पुत्रं च कपिलं चैव वसुदेवात्मजो बली। जनानां च विषादोभूत्प्रथमः स धनुर्द्धरः
सौभद्रश्चाभवश्चैव महासत्वौ बभूवतुः। देवभागसुतश्चापि प्रस्तावः स बुधः स्मृतः
पण्डितं प्रथमं बाहु देवश्रवसमुत्तमम्। इक्ष्वाकुकुलतो यस्य मनस्विन्या यशस्विनी
निवृत्तशत्रुः शत्रुघ्नः श्रद्धा तस्मादजायत। गंडूषायामपत्यानि कृष्णस्तुष्टः शतं ददौ
स चंद्रं तु महाभागं वीर्यवंतं महाबलम्। रंतिपालश्च रंतिश्च नंदनस्य सुतावुभौ
शमीकपुत्राश्चत्वारो विक्रांताः सुमहाबलाः। विरजश्च धनुश्चैव व्योमस्तस्य स सृंजयः
अनपत्योभवद्व्योमः सृंजयस्य धनंजयः। यो जायमानो भोजत्वं राजर्षित्वमवाप्तवान्
कृष्णस्य जन्माभ्युदयं यः कीर्तयति नित्यशः। शृणोति वा नरो नित्यं सर्वपापैः प्रमुच्यते
अथ देवो महादेवः पूर्वं कृष्णः प्रजापतिः। विहारार्थं स देवोसौ मानुषेष्वप्यजायत
देवक्यां वसुदेवेन तपसा पुष्करेक्षणः। चतुर्बाहुस्तु संजातो दिव्यरूपो जनाश्रयः
श्रीवत्सलक्षणं देवं दृष्ट्वा देवैः सलक्षणम्। उवाच वसुदेवस्तं रूपं संहर वै प्रभो
भीतोहं देव कंसस्य ततस्त्वेतद्ब्रवीमि ते। मम पुत्रा हतास्तेन श्रेष्ठाः षड्भीमविक्रमाः
वसुदेववचः श्रुत्वा रूपं संहरदच्युतः। अनुज्ञाप्य तु तं शौरिर्नन्दगोपगृहेनयत्
दत्वा तं नंदगोपाय रक्ष्यतामिति चाब्रवीत्। अतस्तुसर्वकल्याणं यादवानां भविष्यति
अयं तु गर्भो देवक्या यावत्कंसं हनिष्यति। तावत्पृथिव्यां भविता क्षेमो भारावहः परम्
ये वै दुष्टास्तु राजानस्तांस्तु सर्वान्हनिष्यति। कौरवाणां रणे भूते सर्वक्षत्रसमागमे
सारथ्यमर्जुनस्यायं स्वयं देवः करिष्यति। निःक्षत्रियां धरां कृत्वा भोक्ष्यते शेषतां गताम्
सर्वं यदुकुलं चैव देवलोकं नयिष्यति। भीष्म उवाच। क एष वसुदेवस्तु देवकी का यशस्विनी
नंदगोपश्च कश्चैव यशोदा का महाव्रता। या विष्णुं पोषितवती यां स मातेत्यभाषत
या गर्भं जनयामास या चैनं समवर्द्धयत्। पुलस्त्य उवाच। पुरुषः कश्यपश्चासावदितिस्तत्प्रिया स्मृता
कश्यपो ब्रह्मणोंशस्तु पृथिव्या अदितिस्तथा। नंदो द्रोणस्समाख्यातो यशोदाथ धराभवत्
अथकामान्महाबाहुर्देवक्याः समपूरयत्। ये तया कांक्षिताः पूर्वमजात्तस्मान्महात्मनः
अचिरं स महादेवः प्रविष्टो मानुषीं तनुं। मोहयन्सर्वभूतानि योगाद्योगी समाययौ
नष्टे धर्मे तथा यज्ञे विष्णुर्वृष्णिकुले विभुः। कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम्१५० 1.13.
रुक्मिणी सत्यभामा च सत्या नाग्निजिती तथा। सुमित्रा च तथा शैब्या गांधारी लक्ष्मणा तथा
सुभीमा च तथा माद्री कौशल्या विजया तथा। एवमादीनि देवीनां सहस्राणि च षोडश
रुक्मिणी जनयामास पुत्रान्शृणु विशारदान्। चारुदेष्णं रणेशूरं प्रद्युम्नञ्च महाबलम्
सुचारुं चारुभद्रञ्च सदश्वं ह्रस्वमेव च। सप्तमञ्चारुगुप्तञ्च चारुभद्रञ्च चारुकं
चारुहासं कनिष्ठञ्च कन्याञ्चारुमतीं तथा। जज्ञिरे सत्यभामाया भानुर्भीमरथः क्षणः
रोहितो दीप्तिमांश्चैव ताम्रबंधो जलंधमः। चतस्रो जज्ञिरे तेषां स्वसारश्च यवीयसीः