ऋक्षः प्रसेनं च तथा ऋक्षं चापि प्रसेनजित्। आसाद्य युयुधाते तौ परस्परजयेच्छया
हत्वा ऋक्षः प्रसेनं च ततस्तं मणिमाददात्। प्रसेनं तु हतं श्रुत्वा गोविंदः परिशंकितः
सत्राजित्रा तु तद्भ्रात्रा यादवैश्च तथापरैः। गोविंदेन हतो नूनं प्रसेनो मणिकारणात्
प्रसेनस्तु गतोरण्यं मणिरत्नेन भूषितः। तं दृष्ट्वा निजघानाथ न त्यजन्तं स्यमंतकम्
जघानैवाप्रदानेन शत्रुभूतं च केशवः। इति प्रवादस्सर्वत्र ख्यातस्सत्राजिता कृतः
अथ दीर्घेण कालेन मृगयां निर्गतः पुनः। यदृच्छया च गोविंदो बिलाभ्याशमथागमत्
ततश्शब्दं यथापूर्वं स चक्रे ऋक्षराड्बली। शब्दं श्रुत्वा तु गोविंदः खङ्गपाणिः प्रविश्य च
अपश्यज्जांबवंतं च ऋक्षराजं महाबलं। ततस्तूर्णं हृषीकेशस्तमृक्षमतिरंहसा
जांबवंतं स जग्राह क्रोधसंरक्तलोचनः। दृष्ट्वा चैनं तथा विष्णुं कर्मभिर्वैष्णवीं तनुं
तुष्टाव ऋक्षराजोपि विष्णुसूक्तेन सत्वरं। ततस्तु भगवांस्तुष्टो वरेण समरोचयत्
जाम्बवानुवाच। इष्टं चक्रप्रहारेण त्वत्तो मे मरणं शुभम्। कन्या चेयं मम सुता भर्त्तारं त्वामवाप्नुयात्
योयं मणिः प्रसेनात्तु हत्वा चैवाप्तवानहम्। स त्वया गृह्यतां नाथ मणिरेषोऽत्र वर्त्तते
इत्युक्तो जांबवंतं वै हत्वा चक्रेण केशवः। कृतकार्यो महाबाहुः कन्यां चैवाददौ तदा
ततः सत्राजिते चैतन्मणिरत्नं स वै ददौ। यल्लब्धमृक्षराजाच्च सर्वयादवसन्निधौ
तेन मिथ्याप्रवादेन संतप्तोयं जनार्दनः। ततस्ते यादवाः सर्वे वासुदेवमथाब्रुवन्
अस्माकं मनसि ह्यासीत्प्रसेनस्तु त्वया हतः। एकैकस्यास्तु सुंदर्यो दश सत्राजितः सुताः
सत्योत्पन्नास्सुतास्तस्य शतमेकं च विश्रुताः। विख्याताश्च महावीर्या भंगकारश्च पूर्वजः
सत्या व्रतवती स्वप्ना भंगकारस्य पूर्वजा। सुषुवुस्ताः कुमारांश्च शिनीवालः प्रतापवान्
अभंगो युयुधानश्च शिनिस्तस्यात्मजोभवत्। तस्माद्युगंधरः पुत्राश्शतं तस्य प्रकीर्तिताः
अनमित्राह्वयो यो वै विख्यातो वृष्णिवंशजः। अनमित्रात्शिनिर्जज्ञे कनिष्ठो वृष्णिनंदनः
अनमित्राच्च संजज्ञे वृष्णिवीरो युधाजितः। अन्यौ च तनयौ वीरा वृषभश्चित्र एव च
ऋषभः काशिराजस्य सुतां भार्यामनिंदितां। जयंतश्च जयंतीं च शुभां भार्यामविंदत
जयंतस्य जयंत्यां वै पुत्रः समभवत्ततः। सदा यज्वातिधीरश्च श्रुतवानतिथिप्रियः
अक्रूरः सुषुवे तस्मात्सुदक्षो भूरिदक्षिणः। रत्नकन्या च शैब्या च अक्रूरस्तामवाप्तवान्१०० 1.13.
पुत्रानुत्पादयामास एकादशमहाबलान्। उपलंभं सदालंभमुत्कलं चार्य्यशैशवं
सुधीरं च सदायक्षं शत्रुघ्नं वारिमेजयं। धर्मदृष्टिं च धर्मं च सृष्टिमौलिं तथैव च
सर्वे च प्रतिहर्तारो रत्नानां जज्ञिरे च ते। अक्रूराच्छूरसेनायां सुतौ द्वौ कुलनंदनौ
देववानुपदेवश्च जज्ञाते देवसंमतौ। अश्विन्यां त्रिचतुः पुत्राः पृथुर्विपृथुरेव च
अश्वग्रीवो श्वबाहुश्च सुपार्श्वक गवेषणौ। रिष्टनेमिः सुवर्चा च सुधर्मा मृदुरेव च
अभूमिर्बहुभूमिश्च श्रविष्ठा श्रवणे स्त्रियौ। इमां मिथ्याभिशप्तिं यो वेद कृष्णस्य बुद्धिमान्