निदेशस्थायिनस्तस्य ऋद्ध्यंते सर्वयादवाः। भीष्म उवाच। सप्तर्षयः कुबेरश्च यक्षो मणिधरस्तथा
सात्यकिर्नारदश्चैव शिवो धन्वंतरिस्तथा। आदिदेवस्तथाविष्णुरेभिस्तु सह दैवतैः
किमर्थं सहसंभूताः सुरसम्भूतयः क्षितौ। भविष्याः कति वा चास्य प्रादुर्भावा महात्मनः
सर्वक्षेत्रेषु सर्वेषु किमर्थमिह जायते। यदर्थमिह संभूतो विष्णुर्वृष्ण्यंधके कुले
पुनःपुनर्मनुष्येषु तन्मे त्वं ब्रूहि पृच्छतः। पुलस्त्य उवाच। शृणु भूप प्रवक्ष्यामि रहस्यातिरहस्यकम्। यथा दिव्यतनुर्विष्णुर्मानुषेष्विह जायते
युगांते तु परावृत्ते काले प्रशिथिले प्रभुः। देवासुरमनुष्येषु जायते हरिरीश्वरः
हिरण्यकशिपुर्दैत्यस्त्रैलोक्यस्य प्रशासिता। बलिनाधिष्ठिते चैव पुनर्लोकत्रये क्रमात्
सख्यमासीत्परमकं देवानामसुरैः सह। युगाख्या दश संपूर्णा आसीदव्याकुलं जगत्
निदेशस्थायिनश्चापि तयोर्देवासुरा स्वयं। बद्धो बलिर्विमर्दोयं सुसंवृत्तः सुदारुणः
देवानामसुराणां च घोरः क्षयकरो महान्। कर्तुं धर्मव्यवस्थां च जायते मानुषेष्विह
भृगोः शापनिमित्तं तु देवासुरकृते तदा। भीष्म उवाच। कथं देवासुरकृते हरिर्देहमवाप्तवान्
दैवासुरं यथावृत्तं तन्मे कथय सुव्रत। पुलस्त्य उवाच। तेषां जयनिमित्तं वै संग्रामा स्युः सुदारुणाः
अवतारा दशद्वौ च शुद्धा मन्वंतरे स्मृताः। नामधेयं समासेन शृणु तेषां विवक्षितम्
प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः। तृतीयस्तु वराहश्च चतुर्थोऽमृतमंथनः
संग्रामः पंचमश्चैव सुघोरस्तारकामयः। षष्ठो ह्याडीबकाख्यश्च सप्तमस्त्रैपुरस्तथा
अष्टमश्चांधकवधो नवमो वृत्रघातनः। ध्वजश्च दशमस्तेषां हालाहलस्ततः परं
प्रथितो द्वादशस्तेषां घोरः कोलाहलस्तथा। हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः
वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणे पुरा। हिरण्याक्षो हतो द्वंद्वे प्रतिवादे तु दैवतैः
दंष्ट्रया तु वराहेण समुद्रस्थो द्विधा कृतः। प्रह्लादो निर्जितो युद्धे इंद्रेणामृतमंथने
विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः। इंद्रेणैव च विक्रम्य निहतस्तारकामये
अशक्नुवत्सु देवेषु त्रिपुरं सोढुमासुरम्। मोहयित्वाऽमृते पीते गोरूपेणासुरारिणा
नासन्जीवयितुं शक्या भूयो भूयोमृतासुराः। निहता दानवाः सर्वे त्रैलोक्ये त्र्यंबकेण तु
असुराश्च पिशाचाश्च दानवाश्चांधके वधे। हता देवमनुष्यैस्ते पितृभिश्चैव सर्वशः
संपृक्तो दानवैर्वृत्रो घोरे कोलाहले हतः। तदा विष्णुसहायेन महेंद्रेण निपातितः
हतस्ततो महेंद्रेण मायाछन्नस्तु योगवित्। वज्रेण क्षणमाविश्य विप्रचित्तिः सहानुगः
दैत्याश्च दानवाश्चैव संयुताः कृत्स्नशस्तु ते। एते दैवाऽसुरावृत्ताः संग्रामाद्वा दशैव तु
देवासुरक्षयकराः प्रजानां च हिताय वै। हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ
द्विसप्ततिं तथान्यानि नियुतान्यधिकानि तु। अशीति च सहस्राणि त्रैलोक्यैश्वर्यवानभूत्
पर्यायेण तु राजाभूद्बलिर्वर्षार्बुदं पुनः। षष्ठिं चैव सहस्राणि नियुतानि च विंशतिं
बलिराज्याधिकारे तु यावत्कालश्च कीर्तितः। तावत्कालं तु प्रह्लादो निर्वृतो ह्यसुरैः सह