नानेन कार्यमस्माकं या तु ह्येष यथागतः। सक्रोधमशपत्काव्यो दानवेंद्रान्समागतान्
त्यक्तो यथाहं युष्माभिस्तथा सर्वांश्चिरादिव। गतश्रीकान्गतप्राणान्पश्येयं दुःखजीविकान्
सुघोरामापदं प्राप्तानचिरादेव सर्वशः। एवमुक्त्वा गतः काव्यो यदृच्छातस्तपोवनम्
तस्मिन्गते ततः शुक्रे स्थितस्तत्र बृहस्पतिः। पालयन्दानवांस्तत्र किंचित्कालमतिष्ठत
ततो बहुतिथे काले अतिक्रांते नरेश्वर। संभूय दानवाः सर्वे पर्यपृछंस्तदा गुरुम्
संसारेस्मिन्नसारे तु किंचिज्ज्ञानं प्रयच्छ नः। येन मोक्षं व्रजामश्च प्रसादात्तव सुव्रत
ततः सुरगुरुः प्राह काव्यरूपी तदा गुरुः। ममाप्येषा मतिः पूर्वं या युष्माभिरुदाहृता
क्षणं कुर्वंतु सहिताश्शुचीभूय समाहिताः। ज्ञानं वक्ष्यामि वो दैत्या अहं वै मोक्षदायि यत्
एषा श्रुतिर्वैदिकी या ऋग्यजुःसामसंज्ञिता। वैश्वानरप्रसादात्तु दुःखदा प्राणिनामिह
यज्ञश्राद्धं कृतं क्षुद्रैरैहिकस्वार्थतत्परैः। ये त्वमी वैष्णवा धर्मा ये च रुद्रकृतास्तथा
कुधर्मा दारसहितैर्हिंसाप्रायाः कृताहितैः। अर्द्धनारीश्वरो रुद्र कथं मोक्षं गमिष्यति
वृतो भूतगणैर्भूरिभूषितश्चास्थिभिस्तथा। न स्वर्गो नैव मोक्षोत्र लोकाः क्लिश्यंति वै तथा
हिंसायामास्थितो विष्णुः कथं मोक्षं गमिष्यति। रजोगुणात्मको ब्रह्मा स्वां सृष्टिमुपजीवति
देवर्षयोथ ये चान्ये वैदिकं पक्षमाश्रिताः। हिंसाप्रायाः सदा क्रूरा मांसादाः पापकारिणः
सुरास्तु मद्यपानेन मांसादा ब्राह्मणास्त्वमी। धर्मेणानेन कः स्वर्गं कथं मोक्षं गमिष्यति
यच्च यज्ञादिकं कर्म स्मार्तं श्राद्धादिकं तथा। तत्र नैवापवर्गोस्ति यत्रैषा श्रूयते श्रुतिः
यज्ञं कृत्वा पशुं हत्वा कृत्वा रुधिरकर्दमम्। यद्येवं गम्यते स्वर्गो नरकः केन गम्यते
यदि भुक्तमिहान्येन तृप्तिरन्यस्य जायते। दद्यात्प्रवसतः श्राद्धं न स भोजनमाहरेत्
आकाशगामिनो विप्राः पतिता मांसभक्षणात्। तेषां न विद्यते स्वर्गो मोक्षो नैवेह दानवाः
जातस्य जीवितं जंतोरिष्टं सर्वस्य जायते। आत्ममांसोपमं मांसं कथं खादेत पंडितः
योनिजास्तु कथं योनिं सेवंते जंतवस्त्वमी। मैथुनेन कथं स्वर्गं यास्यंते दानवेश्वर। मृद्भस्मना यत्रशुद्धिस्तत्र शुद्धिस्तु का भवेत्
विपरीततमं लोकं पश्य दानव यादृशम्। विण्मूत्रस्य कृतोत्सर्गे शिश्नापाने तु शोधनम्
भुक्ते वा भोजने राजन्कथं नापानशिश्नयोः
क्रियते शोधनं तद्वद्विपरीता स्थितिस्त्वियम्। यत्र प्रक्षालनं प्रोक्तं तत्र तेनैव कुर्वते
तारां बृंहस्पतेर्भार्यां हृत्वा सोमः पुरा गतः। तस्यां जातो बुधः पुत्रो गुरुर्जग्राह तां पुनः
गौतमस्य मुनेः पत्नीमहल्यां नाम नामतः। अगृह्णात्तां स्वयं शक्रः पश्य धर्मो यथाविधः
एतदन्यच्च जगति दृश्यते पापदायकम्। एवंविधो यत्र धर्मः परमार्थो मतस्तु कः
वदस्व त्वं दानवेंद्र वद भूयो वदामि ते। गुरोस्तु गदितं श्रुत्वा परमार्थान्वितं वचः
जातकौतूहलास्तत्र विविक्तास्तु भवार्णवात्। दानवा ऊचुः। दीक्षयस्व गुरो सर्वान्प्रपन्नान्भक्तितः स्थितान्
येन वै न पुनर्मोहं व्रजामस्तव शासनात्। सुविरक्ताः स्म संसारे शोकमोहप्रदायिनि