ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान्। रक्षाकार्येण संहृत्य देवेभ्यस्तान्सुरार्दितान्
काव्यं दृष्ट्वा स्थितं देवा निर्विशंकास्तु ते जहुः। ततः काव्योनुचिंत्याथ ब्रह्मणो वचनं हितम्
तानुवाच ततः काव्यः पूर्ववृत्तमनुस्मरन्। त्रैलोक्यं वो हृतं सर्वं वामनेन त्रिभिः क्रमैः
बलिर्बद्धो हतो जंभो निहतश्च विरोचनः। महासुरा द्वादशसु संग्रामेषु सुरैर्हताः
तैस्तैरुपायैर्भूयिष्ठा निहतास्तु प्रधानतः। केचिच्छिष्टाश्च यूयं वै युद्धं नास्तीति मे मतम्
नीतयो वो विधातव्या उपासे कालपर्ययात्। यास्याम्यहं महादेवं मंत्रार्थं विजयावहम्
अप्रतीपांस्ततो देवान्मंत्रान्प्राप्य महेश्वरात्। योत्स्यामहे पुनर्देवैस्ततः प्राप्स्यथ वै जयम्
ततस्ते कृतसंवादा देवानूचुस्तदासुराः। न्यस्तशस्त्रा वयं सर्वे निःस्सन्नाहा रथैर्विना
वयं तपश्चरिष्यामः संवृता वल्कलैस्तथा। देवास्तेषां वचः श्रुत्वा सत्याभिव्याहृतं ततः
ततोन्यवर्तयन्सर्वे विज्वरा मुदिताश्च ते। न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदा सुराः
ततस्तानब्रवीत्काव्य उपाध्वं तपसि स्थिताः। निरुत्सिक्तास्तपोयुक्ताः कालं कार्यार्थसाधकम्
पितुराश्रमसंस्था वै मां प्रतीक्षथ दानवाः। तानुद्दिश्यासुरान्काव्यो महादेवं प्रपद्यत
शुक्र उवाच। मंत्रानिच्छाम्यहं देव येन सन्ति बृहस्पतौ। पराभवाय देवानामसुराणां जयाय च
एवमुक्तोब्रवीद्देवो व्रतं त्वं चर भार्गव। पूर्णं वर्षसहस्रं तु कणधूममधः शिराः
यदि पास्यसि भद्रं ते ततो मंत्रानवाप्स्यसि। तथेति समनुज्ञाप्य शुक्रस्तु भृगुनंदनः
पादौ संस्पृश्य देवस्य बाढमित्यब्रवीद्वचः। व्रतं चराम्यहं देव त्वयादिष्टोद्य वै प्रभो
आदिष्टो देवदेवेन कृतवान्भार्गवो मुनिः। तदा तस्मिन्गते शुक्रे असुराणां हिताय वै
मंत्रार्थे तनुते काव्यो ब्रह्मचर्यं महेश्वरात्। तद्बुद्ध्वा नीतिपूर्वं वै राजन्यास्तु तदा सुखं
अस्मिंश्छिद्रे तदामर्षाद्देवास्तानभिदुद्रुवुः। दंशिताः सायुधाः सर्वे बृहस्पतिपुरःसराः
दृष्ट्वा सुरगणा देवान्प्रगृहीतायुधान्पुनः। उत्पेतुस्सहसा सर्वे संत्रस्तास्तान्वचोब्रुवत्
दैत्या ऊचुः। न्यस्तशस्त्रा वयं देवा आचार्ये व्रतमास्थिते। दत्वा भवंतस्त्वभयं संप्राप्ता नो जिघांसया
अनमर्षा वयं सर्वे त्यक्तशस्त्राश्च संस्थिताः। चीरकृष्णाजिनधरा निष्क्रिया निष्परिग्रहाः
रणे विजेतुं देवांश्च न शक्ष्यामः कथंचन। अयुद्धेन प्रपत्स्यामः शरणं काव्यमातरम्
ज्ञापयामः कृच्छ्रमिदं यावन्नाभ्येति नो गुरुः। निवृत्ते च तथा शुक्रे योत्स्यामो दंशितायुधाः
एवमुक्त्वा च तेन्योन्यं शरणं काव्यमातरम्। प्रापद्यंत ततो भीतास्तेभ्योऽदादभयं तु सा
न भेतव्यं न भेतव्यं भयं त्यजत दानवाः। मत्सन्निधौ वर्त्ततां वो न भीर्भवितुर्महति
तयाभिरक्षितांस्तांश्च दृष्ट्वा देवास्तदाऽसुरान्। अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम्
ततस्तान्बध्यमानांस्तु देवैर्दृष्ट्वासुरांस्तदा। देवी क्रुद्धाब्रवीद्देवान्निद्रया मोहयाम्यहम्
संभृत्य सर्वसंभारान्निद्रां सा व्यसृजत्तदा। तस्तंभ देवी च बलाद्योगयुक्ता तपोधना
ततस्तं स्तभितं दृष्ट्वा इन्द्रं देवाश्च मूढवत्। प्राद्रवंत ततो भीता इन्द्रं दृष्ट्वा वशीकृतम्