किमर्थं भवता त्यक्तः कृतश्चान्यः पुरोहितः। देवाचार्यॐगिरःपुत्रएषएवबृहस्पतिः
वंचितोसि न संदेहो हितार्थं तु दिवौकसाम्। त्यजस्वैनं महाभाग शत्रुपक्षजयावहम्
अनुशिष्यभयाद्यातः पूर्वमेवमहं प्रभो। जलमध्येस्थितः पीतो महादेवेन शंभुना
उदरस्थस्य मे जातं साग्रं वर्षशतं किल। उदराच्छुक्ररूपेण शिश्नेनाहं विसर्जितः३०० 1.13.
वरदः प्राह मां देवश्शुक्रेष्टं त्वं वरं वृणु। मयावृतो वरं राजन्देवदेवः पिनाकधृत्
मनसा चिंतिता ह्यर्था मानसे ये स्थिता वराः। भवंतु मयि ते सर्वे प्रसादात्तव शंकर
एवमस्त्विति देवेन प्रेषितोऽस्मि तवांतिकम्। तावदत्राभवच्चायं पुरोधास्ते बृहस्पतिः
दृष्टः सत्यं दानवेंद्र मयोक्तं त्वं निशामय। बृहस्पतिस्तदा वाक्यं प्रह्लादं प्रत्यभाषत
नाहमेतं प्रजानामि देवं वा दानवं नरम्। मद्रूपधारिणं राजन्वंचनार्थं तवागतम्
ततस्ते दानवाः सर्वे साधुसाध्विति वादिनः। पुरोधाः पौर्विको नोस्तु यो वा को वा भवत्विति
नानेन कार्यमस्माकं या तु ह्येष यथागतः। सक्रोधमशपत्काव्यो दानवेंद्रान्समागतान्
त्यक्तो यथाहं युष्माभिस्तथा सर्वांश्चिरादिव। गतश्रीकान्गतप्राणान्पश्येयं दुःखजीविकान्
सुघोरामापदं प्राप्तानचिरादेव सर्वशः। एवमुक्त्वा गतः काव्यो यदृच्छातस्तपोवनम्
तस्मिन्गते ततः शुक्रे स्थितस्तत्र बृहस्पतिः। पालयन्दानवांस्तत्र किंचित्कालमतिष्ठत
ततो बहुतिथे काले अतिक्रांते नरेश्वर। संभूय दानवाः सर्वे पर्यपृछंस्तदा गुरुम्
संसारेस्मिन्नसारे तु किंचिज्ज्ञानं प्रयच्छ नः। येन मोक्षं व्रजामश्च प्रसादात्तव सुव्रत
ततः सुरगुरुः प्राह काव्यरूपी तदा गुरुः। ममाप्येषा मतिः पूर्वं या युष्माभिरुदाहृता
क्षणं कुर्वंतु सहिताश्शुचीभूय समाहिताः। ज्ञानं वक्ष्यामि वो दैत्या अहं वै मोक्षदायि यत्
एषा श्रुतिर्वैदिकी या ऋग्यजुःसामसंज्ञिता। वैश्वानरप्रसादात्तु दुःखदा प्राणिनामिह
यज्ञश्राद्धं कृतं क्षुद्रैरैहिकस्वार्थतत्परैः। ये त्वमी वैष्णवा धर्मा ये च रुद्रकृतास्तथा
कुधर्मा दारसहितैर्हिंसाप्रायाः कृताहितैः। अर्द्धनारीश्वरो रुद्र कथं मोक्षं गमिष्यति
वृतो भूतगणैर्भूरिभूषितश्चास्थिभिस्तथा। न स्वर्गो नैव मोक्षोत्र लोकाः क्लिश्यंति वै तथा
हिंसायामास्थितो विष्णुः कथं मोक्षं गमिष्यति। रजोगुणात्मको ब्रह्मा स्वां सृष्टिमुपजीवति
देवर्षयोथ ये चान्ये वैदिकं पक्षमाश्रिताः। हिंसाप्रायाः सदा क्रूरा मांसादाः पापकारिणः
सुरास्तु मद्यपानेन मांसादा ब्राह्मणास्त्वमी। धर्मेणानेन कः स्वर्गं कथं मोक्षं गमिष्यति
यच्च यज्ञादिकं कर्म स्मार्तं श्राद्धादिकं तथा। तत्र नैवापवर्गोस्ति यत्रैषा श्रूयते श्रुतिः
यज्ञं कृत्वा पशुं हत्वा कृत्वा रुधिरकर्दमम्। यद्येवं गम्यते स्वर्गो नरकः केन गम्यते
यदि भुक्तमिहान्येन तृप्तिरन्यस्य जायते। दद्यात्प्रवसतः श्राद्धं न स भोजनमाहरेत्
आकाशगामिनो विप्राः पतिता मांसभक्षणात्। तेषां न विद्यते स्वर्गो मोक्षो नैवेह दानवाः
जातस्य जीवितं जंतोरिष्टं सर्वस्य जायते। आत्ममांसोपमं मांसं कथं खादेत पंडितः