वीतिहोत्रसुतश्चापि अनंतो नाम वीर्यवान्। दुर्जयस्तस्य पुत्रस्तु बभूवामित्रकर्षणः
सद्भावेन महाराजः प्रजाधर्मेण पालयन्। कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रधृत्
येन सागरपर्यंता धनुषा निर्जिता मही। यस्तस्यकीर्तयेन्नाम कल्यमुत्थाय मानवः
न तस्य वित्तनाशः स्यान्नष्टं च लभते पुनः। कार्तवीर्यस्य यो जन्म कथयेदिह धीमतः। यथा यष्टा यथा दाता स्वर्गलोके महीयते
पुलस्त्य उवाच। क्रोष्टोः शृणु त्वं राजेंद्र वंशमुत्तमपूरुषम्। यस्यान्ववाये संभूतो विष्णुर्वृष्णिकुलोद्वहः
क्रोष्टोरेवाभवत्पुत्रो वृजिनीवान्महायशाः। तस्य पुत्रोभवत्स्वातिः कुशंकुस्तत्सुतोभवत्
कुशंकोरभवत्पुत्रो नाम्ना चित्ररथोस्य तु। शशबिंदुरिति ख्यातश्चक्रवर्ती बभूव ह
अत्रानुवंशश्लोकोयं गीतस्तस्य पुराभवत्। शशबिंदोस्तु पुत्राणां शतानामभवच्छतम्
धीमतां चारुरूपाणां भूरिद्रविणतेजसाम्। तेषां शतप्रधानानां पृथुसाह्वा महाबलाः
पृथुश्रवाः पृथुयशाः पृथुतेजाः पृथूद्भवः। पृथुकीर्तिः पृथुमतो राजानः शशबिंदवः
शंसंति च पुराणज्ञाः पृथुश्रवसमुत्तमम्। ततश्चास्याभवन्पुत्राः उशना शत्रुतापनः
पुत्रश्चोशनसस्तस्य शिनेयुर्नामसत्तमः। आसीत्शिनेयोः पुत्रो यः स रुक्मकवचो मतः
निहत्य रुक्मकवचो युद्धे युद्धविशारदः। धन्विनो विविधैर्बाणैरवाप्य पृथिवीमिमाम्
अश्वमेधे ऽददाद्राजा ब्राह्मणेभ्यश्च दक्षिणां। जज्ञे तु रुक्मकवचात्परावृत्परवीरहा
तत्पुत्रा जज्ञिरे पंच महावीर्यपराक्रमाः। रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघो हरिः
परिघं च हरिं चैव विदेहे स्थापयत्पिता। रुक्मेषुरभवद्राजा पृथुरुक्मस्तथाश्रयः
ताभ्यां प्रव्राजितो राज्याज्ज्यामघोवसदाश्रमे। प्रशांतश्चाश्रमस्थस्तु ब्राह्मणेन विबोधितः
जगाम धनुरादाय देशमन्यं ध्वजी रथी। नर्मदातट एकाकी केवलं वृत्तिकर्शितः
ऋक्षवंतं गिरिं गत्वा मुक्तमन्यैरुपाविशत्। ज्यामघस्याभवद्भार्या शैब्या परिणता सती
अपुत्रोप्यभवद्राजा भार्यामन्यामचिंतयन्। तस्यासीद्विजयो युद्धे तत्र कन्यामवाप्य सः
भार्यामुवाच संत्रासात्स्नुषेयं ते शुचिस्मिते। एवमुक्त्वाब्रवीदेनं कस्य केयं स्नुषेति वै
राजोवाच। यस्ते जनिष्यते पुत्रस्तस्य भार्या भविष्यति। तस्याः सा तपसोग्रेण कन्यायाः संप्रसूयत
पुत्रं विदर्भं सुभगं शैब्या परिणता सती। राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकौशिकौ
लोमपादं तृतीयं तु पुत्रं परमधार्मिकम्। पश्चाद्विदर्भो जनयच्छूरं रणविशारदम्
लोमपादात्मजो बभ्रुर्धृतिस्तस्य तु चात्मजः। कौशिकस्यात्मजश्चेदिस्तस्माच्चैद्यनृपाः स्मृताः
क्रथो विदर्भपुत्रो यः कुंतिस्तस्यात्मजोभवत्। कुंतेर्धृष्टस्ततो जज्ञे धृष्टात्सृष्टः प्रतापवान्
सृष्टस्य पुत्रो धर्मात्मा निवृत्तिः परवीरहा। निवृत्तिपुत्रो दाशार्हो नाम्ना स तु विदूरथः
दाशार्हपुत्रो भीमस्तु भीमाज्जीमूत उच्यते। जीमूतपुत्रो विकृतिस्तस्यभीमरथः सुतः
अथ भीमरथस्यापि पुत्रो नवरथः किल। तस्य चासीद्दशरथः शकुनिस्तस्य चात्मजः
तस्मात्करंभस्तस्माच्च देवरातो बभूव ह। देवक्षत्रोभवद्राजा देवरातान्महायशाः