न स मिथ्याभिशापेन अभिगम्यश्च केनचित्। एक्ष्वाकी सुषुवे पुत्रं शूरमद्भुतमीढुषम्
मीढुषा जज्ञिरे शूरा भोजायां पुरुषा दश। वसुदेवो महाबाहुः पूर्वमानकदुंदुभिः
देवभागस्तथा जज्ञे तथा देवश्रवाः पुनः। अनावृष्टिं कुनिश्चैव नंदिश्चैव सकृद्यशाः
श्यामः शमीकः सप्ताख्यः पंच चास्य वरांगनाः। श्रुतकीर्तिः पृथा चैव श्रुतदेवी श्रुतश्रवाः
राजाधिदेवी च तथा पंचैता वीरमातरः। वृद्धस्य श्रुतदेवी तु कारूषं सुषुवे नृपम्
कैकेयाच्छ्रुतकीर्तेस्तु जज्ञे संतर्दनो नृपः। श्रुतश्रवसि चैद्यस्य सुनीथः समपद्यत
राजाधिदेव्याः संभूतो धर्माद्भयविवर्जितः। शूरः सख्येन बद्धोसौ कुंतिभोजे पृथां ददौ
एवं कुंती समाख्या च वसुदेवस्वसा पृथा। कुंतिभोजोददात्तां तु पांडोर्भार्यामनिंदिताम्
पाण्ड्वर्थेसूत देवी सा देवपुत्रान्महारथान्। धर्माद्युधिष्ठिरो जज्ञे वाताज्जज्ञे वृकोदरः
इंद्राद्धनंजयश्चैव शक्रतुल्यपराक्रमः। योऽसौ त्रिपुरुषाज्जातस्त्रिभिरंशैर्महारथः
देवकार्यकरश्चैव सर्वदानवसूदनः। अवध्याश्चापि शक्रस्य दानवा येन घातिताः
स्थापितस्स तु शक्रेण लब्धवर्चास्त्रिविष्टपे। माद्रवत्यां तु जनितावश्विनाविति नः श्रुतम्
नकुलः सहदेवश्च रूपसत्वगुणान्वितौ। रोहिणी पौरवी नाम भार्या चानकदुंदुभेः
लेभे चेष्टं सुतं रामं सारणं च रणप्रियम्। दुर्धरं दमनं चैव पिंडारकमहाहनुं
अथ मायात्वमावास्या देवकी या भविष्यति। तस्यां जज्ञे महाबाहुः पूर्वं तु स प्रजापतिः
अनुजाताभवत्कृष्णा सुभद्रा भद्रभाषिणी। विजयो रोचमानस्तु वर्धमानश्च देवलः
एते सर्वे महात्मान उपदेव्यां प्रजज्ञिरे। अगावहं महात्मानं बृहद्देवी व्यजायत
बृहद्देव्यां स्वयं जज्ञे मन्दको नाम नामतः। सप्तमं देवकी पुत्रं रेमंतं सषुवे सुतम्
गवेषणं महाभागं संग्रामेष्वपराजितम्। श्रुतदेव्या विहारे तु वने विचरता पुरा
वैश्यायां समधाच्छौरिः पुत्रं कौशिकमग्रजम्। श्रुतंधरा तु राज्ञी तु सौरगंधपरिग्रहः
पुत्रं च कपिलं चैव वसुदेवात्मजो बली। जनानां च विषादोभूत्प्रथमः स धनुर्द्धरः
सौभद्रश्चाभवश्चैव महासत्वौ बभूवतुः। देवभागसुतश्चापि प्रस्तावः स बुधः स्मृतः
पण्डितं प्रथमं बाहु देवश्रवसमुत्तमम्। इक्ष्वाकुकुलतो यस्य मनस्विन्या यशस्विनी
निवृत्तशत्रुः शत्रुघ्नः श्रद्धा तस्मादजायत। गंडूषायामपत्यानि कृष्णस्तुष्टः शतं ददौ
स चंद्रं तु महाभागं वीर्यवंतं महाबलम्। रंतिपालश्च रंतिश्च नंदनस्य सुतावुभौ
शमीकपुत्राश्चत्वारो विक्रांताः सुमहाबलाः। विरजश्च धनुश्चैव व्योमस्तस्य स सृंजयः
अनपत्योभवद्व्योमः सृंजयस्य धनंजयः। यो जायमानो भोजत्वं राजर्षित्वमवाप्तवान्
कृष्णस्य जन्माभ्युदयं यः कीर्तयति नित्यशः। शृणोति वा नरो नित्यं सर्वपापैः प्रमुच्यते
अथ देवो महादेवः पूर्वं कृष्णः प्रजापतिः। विहारार्थं स देवोसौ मानुषेष्वप्यजायत
देवक्यां वसुदेवेन तपसा पुष्करेक्षणः। चतुर्बाहुस्तु संजातो दिव्यरूपो जनाश्रयः