दिव्यजायुः शतायुश्च सर्वे दिव्यबलौजसः। आयुषो नहुषः पुत्रो वृद्धशर्मा तथैव च
रजिर्दंडो विशाखश्च वीराः पंचमहारथाः। रजेः पुत्रशतं जज्ञे राजेया इति विश्रुतं
रजिराराधयामास नारायणमकल्मषं। तपसा तोषितो विष्णुर्वरं प्रादान्महीपतेः
देवासुरमनुष्याणामभूत्स विजयी तदा। अथ देवासुरं युद्धमभूद्वर्षशतत्रयम्
प्रह्लादशक्रयोर्भीमं न कश्चिद्विजयी तयोः। ततो देवासुरैः पृष्टः पृथग्देवश्चतुर्मुखः
अनयोर्विजयी कः स्याद्रजिर्यत्रेति सोब्रवीत्। जयाय प्रार्थितो राजा सहायस्त्वं भवस्व नः
दैत्यैः प्राह यदि स्वामी वो भवामि ततस्त्वलम्। नासुरैः प्रतिपन्नं तत्प्रतिपन्नं सुरैस्तदा
स्वामी भव त्वमस्माकं बलनाशय विद्विषः। ततो विनाशिताः सर्वे ये वध्या वज्रपाणिनः
पुत्रत्वमगमत्तुष्टस्तस्येंद्रः कर्मणा ततः। दत्त्वेंद्राय पुरा राज्यं जगाम तपसे रजिः
रजिपुत्रैस्तदाछिन्नं बलादिंद्रस्य वैयदा। यज्ञभागश्च राज्यं च तपोबलगुणान्वितैः
राज्यभ्रष्टस्ततः शक्रो रजिपुत्रनिपीडितः। प्राह वाचस्पतिं दीनः पीडितोऽस्मि रजेः सुतैः
न यज्ञभागो राज्यं मे पीडितस्य बृहस्पते। राज्यलाभाय मे यत्नं विधत्स्व धिषणाधिप
ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम्। ग्रहशांतिविधानेन पौष्टिकेन च कर्मणा
गत्वाथ मोहयामास रजिपुत्रान्बृहस्पतिः। जिनधर्मं समास्थाय वेदबाह्यं स धर्मवित्
वेदत्रयीपरिभ्रष्टांश्चकार धिषणाधिपः। वेदबाह्यान्परिज्ञाय हेतुवादसमन्वितान्
जघान शक्रो वज्रेण सर्वान्धर्मबहिष्कृतान्। नहुषस्य प्रवक्ष्यामि पुत्रान्सप्तैव धार्मिकान्
यतिर्ययातिश्शर्यातिरुत्तरः पर एव च। अयतिर्वियतिश्चैव सप्तैते वंशवर्द्धनाः
यतिः कुमारभावेपि योगी वैखानसोभवत्। ययातिरकरोद्राज्यं धर्मैकशरणः सदा
शर्मिष्ठा तस्य भार्याभूद्दुहिता वृषपर्वणः। भार्गवस्यात्मजा चैव देवयानी च सुव्रता
ययातेः पंचदायादास्तान्प्रवक्ष्यामि नामतः। देवयानी यदुं पुत्रं तुर्वसुं चाप्यजीजनत्
तथा द्रुह्यमणं पूरुं शर्मिष्ठाजनयत्सुतान्। यदुः पूरूश्च भरतस्ते वै वंशविवर्द्धनाः
पूरोर्वंशं प्रवक्ष्यामि यत्र जातोसि पार्थिव। यदोस्तु यादवा जाता यत्र तौ बलकेशवौ
भारावतारणार्थाय पांडवानां हिताय च। यदोः पुत्रा बभूवुश्च पंच देवसुतोपमाः
सहस्रजित्तथा ज्येष्ठः क्रोष्टा नीलोञ्जिको रघुः। सहस्रजितो दायादः शतजिन्नाम पार्थिवः
शतजितश्च दायादास्त्रयः परमधार्मिकाः। हैहयश्च हयश्चैव तथा तालहयश्च यः१०० 1.12.
हैहयस्य तु दायादो धर्मनेत्रः प्रतिश्रुतः। धर्मनेत्रस्य कुंतिस्तु संहतस्तस्य चात्मजः
संहतस्य तु दायादो महिष्मान्नाम पार्थिवः। आसीन्महिष्मतः पुत्रो भद्रसेनः प्रतापवान्
वाराणस्यामभूद्राजा कथितः पूर्वमेव हि। भद्रसेनस्य पुत्रस्तु दुर्दमो नाम धार्मिकः
दुर्दमस्य सुतो भीमो धनको नाम वीर्यवान्। धनकस्य सुता ह्यासन्चत्वारो लोकविश्रुताः
कृताग्निः कृतवीर्यश्च कृतधर्मा तथैव च। कृतौजाश्च चतुर्थोभूत्कृतवीर्याच्च सोर्जुनः