श्रीवत्सलक्षणं देवं दृष्ट्वा देवैः सलक्षणम्। उवाच वसुदेवस्तं रूपं संहर वै प्रभो
भीतोहं देव कंसस्य ततस्त्वेतद्ब्रवीमि ते। मम पुत्रा हतास्तेन श्रेष्ठाः षड्भीमविक्रमाः
वसुदेववचः श्रुत्वा रूपं संहरदच्युतः। अनुज्ञाप्य तु तं शौरिर्नन्दगोपगृहेनयत्
दत्वा तं नंदगोपाय रक्ष्यतामिति चाब्रवीत्। अतस्तुसर्वकल्याणं यादवानां भविष्यति
अयं तु गर्भो देवक्या यावत्कंसं हनिष्यति। तावत्पृथिव्यां भविता क्षेमो भारावहः परम्
ये वै दुष्टास्तु राजानस्तांस्तु सर्वान्हनिष्यति। कौरवाणां रणे भूते सर्वक्षत्रसमागमे
सारथ्यमर्जुनस्यायं स्वयं देवः करिष्यति। निःक्षत्रियां धरां कृत्वा भोक्ष्यते शेषतां गताम्
सर्वं यदुकुलं चैव देवलोकं नयिष्यति। भीष्म उवाच। क एष वसुदेवस्तु देवकी का यशस्विनी
नंदगोपश्च कश्चैव यशोदा का महाव्रता। या विष्णुं पोषितवती यां स मातेत्यभाषत
या गर्भं जनयामास या चैनं समवर्द्धयत्। पुलस्त्य उवाच। पुरुषः कश्यपश्चासावदितिस्तत्प्रिया स्मृता
कश्यपो ब्रह्मणोंशस्तु पृथिव्या अदितिस्तथा। नंदो द्रोणस्समाख्यातो यशोदाथ धराभवत्
अथकामान्महाबाहुर्देवक्याः समपूरयत्। ये तया कांक्षिताः पूर्वमजात्तस्मान्महात्मनः
अचिरं स महादेवः प्रविष्टो मानुषीं तनुं। मोहयन्सर्वभूतानि योगाद्योगी समाययौ
नष्टे धर्मे तथा यज्ञे विष्णुर्वृष्णिकुले विभुः। कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम्१५० 1.13.
रुक्मिणी सत्यभामा च सत्या नाग्निजिती तथा। सुमित्रा च तथा शैब्या गांधारी लक्ष्मणा तथा
सुभीमा च तथा माद्री कौशल्या विजया तथा। एवमादीनि देवीनां सहस्राणि च षोडश
रुक्मिणी जनयामास पुत्रान्शृणु विशारदान्। चारुदेष्णं रणेशूरं प्रद्युम्नञ्च महाबलम्
सुचारुं चारुभद्रञ्च सदश्वं ह्रस्वमेव च। सप्तमञ्चारुगुप्तञ्च चारुभद्रञ्च चारुकं
चारुहासं कनिष्ठञ्च कन्याञ्चारुमतीं तथा। जज्ञिरे सत्यभामाया भानुर्भीमरथः क्षणः
रोहितो दीप्तिमांश्चैव ताम्रबंधो जलंधमः। चतस्रो जज्ञिरे तेषां स्वसारश्च यवीयसीः
जांबवत्याः सुतो जज्ञे सांबश्चैवातिशोभनः। सौरशास्त्रस्य कर्त्ता वै प्रतिमा मंदिरस्य च
मूलस्थाने निवेशश्च कृतस्तेन महात्मना। तुष्टेन देवदेवेन कुष्ठरोगो विनाशितः
सुमित्रं चारुमित्रं च मित्रविंदा व्यजायत। मित्रबाहुः सुनीथश्च नाग्नजित्यां बभूवतुः
एवमादीनि पुत्राणांसहस्राणि निशामय। अशीतिश्च सहस्राणां वासुदेवसुतास्तथा
प्रद्युम्नस्य च दायादो वैदर्भ्यां बुद्धिसत्तमः। अनिरुद्धो रणे योद्धा जज्ञेस्य मृगकेतनः
काम्या सुपार्श्वतनया सांबाल्लेभे तरस्विनम्। सत्त्वप्रकृतयो देवाः पराः पंच प्रकीर्तिताः
तिस्रः कोट्यः प्रवीराणां यादवानां महात्मनां। षष्टिः शतसहस्राणि वीर्यवंतो महाबलाः
देवांशाः सर्व एवेह उत्पन्नास्ते महौजसः। दैवासुरे हता ये वा असुरास्तु महाबलाः
इहोत्पन्ना मनुष्येषु बाधंते सर्वमानवान्। तेषामुद्धरणार्थाय उत्पन्ना यादवे कुले
कुलानां शतमेकं च यादवानां महात्मनाम्। विष्णुस्तेषां प्रणेता च प्रभुत्वे च व्यवस्थितः