निशांते चैव देवाय दत्वा चार्घं विधानतः । स्नानादिकां क्रियां कृत्वा भुंजीयाद्वाडवैः सह
शिव उवाच- द्विजैतत्त्रिस्पृशाख्यानमद्भुतं रोमहर्षणम् । श्रुत्वा तु लभते पुण्यं गंगां स्नानसमुद्भवम्
अश्वमेधसहस्राणि वाजपेयशतानि च । तत्फलं समवाप्नोति त्रिस्पृशा समुपोषणात्
पितृपक्षो मातृपक्षस्तथा चैवात्मपक्षकः । तैः सर्वैः सह संमुक्तो विष्णुलोके महीयते
तीर्थकोटिषु यत्पुण्यं क्षेत्रकोटिषु यत्फलम् । तत्फलं समवाप्नोति त्रिस्पृशा समुपोषणात्
ब्राह्मणा येऽपि कुर्वंति क्षत्रियाः कृष्णमानसाः । वैश्या वा शूद्रजन्मानो ये तथा चान्यजातयः
ते सर्वे मुक्तिमायांति भुवं त्यक्त्वा द्विजोत्तम । मंत्राणां मंत्रराजोऽथ यथा स्याद्द्वादशाक्षरः
व्रतानां च यथा चैषा येन वै त्रिस्पृशा कृता । ब्रह्मणा च कृता पूर्वं पश्चाद्राजर्षिभिः कृता
अन्येषां का कथा वत्स त्रिस्पृशा मुक्तिदायिनी । अनेन विधिना ब्रह्मंस्त्रिस्पृशासंभवं व्रतम्
यः करोति नरो भक्त्या शृणु वक्ष्यामि तत्फलम् । गंगावगाहने ब्रह्मन्वाराणस्यां तु यत्फलम्
मन्वंतरसहस्रैस्तु त्रिस्पृशाकारको हि तत् । प्राची च यमुना स्नाने वर्षैर्यत्कोटिभिः फलम्
तत्फलं समवाप्नोति त्रिस्पृशाव्रतकृन्नरः । तत्फलं तु कुरुक्षेत्रे सूर्यग्रहणकोटिभिः
हेमभारशतैर्दानैस्त्रिस्पृशाकरणेन तत् । पापकोटिसहस्राणि हत्याकोटिशतानि च
एकेनैवोपवासेन क्रियते भस्मसाद्द्रुतम् । त्रिस्पृशाया व्रतं यत्तु अगतीनां गतिप्रदम्
गतिमिच्छंति विप्रर्षे महत्पापशतानि च । स्वयं कृष्णेन कथितं पाराशर्यस्य चाग्रतः
प्रकाशयति यश्चेदं लिखित्वा वैष्णवं द्विजे । पापोघैर्ग्रथितस्यापि तस्य मुक्तिर्भविष्यति
पुण्यैरवाप्यते विद्वन्मन्वंतरशतैरपि । त्रिस्पृशा दुर्लभा लोके प्राप्यते नैव मानवैः
कलौ ये त्रिस्पृशां लब्ध्वा न कुर्वंति नराधमाः । तेषां जन्मफलं चैव जीवितं विफलं भवेत्
प्रेतत्वं तैः समुत्तीर्णं विना श्राद्धैर्विना सुतैः । कृता यैस्त्रिस्पृशा विद्वन्सकृत्प्राप्य कलौ युगे
महादेव उवाच- एकस्मिन्समये पुत्र गतोऽहं विष्णुसन्निधौ । तत्र पृष्टं मया पूर्वं माहात्म्यं द्वादशीभवम्
नारद उवाच कीदृशी स्यान्महादेव महाद्वादशिका परा । तस्या व्रते फलं कीदृग्वद सर्वेश्वर प्रभो
शिव उवाच- इयमेकादशी ब्रह्मन्महापुण्यफलप्रदा । ऋक्षयोगैश्च संयुक्ता कर्त्तव्या मुनिसत्तमैः
जया च विजया चैव जयंती पापनाशिनी । सर्वपापहराश्चैताः कर्त्तव्याः फलकांक्षिभिः
एकादश्यां यदा ऋक्षं शुक्लपक्षे पुनर्वसुः । नाम्ना सा च जया ख्याता तिथीनामुत्तमा तिथिः
तामुपोष्य नरः पापान्मुच्यते नात्र संशयः । यदा च शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत्
विजया सा समाख्याता तिथीनामुत्तमा तिथिः । सहस्रगुणितं दानं यस्यां वै विप्र भोजनम्
होमस्तथोपवासश्च सहस्राधिफलप्रदः । यदा च शुक्लद्वादश्यां प्राजापत्यं हि जायते
जयंती नाम सा प्रोक्ता सर्वपापहरा तिथिः । सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु
प्रक्षालयति गोविंदस्तस्यामभ्यर्चितो ध्रुवम् । यदा वै शुक्लद्वादश्यां पुष्यं भवति कर्हिचित्
तदा तु सा महापुण्या भविता पापनाशिनी । यो ददाति तिलप्रस्थं नित्यं संवत्सरं प्रति