प्रजेशत्वं धनेशत्वमवध्यत्वं च वै ददौ। एतान्लब्ध्वा वरान्काव्यः संप्रहृष्टतनूरुहः
एवमाभाष्य देवेशमीश्वरं नीललोहितम्। प्रज्ञान्वितस्ततस्तस्मै प्राञ्जलि प्रणतो ऽभवत्
ततः सोंऽतर्हिते देवे जयंतीमिदमब्रवीत्। कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता
महता तपसा युक्ता किमर्थं मां जिगीषसि। अनया संस्थिता भक्त्या प्रश्रयेण दमेन च
स्नेहेन चैव सुश्रोणि प्रीतोस्मि वरवर्णिनि। किमिच्छसि वरारोहे कस्ते कामः समुद्यतः
तं ते संपादयाम्यद्य यद्यपि स्यात्सुदुष्करम्। एवमुक्ताब्रवीदेनं तपसा ज्ञातुमर्हसि
चिकीर्षितं हि मे ब्रह्मंस्त्वं वै वद यथातथम्। एवमुक्तोब्रवीदेनं दृष्ट्वा दिव्येन चक्षुषा
मया सह त्वं सुश्रोणि शतवर्षाणि भामिनि। सर्वभूतैरदृश्यांतः संप्रयोगमिहेच्छसि
देवि इंदीवरश्यामे वरार्हे वामलोचने। एवं वृणोषि कामांस्त्वं ददे वै वल्गुभाषिते
एवं भवतु गच्छाव गृहं मे मत्तकाशिनि। ततः स गृहमागम्य जयंत्या सह चोशना
तया सहावसद्देव्या शतवर्षाणि भार्गवः। अदृश्यः सर्वभूतानां मायया संशितव्रतः
कृतार्थमागतं ज्ञात्वा शुक्रं सर्वे दितेस्सुताः। अभिजग्मुर्गृहं तस्य मुदितास्ते दिदृक्षवः
गता यदा न पश्यंति मायया संवृतं गुरुम्। लक्षणं तस्य चाबुद्ध्वा नाद्यागच्छति नो गुरुः
एवं ते स्वानि धिष्ण्यानि गताः सर्वे यथागताः। ततो देवगणास्सर्वे गत्वांगिरसमब्रुवन्
दानवालये तु भगवान्गत्वा तत्र च तां चमूम्। मोहयित्वात्मवशगां क्षिप्रमेव तथा कुरु
धिषणस्तान्सुरानाह एवमेव व्रजाम्यहम्। तेन गत्वा दानवेंद्रः प्रह्लादो वै वशीकृतः
शुक्रो भूत्वा स्थितस्तत्र पौरोहित्यं चकार सः। स्थितो वर्षशतं साग्रमुशना तावदागतः
दनुपुत्रैस्ततो दृष्टः सभायां तु बृहस्पतिः। उशना एक एवात्र द्वितीयः किमिहागतः
सुमहत्कौतुकं चात्र भविता विग्रहो दृढम्। किं वदिष्यति लोकोयं द्वारि योयं व्यवस्थितः
सभायामास्थितो योयं गुरुः किं नो वदिष्यति। एवं प्रजल्पतां तेषां दनूनां कविरागतः
स्वरूपधारिणं तत्र दृष्ट्वासीनं बृहस्पतिम्। उवाच वचनं क्रुद्धः किमर्थं त्वमिहागतः
शिष्यान्मोहयसे मे त्वं युक्तं सुरगुरोस्तव। मूढास्ते त्वां न जानंति त्वन्मायामोहिता ध्रुवम्
तन्न युक्तं तव ब्रह्मन्परशिष्यप्रधर्षणम्। व्रज त्वं देवलोकं स्वं तिष्ठ धर्ममवाप्स्यसि
शिष्यो हि मे कचः पूर्वं हतो दानवपुंगवैः। विद्यार्थी तनयो ब्रह्मंस्तवायोग्या गतिस्त्विह
श्रुत्वा तु तस्य तद्वाक्यं स्मितं कृत्वावदद्गुरुः। संति चोराः पृथिव्यां येपरद्रव्यापहारिणः
एवं विधानदृष्टाश्च रूपदेहापहारिणः। वृत्रघातेन चेंद्रस्य ब्रह्महहत्या पुराभवत्
लोकायतिक शास्त्रेण भवता सा तिरस्कृता। जानामि त्वामांगिरसं देवाचार्यं बृहस्पतिम्
मद्रूपधारिणं प्राप्तं सर्वे पश्यत दानवाः। एष वो मोहनायालं प्राप्तो विष्णुविचेष्टितैः
तदेनं शृंखलैर्बद्ध्वा क्षिपेत लवणार्णवे। पुनरेवाब्रवीच्छुक्रः पुरोधायं दिवौकसाम्
मोहितानूनमेतेन क्षयं यास्यथ दानवाः। भो अहं दानवेंद्रेह वंचितोऽस्मि दुरात्मना