गतेषु सुरसंघेषु विष्णुरिंद्रमभाषत। विष्णुरुवाच। मां त्वं प्रविश भद्रं ते रक्षिष्ये त्वां सुरोत्तम
एवमुक्तस्ततो विष्णुं प्रविवेश पुरंदरः। विष्णुसंरक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽब्रवीत्
एष त्वां विष्णुना सार्धं दहामि मघवन्बलात्। मिषतां सर्वभूतानां दृश्यतां मे तपोबलम्
तयाभिभूतौ तौ देवाविंद्रविष्णू बभूवतुः। कथं मुच्येय सहितो विष्णुरिंद्रमभाषत
इंद्रोब्रवीज्जहि ह्येनां यावन्नौ न दहेत्प्रभो। विशेषेणाभिभूतोस्मि जहीमां जहि मा चिरम्
ततः समीक्ष्य विष्णुस्तांस्त्रीवधे कृच्छ्रमास्थितः। अभिध्याय ततः शक्रमापन्नं सत्वरं प्रभुः
ततः स त्वरयायुक्तः शीघ्रकारी भयान्वितः। ज्ञात्वा विष्णुस्ततस्तस्याः क्रूरं देव्याश्चिकीर्षितम्
क्रुद्धश्च चक्रमादाय शिरश्चिच्छेद वै भयात्। तं दृष्ट्वा स्त्रीवधं घोरं चुक्रोध भृगुरीश्वरः
ततो हि शप्तो भृगुणा विष्णुर्भार्यावधे कृते। भृगुरुवाच। यत्त्वया जानता धर्ममवध्या स्त्री निषूदिता
तस्मात्त्वं सप्तकृत्वो हि मानुषेषूपयास्यसि। ततस्तेनाभिशापेन नष्टे धर्मे पुनःपुनः
लोकस्य च हितार्थाय जायते मानुषेष्विह। अथ व्याहृत्य विष्णुं स तदादाय शिरः स्वयम्
समानीय ततः कायं पाणौ गृह्येदमब्रवीत्। भृगुरुवाच। एषा त्वं विष्णुना देवि हता संजीवयाम्यहं
यदि कृत्स्नो मया धर्मो ज्ञायते चरितोपि वा। तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम्
ततस्तां प्रोक्ष्य शीताद्भिर्जीवजीवेति सोब्रवीत्। ततोभिव्याहृते तस्मिन्देवी संजीविता तदा२५० 1.13.
ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव। साधुसाध्विति दृष्ट्वैव वचस्तां सर्वतोब्रुवन्
एवं प्रत्याहृता तेन देवी सा भृगुणा तदा। मिषतां दैवतानां हि तदद्भुतमिवाभवत्
असंभ्रांतेन भृगुणा पत्नी संजीविता पुनः। दृष्ट्वा चेंद्रो नालभत शर्म काव्यभयात्पुनः
प्रजागरे ततश्चेंद्रो जयंतीमिदमब्रवीत्। संधिकामोभ्यधाद्वाक्यं स्वां कन्यां पाकशासनः
इन्द्र उवाच। एष काव्यो ह्यनिंद्राय व्रतं चरति दारुणम्। तेनाहं व्याकुलः पुत्रि कृतो मतिमता दृढम्
तैस्तैर्मनोनुकूलैश्च उपचारैरतंद्रिता। आराधय तथा पुत्रि यथा तुष्येत स द्विजः
गच्छ त्वं तस्य दत्तासि प्रयत्नं कुरु मत्कृते। एवमुक्ता जयंती सा वचः संगृह्य वै पितुः
अगच्छद्यत्र घोरं स तपो ह्यारभ्य तिष्ठति। तं दृष्ट्वा च पिबंतं सा कणधूममधोमुखम्
यक्षेण पात्यमानं च कुंडधारेण पावनम्। दृष्ट्वा तं यतमानं तु देवी काव्यमवस्थितम्
शत्रूपघाते श्राम्यंन्तं दुर्बलस्थितिमास्थितम्। पित्रा यथोक्तं वाक्यं सा काव्ये कृतवती तदा
गीर्भिश्चैवानुकूलाभिः स्तुवंती वल्गुभाषिणी। गात्रसंवाहनैः काले सेवमाना त्वचः सुखैः
व्रतचर्यानुकूलाभिरुपास्य बहुलाः समाः। पूर्णे धूमव्रते तस्मिन्घोरे वर्षसहस्रके
वरेण छंदयामास शिवः प्रीतोभवत्तदा। महेश्वर उवाच। एतद्व्रतं त्वयैकेन चीर्णं नान्येन केनचित्
तस्माद्वै तपसा बुद्ध्या श्रुतेन च बलेन च। तेजसा च सुरान्सर्वांस्त्वमेकोभिभविष्यसि
यच्च किंचिन्मयि ब्रह्मन्विद्यते भृगुनंदन। प्रतिदास्यामि तत्सर्वं त्वया वाच्यं न कस्यचित्
किं भाषितेन बहुना अवध्यस्त्वं भविष्यसि। तान्दत्वा तु वरांस्तस्मै भार्गवाय पुनः पुनः