मुमोच राजन्पौत्रं मे सख्यं कृत्वा च पार्थिवः। तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः
युगांताग्नेः प्रवृत्तस्य यथा ज्यातलनिःस्वनः। अहो बलं विधेर्वीर्यं भार्गवः स यदाच्छिनत्
मृधे सहस्रं बाहूनां हेमतालवनं यथा। यं वसिष्ठस्तु संक्रुद्धो ह्यर्जुनं शप्तवान्विभुः
यस्माद्वनं प्रदग्धं ते विश्रुतं मम हैहय। तस्मात्ते दुष्कृतं कर्म कृतमन्यो हनिष्यति
छित्वा बाहुसहस्रं ते प्रमथ्य तरसा बली। तपस्वी ब्राह्मणस्त्वां वै वधिष्यति स भार्गवः
तस्य रामोथ हंतासीन्मुनिशापेन धीमतः। तस्य पुत्रशतं त्वासीत्पंच तत्र महारथाः
कृतास्त्रा बलिनः शूरा धर्मात्मानो महाबल। शूरसेनश्च शूरश्च धृष्टो वै कृष्ण एव च
जयद्ध्वजः स वै कर्ता अवन्तिश्च रसापतिः। जयध्वजस्य पुत्रस्तु तालजंघो महाबलः
तस्य पुत्राश्शतान्येव तालजंघा इति स्मृताः। तेषां पंचकुलान्यासन्हैहयानां महात्मनाम्
वीतिहोत्राश्च संजाता भोजाश्चावंतयस्तथा। तुंडकेराश्च विक्रांतास्तालजंघाः प्रकीर्तिताः
वीतिहोत्रसुतश्चापि अनंतो नाम वीर्यवान्। दुर्जयस्तस्य पुत्रस्तु बभूवामित्रकर्षणः
सद्भावेन महाराजः प्रजाधर्मेण पालयन्। कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रधृत्
येन सागरपर्यंता धनुषा निर्जिता मही। यस्तस्यकीर्तयेन्नाम कल्यमुत्थाय मानवः
न तस्य वित्तनाशः स्यान्नष्टं च लभते पुनः। कार्तवीर्यस्य यो जन्म कथयेदिह धीमतः। यथा यष्टा यथा दाता स्वर्गलोके महीयते
पुलस्त्य उवाच। क्रोष्टोः शृणु त्वं राजेंद्र वंशमुत्तमपूरुषम्। यस्यान्ववाये संभूतो विष्णुर्वृष्णिकुलोद्वहः
क्रोष्टोरेवाभवत्पुत्रो वृजिनीवान्महायशाः। तस्य पुत्रोभवत्स्वातिः कुशंकुस्तत्सुतोभवत्
कुशंकोरभवत्पुत्रो नाम्ना चित्ररथोस्य तु। शशबिंदुरिति ख्यातश्चक्रवर्ती बभूव ह
अत्रानुवंशश्लोकोयं गीतस्तस्य पुराभवत्। शशबिंदोस्तु पुत्राणां शतानामभवच्छतम्
धीमतां चारुरूपाणां भूरिद्रविणतेजसाम्। तेषां शतप्रधानानां पृथुसाह्वा महाबलाः
पृथुश्रवाः पृथुयशाः पृथुतेजाः पृथूद्भवः। पृथुकीर्तिः पृथुमतो राजानः शशबिंदवः
शंसंति च पुराणज्ञाः पृथुश्रवसमुत्तमम्। ततश्चास्याभवन्पुत्राः उशना शत्रुतापनः
पुत्रश्चोशनसस्तस्य शिनेयुर्नामसत्तमः। आसीत्शिनेयोः पुत्रो यः स रुक्मकवचो मतः
निहत्य रुक्मकवचो युद्धे युद्धविशारदः। धन्विनो विविधैर्बाणैरवाप्य पृथिवीमिमाम्
अश्वमेधे ऽददाद्राजा ब्राह्मणेभ्यश्च दक्षिणां। जज्ञे तु रुक्मकवचात्परावृत्परवीरहा
तत्पुत्रा जज्ञिरे पंच महावीर्यपराक्रमाः। रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघो हरिः
परिघं च हरिं चैव विदेहे स्थापयत्पिता। रुक्मेषुरभवद्राजा पृथुरुक्मस्तथाश्रयः
ताभ्यां प्रव्राजितो राज्याज्ज्यामघोवसदाश्रमे। प्रशांतश्चाश्रमस्थस्तु ब्राह्मणेन विबोधितः
जगाम धनुरादाय देशमन्यं ध्वजी रथी। नर्मदातट एकाकी केवलं वृत्तिकर्शितः
ऋक्षवंतं गिरिं गत्वा मुक्तमन्यैरुपाविशत्। ज्यामघस्याभवद्भार्या शैब्या परिणता सती
अपुत्रोप्यभवद्राजा भार्यामन्यामचिंतयन्। तस्यासीद्विजयो युद्धे तत्र कन्यामवाप्य सः