ततस्तानब्रवीत्काव्य उपाध्वं तपसि स्थिताः। निरुत्सिक्तास्तपोयुक्ताः कालं कार्यार्थसाधकम्
पितुराश्रमसंस्था वै मां प्रतीक्षथ दानवाः। तानुद्दिश्यासुरान्काव्यो महादेवं प्रपद्यत
शुक्र उवाच। मंत्रानिच्छाम्यहं देव येन सन्ति बृहस्पतौ। पराभवाय देवानामसुराणां जयाय च
एवमुक्तोब्रवीद्देवो व्रतं त्वं चर भार्गव। पूर्णं वर्षसहस्रं तु कणधूममधः शिराः
यदि पास्यसि भद्रं ते ततो मंत्रानवाप्स्यसि। तथेति समनुज्ञाप्य शुक्रस्तु भृगुनंदनः
पादौ संस्पृश्य देवस्य बाढमित्यब्रवीद्वचः। व्रतं चराम्यहं देव त्वयादिष्टोद्य वै प्रभो
आदिष्टो देवदेवेन कृतवान्भार्गवो मुनिः। तदा तस्मिन्गते शुक्रे असुराणां हिताय वै
मंत्रार्थे तनुते काव्यो ब्रह्मचर्यं महेश्वरात्। तद्बुद्ध्वा नीतिपूर्वं वै राजन्यास्तु तदा सुखं
अस्मिंश्छिद्रे तदामर्षाद्देवास्तानभिदुद्रुवुः। दंशिताः सायुधाः सर्वे बृहस्पतिपुरःसराः
दृष्ट्वा सुरगणा देवान्प्रगृहीतायुधान्पुनः। उत्पेतुस्सहसा सर्वे संत्रस्तास्तान्वचोब्रुवत्
दैत्या ऊचुः। न्यस्तशस्त्रा वयं देवा आचार्ये व्रतमास्थिते। दत्वा भवंतस्त्वभयं संप्राप्ता नो जिघांसया
अनमर्षा वयं सर्वे त्यक्तशस्त्राश्च संस्थिताः। चीरकृष्णाजिनधरा निष्क्रिया निष्परिग्रहाः
रणे विजेतुं देवांश्च न शक्ष्यामः कथंचन। अयुद्धेन प्रपत्स्यामः शरणं काव्यमातरम्
ज्ञापयामः कृच्छ्रमिदं यावन्नाभ्येति नो गुरुः। निवृत्ते च तथा शुक्रे योत्स्यामो दंशितायुधाः
एवमुक्त्वा च तेन्योन्यं शरणं काव्यमातरम्। प्रापद्यंत ततो भीतास्तेभ्योऽदादभयं तु सा
न भेतव्यं न भेतव्यं भयं त्यजत दानवाः। मत्सन्निधौ वर्त्ततां वो न भीर्भवितुर्महति
तयाभिरक्षितांस्तांश्च दृष्ट्वा देवास्तदाऽसुरान्। अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम्
ततस्तान्बध्यमानांस्तु देवैर्दृष्ट्वासुरांस्तदा। देवी क्रुद्धाब्रवीद्देवान्निद्रया मोहयाम्यहम्
संभृत्य सर्वसंभारान्निद्रां सा व्यसृजत्तदा। तस्तंभ देवी च बलाद्योगयुक्ता तपोधना
ततस्तं स्तभितं दृष्ट्वा इन्द्रं देवाश्च मूढवत्। प्राद्रवंत ततो भीता इन्द्रं दृष्ट्वा वशीकृतम्
गतेषु सुरसंघेषु विष्णुरिंद्रमभाषत। विष्णुरुवाच। मां त्वं प्रविश भद्रं ते रक्षिष्ये त्वां सुरोत्तम
एवमुक्तस्ततो विष्णुं प्रविवेश पुरंदरः। विष्णुसंरक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽब्रवीत्
एष त्वां विष्णुना सार्धं दहामि मघवन्बलात्। मिषतां सर्वभूतानां दृश्यतां मे तपोबलम्
तयाभिभूतौ तौ देवाविंद्रविष्णू बभूवतुः। कथं मुच्येय सहितो विष्णुरिंद्रमभाषत
इंद्रोब्रवीज्जहि ह्येनां यावन्नौ न दहेत्प्रभो। विशेषेणाभिभूतोस्मि जहीमां जहि मा चिरम्
ततः समीक्ष्य विष्णुस्तांस्त्रीवधे कृच्छ्रमास्थितः। अभिध्याय ततः शक्रमापन्नं सत्वरं प्रभुः
ततः स त्वरयायुक्तः शीघ्रकारी भयान्वितः। ज्ञात्वा विष्णुस्ततस्तस्याः क्रूरं देव्याश्चिकीर्षितम्
क्रुद्धश्च चक्रमादाय शिरश्चिच्छेद वै भयात्। तं दृष्ट्वा स्त्रीवधं घोरं चुक्रोध भृगुरीश्वरः
ततो हि शप्तो भृगुणा विष्णुर्भार्यावधे कृते। भृगुरुवाच। यत्त्वया जानता धर्ममवध्या स्त्री निषूदिता
तस्मात्त्वं सप्तकृत्वो हि मानुषेषूपयास्यसि। ततस्तेनाभिशापेन नष्टे धर्मे पुनःपुनः