भृगोः शापनिमित्तं तु देवासुरकृते तदा। भीष्म उवाच। कथं देवासुरकृते हरिर्देहमवाप्तवान्
दैवासुरं यथावृत्तं तन्मे कथय सुव्रत। पुलस्त्य उवाच। तेषां जयनिमित्तं वै संग्रामा स्युः सुदारुणाः
अवतारा दशद्वौ च शुद्धा मन्वंतरे स्मृताः। नामधेयं समासेन शृणु तेषां विवक्षितम्
प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः। तृतीयस्तु वराहश्च चतुर्थोऽमृतमंथनः
संग्रामः पंचमश्चैव सुघोरस्तारकामयः। षष्ठो ह्याडीबकाख्यश्च सप्तमस्त्रैपुरस्तथा
अष्टमश्चांधकवधो नवमो वृत्रघातनः। ध्वजश्च दशमस्तेषां हालाहलस्ततः परं
प्रथितो द्वादशस्तेषां घोरः कोलाहलस्तथा। हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः
वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणे पुरा। हिरण्याक्षो हतो द्वंद्वे प्रतिवादे तु दैवतैः
दंष्ट्रया तु वराहेण समुद्रस्थो द्विधा कृतः। प्रह्लादो निर्जितो युद्धे इंद्रेणामृतमंथने
विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः। इंद्रेणैव च विक्रम्य निहतस्तारकामये
अशक्नुवत्सु देवेषु त्रिपुरं सोढुमासुरम्। मोहयित्वाऽमृते पीते गोरूपेणासुरारिणा
नासन्जीवयितुं शक्या भूयो भूयोमृतासुराः। निहता दानवाः सर्वे त्रैलोक्ये त्र्यंबकेण तु
असुराश्च पिशाचाश्च दानवाश्चांधके वधे। हता देवमनुष्यैस्ते पितृभिश्चैव सर्वशः
संपृक्तो दानवैर्वृत्रो घोरे कोलाहले हतः। तदा विष्णुसहायेन महेंद्रेण निपातितः
हतस्ततो महेंद्रेण मायाछन्नस्तु योगवित्। वज्रेण क्षणमाविश्य विप्रचित्तिः सहानुगः
दैत्याश्च दानवाश्चैव संयुताः कृत्स्नशस्तु ते। एते दैवाऽसुरावृत्ताः संग्रामाद्वा दशैव तु
देवासुरक्षयकराः प्रजानां च हिताय वै। हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ
द्विसप्ततिं तथान्यानि नियुतान्यधिकानि तु। अशीति च सहस्राणि त्रैलोक्यैश्वर्यवानभूत्
पर्यायेण तु राजाभूद्बलिर्वर्षार्बुदं पुनः। षष्ठिं चैव सहस्राणि नियुतानि च विंशतिं
बलिराज्याधिकारे तु यावत्कालश्च कीर्तितः। तावत्कालं तु प्रह्लादो निर्वृतो ह्यसुरैः सह
जयार्थमेते विज्ञेया असुराणां महौजसः। त्रैलोक्यमिदमव्यग्रं महेंद्रेणानुपाल्यते
असम्पन्नमिदं सर्वं यावद्वर्षायुतं पुनः। पर्यायेणैव सम्प्राप्ते त्रैलोक्यं पाकशासने
ततोऽसुरान्परित्यज्य यज्ञो देवानगच्छत। यज्ञे देवानथ गते दितिजाः काव्यमब्रुवन्
दैत्या ऊचुः-। हृतं मघवता राज्यं त्यक्त्वा यज्ञः सुरान्गतः। स्थातुं न शुक्नुमो ह्यत्र प्रविशामो रसातलम्२०० 1.13.
एवमुक्तोब्रवीदेतान्विषण्णान्सांत्वयन्गिरा। मा भैष्ट धारयिष्यामि तेजसा स्वेन वोऽसुराः
मंत्राश्चौषधयश्चैव धरायां यत्तु वर्तते। मयि तिष्ठति तत्सर्वं पादमात्रं सुरेषु वै
तत्सर्वं च प्रदास्यामि युष्मदर्थे धृतं मया। ततो देवास्तुतान्दृष्ट्वा धृतान्काव्येन धीमता
अमंत्रयंत देवा वै संविग्नास्तज्जिघृक्षया। काव्यो ह्येष इदं सर्वं व्यावर्तयति नो बलात्
साधु गच्छामहे तूर्णं यावन्न च्यावयेत वै। प्रसह्य जित्वा शिष्टांस्तु पातालं प्रापयामहे
ततो देवास्तु संरब्धा दानवानुपसृत्य ह। ततस्ते वध्यमानास्तैः काव्यमेवाभिदुद्रुवुः