असमौजास्ततस्तस्य समौजाश्च सुतावुभौ। अजातपुत्रस्य सुतौ प्रजायेते समौजसौ
समौजः पुत्रा विख्यातास्त्रयः परमधार्मिकाः। सुदंशश्च सुवंशश्च कृष्ण इत्यनुनामतः
अंधकानामिमं वंशं यः कीर्तयति नित्यशः। आत्मनो विपुलं वंशं प्रजामाप्नोत्ययं ततः
गांधारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः। गांधारी जनयामास सुनित्रं मित्रवत्सलम्
माद्री युधाजितं पुत्रं ततो वै देवमीढुषं। अनमित्रं शिनिं चैव पंचात्र कृतलक्षणाः
अनमित्रसुतो निघ्नो निघ्नस्यापि च द्वौ सुतौ। प्रसेनश्च महावीर्यः शक्तिसेनश्च तावुभौ
स्यमंतकं प्रसेनस्य मणिरत्नमनुत्तमं। पृथिव्यां मणिरत्नानां राजेति समुदाहृतम्
हृदि कृत्वा सुबहुशो मणिं तं स व्यराजत। मणिरत्नं ययाचेथ राजार्थं शौरिरुत्तमम्
गोविंदश्च न तं लेभे शक्तोपि न जहार सः। कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः
बिले शब्दं स शुश्राव कृतं सत्त्वेन केनचित्। ततः प्रविश्य स बिलं प्रसेनो ह्यृक्षमासदत्
ऋक्षः प्रसेनं च तथा ऋक्षं चापि प्रसेनजित्। आसाद्य युयुधाते तौ परस्परजयेच्छया
हत्वा ऋक्षः प्रसेनं च ततस्तं मणिमाददात्। प्रसेनं तु हतं श्रुत्वा गोविंदः परिशंकितः
सत्राजित्रा तु तद्भ्रात्रा यादवैश्च तथापरैः। गोविंदेन हतो नूनं प्रसेनो मणिकारणात्
प्रसेनस्तु गतोरण्यं मणिरत्नेन भूषितः। तं दृष्ट्वा निजघानाथ न त्यजन्तं स्यमंतकम्
जघानैवाप्रदानेन शत्रुभूतं च केशवः। इति प्रवादस्सर्वत्र ख्यातस्सत्राजिता कृतः
अथ दीर्घेण कालेन मृगयां निर्गतः पुनः। यदृच्छया च गोविंदो बिलाभ्याशमथागमत्
ततश्शब्दं यथापूर्वं स चक्रे ऋक्षराड्बली। शब्दं श्रुत्वा तु गोविंदः खङ्गपाणिः प्रविश्य च
अपश्यज्जांबवंतं च ऋक्षराजं महाबलं। ततस्तूर्णं हृषीकेशस्तमृक्षमतिरंहसा
जांबवंतं स जग्राह क्रोधसंरक्तलोचनः। दृष्ट्वा चैनं तथा विष्णुं कर्मभिर्वैष्णवीं तनुं
तुष्टाव ऋक्षराजोपि विष्णुसूक्तेन सत्वरं। ततस्तु भगवांस्तुष्टो वरेण समरोचयत्
जाम्बवानुवाच। इष्टं चक्रप्रहारेण त्वत्तो मे मरणं शुभम्। कन्या चेयं मम सुता भर्त्तारं त्वामवाप्नुयात्
योयं मणिः प्रसेनात्तु हत्वा चैवाप्तवानहम्। स त्वया गृह्यतां नाथ मणिरेषोऽत्र वर्त्तते
इत्युक्तो जांबवंतं वै हत्वा चक्रेण केशवः। कृतकार्यो महाबाहुः कन्यां चैवाददौ तदा
ततः सत्राजिते चैतन्मणिरत्नं स वै ददौ। यल्लब्धमृक्षराजाच्च सर्वयादवसन्निधौ
तेन मिथ्याप्रवादेन संतप्तोयं जनार्दनः। ततस्ते यादवाः सर्वे वासुदेवमथाब्रुवन्
अस्माकं मनसि ह्यासीत्प्रसेनस्तु त्वया हतः। एकैकस्यास्तु सुंदर्यो दश सत्राजितः सुताः
सत्योत्पन्नास्सुतास्तस्य शतमेकं च विश्रुताः। विख्याताश्च महावीर्या भंगकारश्च पूर्वजः
सत्या व्रतवती स्वप्ना भंगकारस्य पूर्वजा। सुषुवुस्ताः कुमारांश्च शिनीवालः प्रतापवान्
अभंगो युयुधानश्च शिनिस्तस्यात्मजोभवत्। तस्माद्युगंधरः पुत्राश्शतं तस्य प्रकीर्तिताः
अनमित्राह्वयो यो वै विख्यातो वृष्णिवंशजः। अनमित्रात्शिनिर्जज्ञे कनिष्ठो वृष्णिनंदनः