातो बुधः पुत्रो गुरुर्जग्राह तां पुनः
गौतमस्य मुनेः पत्नीमहल्यां नाम नामतः। अगृह्णात्तां स्वयं शक्रः पश्य धर्मो यथाविधः
एतदन्यच्च जगति दृश्यते पापदायकम्। एवंविधो यत्र धर्मः परमार्थो मतस्तु कः
वदस्व त्वं दानवेंद्र वद भूयो वदामि ते। गुरोस्तु गदितं श्रुत्वा परमार्थान्वितं वचः
जातकौतूहलास्तत्र विविक्तास्तु भवार्णवात्। दानवा ऊचुः। दीक्षयस्व गुरो सर्वान्प्रपन्नान्भक्तितः स्थितान्
येन वै न पुनर्मोहं व्रजामस्तव शासनात्। सुविरक्ताः स्म संसारे शोकमोहप्रदायिनि
उद्धरस्व गुरो सर्वान्केशाकर्षेण कूपतः। कस्य देवस्य शरणं गच्छामो ब्राह्मणोत्तम
दैवतं च प्रपन्नानां प्रकाशय महामते। स्मरणेनोपवासेन ध्यानधारणया तथा
पूजोपहारे च कृते अपवर्गस्तु लभ्यते। विरक्तास्स्म कुटुंबे तु भूयो नात्र यतामहे
एवं चैव गुरुश्छन्नस्तैरुक्तो दनुपुंगवैः। चिंतयामास तत्कार्यं कथमेतत्करोम्यहम्
कथमेते मया पापाः कर्तव्या नरकौकसः। विडंबनाच्छ्रुतेर्बाह्यास्त्रैलोक्ये हास्यकारिणः
इत्युक्त्वा धिषणो राजंश्चिन्तयामास केशवम्। तस्य तच्चिंतितं ज्ञात्वा मायामोहं जनार्दनः
समुत्पाद्य ददौ तस्य प्राह चेदं बृहस्पतिम्। मायामोहोयमखिलांस्तान्दैत्यान्मोहयिष्यति
भवता सहितः सर्वान्वेदमार्गबहिष्कृतान्। एवमादिश्य भगवानंतर्द्धानं जगाम ह
तपस्यभिरतान्सोथ मायामोहो गतोऽसुरान्। तेषां समीपमागत्य बृहस्पतिरुवाच ह
अनुग्रहार्थं युष्माकं भक्त्या प्रीतस्त्विहागतः। योगी दिगम्बरो मुण्डो बर्हिपत्रधरो ह्ययम्
इत्युक्ते गुरुणा पश्चान्मायामोहोब्रवीद्वचः। भो भो दैत्याधिपतयः प्रब्रूत तपसि स्थिताः
एहिकार्थं तु पारक्यं तपसः फलमिच्छथ। दानवा ऊचुः। पारक्यधर्मलाभाय तपश्चर्या हि नो मता
अस्माभिरियमारब्धा किं वा तत्र विवक्षितम्। दिगंबर उवाच। कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ
आर्हतं सर्वमेतच्च मुक्तिद्वारमसंवृतम्। धर्माद्विमुक्तेरर्होयं नैतस्मादपरः परः३५० 1.13.
अत्रैवावस्थिताः स्वर्गं मुक्तिं चापि गमिष्यथ। एवंप्रकारैर्बहुभिर्मुक्तिदर्शनवर्जितैः
मायामोहेन ते दैत्याः वेदमार्गबहिष्कृताः। धर्मायैतदधर्माय सदेतदसदित्यपि
विमुक्तये त्विदं नैतद्विमुक्तिं संप्रयच्छति। परमार्थोयमत्यर्थं परमार्थो न चाप्ययम्
कार्यमेतदकार्यं हि नैतदेतत्स्फुटं त्विदम्। दिग्वाससामयं धर्मो धर्मोयं बहुवाससाम्
इत्यनेकार्थवादांस्तु मायामोहेन ते यतः। उक्तास्ततोऽखिला दैत्याः स्वधर्मांस्त्याजिता नृप
अर्हध्वं मामकं धर्मं मायामोहेन ते यतः। उक्तास्तमाश्रिता धर्ममार्हतास्तेन तेभवन्