कल्याणं चरतस्तस्य शुशोच निम्नगाततः। चिंतयाथ परीतात्मा जगामाथ विनिश्चयम्
भूत्वा गच्छाम्यहं नारी यस्यामेवं विधः सुतः। जायेत तस्मादद्याहं भवाम्यस्य सुतप्रदा
अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः। ज्ञापयामास राजानं तामियेष नृपस्ततः
अथसानवमेमासिसुषुवेसरितांवरा। पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधात्परम्
अत्र वंशे पुराणज्ञा ब्रुवंतीति परिश्रुतम्। गुणान्देवावृधस्याथ कीर्त्तयंतो महात्मनः
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः। षष्टिः शतं च पुत्राणां सहस्राणि च सप्ततिः
एतेमृतत्वं संप्राप्ता बभ्रोर्देवावृधादपि। यज्ञदानतपोधीमान्ब्रह्मण्यस्सुदृढव्रतः
रूपवांश्च महातेजा भोजोतोमृतकावतीम्। शरकान्तस्य दुहिता सुषुवे चतुरः सुतान्
कुकुरं भजमानं च श्यामं कंबलबर्हिषम्। कुकुरस्यात्मजो वृष्टिर्वृष्टेस्तु तनयो धृतिः
कपोतरोमा तस्यापि तित्तिरिस्तस्य चात्मजः। तस्यासीद्बहुपुत्रस्तु विद्वान्पुत्रो नरिः किल
ख्यायते तस्य नामान्यच्चंदनोदकदुंदुभिः। अस्यासीदभिजित्पुत्रस्ततो जातः पुनर्वसुः
अपुत्रोह्यभिजित्पूर्वमृषिभिः प्रेरितो मुदा। अश्वमेधंतुपुत्रार्थमाजुहावनरोत्तमः
तस्य मध्ये विचरतः सभामध्यात्समुत्थितः। अन्धस्तु विद्वान्धर्मज्ञो यज्ञदाता पुनर्वसुः
तस्यासीत्पुत्रमिथुनं वसोश्चारिजितः किल। आहुकश्चाहुकी चैव ख्याता मतिमतां वर५० 1.13.
इमांश्चोदाहरंत्यत्र श्लोकांश्चातिरसात्मकान्। सोपासंगानुकर्षाणां तनुत्राणां वरूथिनाम्
रथानां मेघघोषाणां सहस्राणि दशैव तु। नासत्यवादिनो भोजा नायज्ञा नासहस्रदाः
नाशुचिर्नाप्यविद्वांसो न भोजादधिकोभवत्। आहुकां तमनुप्राप्त इत्येषोन्वय उच्यते
आहुकश्चाप्यवंतीषु स्वसारं चाहुकीं ददौ। आहुकस्यैव दुहिता पुत्रौ द्वौ समसूयत
देवकं चोग्रसेनं च देवगर्भसमावुभौ। देवकस्य सुताश्चैव जज्ञिरे त्रिदशोपमाः
देववानुपदेवश्च सुदेवो देवरक्षितः। तेषां स्वसारः सप्तैव वसुदेवाय ता ददौ
देवकी श्रुतदेवा च यशोदा च श्रुतिश्रवा। श्रीदेवा चोपदेवा च सुरूपा चेति सप्तमी
नवोग्रसेनस्य सुताः कंसस्तेषां च पूर्वजः। न्यग्रोधस्तु सुनामा च कंकः शंकुः सुभूश्च यः
अन्यस्तु राष्ट्रपालश्च बद्धमुष्टिः समुष्टिकः। तेषां स्वसारः पंचासन्कंसा कंसवती तथा
सुरभी राष्ट्रपाली च कंका चेति वरांगनाः। उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः
भजमानस्य पुत्रोभूद्रथिमुख्यो विदूरथः। राजाधिदेवः शूरश्च विदूरथसुतोभवत्
राजाधिदेवस्य सुतौ जज्ञाते वीरसंमतौ। क्षत्रव्रतेतिनिरतौ शोणाश्वः श्वेतवाहनः
शोणाश्वस्य सुताः पंच शूरा रणविशारदाः। शमी च राजशर्मा च निमूर्त्तः शत्रुजिच्छुचिः
शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः। प्रतिक्षत्रसुतो भोजो हृदीकस्तस्य चात्मजः। हृदीकस्याभवन्पुत्रा दश भीमपराक्रमाः
कृतवर्माग्रजस्तेषां शतधन्वा च सत्तमः। देवार्हश्च सुभानुश्च भीषणश्च महाबलः
अजातश्च विजातश्च करकश्च करंधमः। देवार्हस्य सुतो विद्वान्जज्ञे कंबलबर्हिषः