तथा द्रुह्यमणं पूरुं शर्मिष्ठाजनयत्सुतान्। यदुः पूरूश्च भरतस्ते वै वंशविवर्द्धनाः
पूरोर्वंशं प्रवक्ष्यामि यत्र जातोसि पार्थिव। यदोस्तु यादवा जाता यत्र तौ बलकेशवौ
भारावतारणार्थाय पांडवानां हिताय च। यदोः पुत्रा बभूवुश्च पंच देवसुतोपमाः
सहस्रजित्तथा ज्येष्ठः क्रोष्टा नीलोञ्जिको रघुः। सहस्रजितो दायादः शतजिन्नाम पार्थिवः
शतजितश्च दायादास्त्रयः परमधार्मिकाः। हैहयश्च हयश्चैव तथा तालहयश्च यः१०० 1.12.
हैहयस्य तु दायादो धर्मनेत्रः प्रतिश्रुतः। धर्मनेत्रस्य कुंतिस्तु संहतस्तस्य चात्मजः
संहतस्य तु दायादो महिष्मान्नाम पार्थिवः। आसीन्महिष्मतः पुत्रो भद्रसेनः प्रतापवान्
वाराणस्यामभूद्राजा कथितः पूर्वमेव हि। भद्रसेनस्य पुत्रस्तु दुर्दमो नाम धार्मिकः
दुर्दमस्य सुतो भीमो धनको नाम वीर्यवान्। धनकस्य सुता ह्यासन्चत्वारो लोकविश्रुताः
कृताग्निः कृतवीर्यश्च कृतधर्मा तथैव च। कृतौजाश्च चतुर्थोभूत्कृतवीर्याच्च सोर्जुनः
जातो बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः। वर्षायुतं तपस्तेपे दुश्चरं पृथिवीपतिः
दत्तमाराधयामास कार्त्तवीर्योत्रिसंभवम्। तस्मै दत्तो वरान्प्रादाच्चतुरः पुरुषोत्तमः
पूर्वं बाहुसहस्रं तु स वव्रे राजसत्तमः। अधर्मं ध्यायमानस्य भीतिश्चापि निवारणम्
युद्धेन पृथिवीं जित्वा धर्मेणावाप्य वै बलम्। संग्रामे वर्तमानस्य वधश्चैवाधिकाद्भवेत्
एतेनेयं वसुमती सप्तद्वीपा सपत्तना। सप्तोदधि परिक्षिप्ता क्षात्रेण विधिना जिता
जज्ञे बाहुसहस्रं च इच्छतस्तस्य धीमतः। सर्वे यज्ञा महाबाहोस्तस्यासन्भूरिदक्षिणाः
सर्वे कांचनयूपास्ते सर्वे कांचनवेदिकाः। सर्वे देवैश्च संप्राप्ता विमानस्थैरलंकृतैः
गंधर्वैरप्सरोभिश्च नित्यमेवापि सेविताः। यस्य यज्ञे जगौ गाथा गंधंर्वो नारदस्तथा
यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च। सप्तद्वीपाननुचरन्वेगेन पवनोपमः
पंचाशीतिसहस्राणि वर्षाणां च नराधिपः। सप्तद्वीपपृथिव्याश्च चक्रवर्ती बभूव ह
स एव पशुपालोभूत्क्षेत्रपालः स एव हि। स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनोभवत्
योसौ बाहुसहस्रेण ज्याघातकठिनत्वचा। भाति रश्मिसहस्रेण शारदेनेव भास्करः
एष नाम मनुष्येषु माहिष्मत्यां महाद्युतिः। एष वेगं समुद्रस्य प्रावृट्काले भजेत वै
क्रीडते स्वसुखा ये विप्रतिस्रोतो महीपतिः। ललनाः क्रीडता तेन प्रतिबद्धोर्मिमालिनी
ऊर्मिभ्रुकुटिमाला सा शंकिताभ्येति नर्मदा। एष एव मनोर्वंशे त्ववगाहेन्महार्णवम्
करेणोद्धृत्य वेगं तु कामिनीप्रीणनेन तु। तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ
भवंति लीना निश्चेष्टाः पातालस्था महासुराः। तदूरुक्षोभचकिता अमृतोत्पादशंकिताः
नता निश्चलमूर्द्धानो भवंति च महोरगाः। एष धन्वी च चिक्षेप रावणं प्रति सायकान्
एष धन्वी धनुर्गृह्य उत्सिक्तं पंचभिः शरैः। लंकेशं मोहयित्वा तु सबलं रावणं बलात्
निर्जित्य बद्ध्वा त्वानीय माहिष्मत्याम्बबंध तम्। ततो गतोहं तस्याग्रे अर्जुनं संप्रसादयन्