शंसंति च पुराणज्ञाः पृथुश्रवसमुत्तमम्। ततश्चास्याभवन्पुत्राः उशना शत्रुतापनः
पुत्रश्चोशनसस्तस्य शिनेयुर्नामसत्तमः। आसीत्शिनेयोः पुत्रो यः स रुक्मकवचो मतः
निहत्य रुक्मकवचो युद्धे युद्धविशारदः। धन्विनो विविधैर्बाणैरवाप्य पृथिवीमिमाम्
अश्वमेधे ऽददाद्राजा ब्राह्मणेभ्यश्च दक्षिणां। जज्ञे तु रुक्मकवचात्परावृत्परवीरहा
तत्पुत्रा जज्ञिरे पंच महावीर्यपराक्रमाः। रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघो हरिः
परिघं च हरिं चैव विदेहे स्थापयत्पिता। रुक्मेषुरभवद्राजा पृथुरुक्मस्तथाश्रयः
ताभ्यां प्रव्राजितो राज्याज्ज्यामघोवसदाश्रमे। प्रशांतश्चाश्रमस्थस्तु ब्राह्मणेन विबोधितः
जगाम धनुरादाय देशमन्यं ध्वजी रथी। नर्मदातट एकाकी केवलं वृत्तिकर्शितः
ऋक्षवंतं गिरिं गत्वा मुक्तमन्यैरुपाविशत्। ज्यामघस्याभवद्भार्या शैब्या परिणता सती
अपुत्रोप्यभवद्राजा भार्यामन्यामचिंतयन्। तस्यासीद्विजयो युद्धे तत्र कन्यामवाप्य सः
भार्यामुवाच संत्रासात्स्नुषेयं ते शुचिस्मिते। एवमुक्त्वाब्रवीदेनं कस्य केयं स्नुषेति वै
राजोवाच। यस्ते जनिष्यते पुत्रस्तस्य भार्या भविष्यति। तस्याः सा तपसोग्रेण कन्यायाः संप्रसूयत
पुत्रं विदर्भं सुभगं शैब्या परिणता सती। राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकौशिकौ
लोमपादं तृतीयं तु पुत्रं परमधार्मिकम्। पश्चाद्विदर्भो जनयच्छूरं रणविशारदम्
लोमपादात्मजो बभ्रुर्धृतिस्तस्य तु चात्मजः। कौशिकस्यात्मजश्चेदिस्तस्माच्चैद्यनृपाः स्मृताः
क्रथो विदर्भपुत्रो यः कुंतिस्तस्यात्मजोभवत्। कुंतेर्धृष्टस्ततो जज्ञे धृष्टात्सृष्टः प्रतापवान्
सृष्टस्य पुत्रो धर्मात्मा निवृत्तिः परवीरहा। निवृत्तिपुत्रो दाशार्हो नाम्ना स तु विदूरथः
दाशार्हपुत्रो भीमस्तु भीमाज्जीमूत उच्यते। जीमूतपुत्रो विकृतिस्तस्यभीमरथः सुतः
अथ भीमरथस्यापि पुत्रो नवरथः किल। तस्य चासीद्दशरथः शकुनिस्तस्य चात्मजः
तस्मात्करंभस्तस्माच्च देवरातो बभूव ह। देवक्षत्रोभवद्राजा देवरातान्महायशाः
देवगर्भसमो जज्ञे देवक्षत्रस्य नंदनः। मधुर्नाममहातेजा मधोः कुरुवशः स्मृतः
आसीत्कुरुवशात्पुत्रः पुरुहोत्रः प्रतापवान्। अंशुर्जज्ञेथ वैदर्भ्यां द्रवंत्यां पुरुहोत्रतः
वेत्रकी त्वभवद्भार्या अंशोस्तस्यां व्यजायत। सात्वतः सत्वसंपन्नः सात्वतान्कीर्तिवर्द्धनः
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः। प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः
सात्वतान्सत्वसंपन्ना कौसल्या सुषुवे सुतान्। तेषां सर्गाश्च चत्वारो विस्तरेणैव तान्शृणु
भजमानस्य सृंजय्यां भाजनामा सुतोभवत्। सृंजयस्य सुतायां तु भाजकास्तु ततोभवन्
तस्य भाजस्य भार्ये द्वे सुषुवाते सुतान्बहून्। नेमिं चकृकणं चैव वृष्णिं परपुरंजयं
ते भाजकाः स्मृता यस्माद्भजमानाद्वि जज्ञिरे। देवावृधः पृथुर्नाम मधूनां मित्रवर्द्धनः
अपुत्रस्त्वभवद्राजा चचार परमं तपः। पुत्रः सर्वगुणोपेतो मम भूयादिति स्पृहन्
संयोज्य कृष्णमेवाथ पर्णाशाया जलं स्पृशन्। सा तोयस्पर्शनात्तस्य सांनिध्यं निम्नगा ह्यगात्