देवकी श्रुतदेवा च यशोदा च श्रुतिश्रवा। श्रीदेवा चोपदेवा च सुरूपा चेति सप्तमी
नवोग्रसेनस्य सुताः कंसस्तेषां च पूर्वजः। न्यग्रोधस्तु सुनामा च कंकः शंकुः सुभूश्च यः
अन्यस्तु राष्ट्रपालश्च बद्धमुष्टिः समुष्टिकः। तेषां स्वसारः पंचासन्कंसा कंसवती तथा
सुरभी राष्ट्रपाली च कंका चेति वरांगनाः। उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः
भजमानस्य पुत्रोभूद्रथिमुख्यो विदूरथः। राजाधिदेवः शूरश्च विदूरथसुतोभवत्
राजाधिदेवस्य सुतौ जज्ञाते वीरसंमतौ। क्षत्रव्रतेतिनिरतौ शोणाश्वः श्वेतवाहनः
शोणाश्वस्य सुताः पंच शूरा रणविशारदाः। शमी च राजशर्मा च निमूर्त्तः शत्रुजिच्छुचिः
शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः। प्रतिक्षत्रसुतो भोजो हृदीकस्तस्य चात्मजः। हृदीकस्याभवन्पुत्रा दश भीमपराक्रमाः
कृतवर्माग्रजस्तेषां शतधन्वा च सत्तमः। देवार्हश्च सुभानुश्च भीषणश्च महाबलः
अजातश्च विजातश्च करकश्च करंधमः। देवार्हस्य सुतो विद्वान्जज्ञे कंबलबर्हिषः
असमौजास्ततस्तस्य समौजाश्च सुतावुभौ। अजातपुत्रस्य सुतौ प्रजायेते समौजसौ
समौजः पुत्रा विख्यातास्त्रयः परमधार्मिकाः। सुदंशश्च सुवंशश्च कृष्ण इत्यनुनामतः
अंधकानामिमं वंशं यः कीर्तयति नित्यशः। आत्मनो विपुलं वंशं प्रजामाप्नोत्ययं ततः
गांधारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः। गांधारी जनयामास सुनित्रं मित्रवत्सलम्
माद्री युधाजितं पुत्रं ततो वै देवमीढुषं। अनमित्रं शिनिं चैव पंचात्र कृतलक्षणाः
अनमित्रसुतो निघ्नो निघ्नस्यापि च द्वौ सुतौ। प्रसेनश्च महावीर्यः शक्तिसेनश्च तावुभौ
स्यमंतकं प्रसेनस्य मणिरत्नमनुत्तमं। पृथिव्यां मणिरत्नानां राजेति समुदाहृतम्
हृदि कृत्वा सुबहुशो मणिं तं स व्यराजत। मणिरत्नं ययाचेथ राजार्थं शौरिरुत्तमम्
गोविंदश्च न तं लेभे शक्तोपि न जहार सः। कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः
बिले शब्दं स शुश्राव कृतं सत्त्वेन केनचित्। ततः प्रविश्य स बिलं प्रसेनो ह्यृक्षमासदत्
ऋक्षः प्रसेनं च तथा ऋक्षं चापि प्रसेनजित्। आसाद्य युयुधाते तौ परस्परजयेच्छया
हत्वा ऋक्षः प्रसेनं च ततस्तं मणिमाददात्। प्रसेनं तु हतं श्रुत्वा गोविंदः परिशंकितः
सत्राजित्रा तु तद्भ्रात्रा यादवैश्च तथापरैः। गोविंदेन हतो नूनं प्रसेनो मणिकारणात्
प्रसेनस्तु गतोरण्यं मणिरत्नेन भूषितः। तं दृष्ट्वा निजघानाथ न त्यजन्तं स्यमंतकम्
जघानैवाप्रदानेन शत्रुभूतं च केशवः। इति प्रवादस्सर्वत्र ख्यातस्सत्राजिता कृतः
अथ दीर्घेण कालेन मृगयां निर्गतः पुनः। यदृच्छया च गोविंदो बिलाभ्याशमथागमत्
ततश्शब्दं यथापूर्वं स चक्रे ऋक्षराड्बली। शब्दं श्रुत्वा तु गोविंदः खङ्गपाणिः प्रविश्य च
अपश्यज्जांबवंतं च ऋक्षराजं महाबलं। ततस्तूर्णं हृषीकेशस्तमृक्षमतिरंहसा
जांबवंतं स जग्राह क्रोधसंरक्तलोचनः। दृष्ट्वा चैनं तथा विष्णुं कर्मभिर्वैष्णवीं तनुं
तुष्टाव ऋक्षराजोपि विष्णुसूक्तेन सत्वरं। ततस्तु भगवांस्तुष्टो वरेण समरोचयत्