स्नात्वा सरस्वतीतोये येऽर्चयित्वा च माधवम् । प्रणमंति जगन्नाथं ते यांति परमां गतिम्
जाह्नव्युवाच-। विधानं ब्रूहि मे ब्रह्मन्सर्वस्वेन करोम्यहम् । प्रसादयामि देवेशं दामोदरमनामयम्
प्राचीमाधव उवाच-। शृणु देवि प्रवक्ष्यामि त्रिस्पृशाया विधानकम् । यं श्रुत्वापि सरिच्छ्रेष्ठे मुच्यते पातकैर्नरः
पलेन च पलार्धेन तदर्द्धेनापि वापगे । प्रतिमा मम सौवर्णा कार्या विभवसारतः
पात्रं ताम्रमयं कार्यं तिलैस्तु परिपूरितम् । सजलं तु घटं शुभ्रं पंचरत्नसमन्वितम्
वेष्टितं पुष्पमालाभिः कर्पूरागुरुवासितम् । न्यसेद्दामोदरं पश्चात्स्नापयित्वा विलिप्य च
परिधानं ततः कार्यं वस्त्रयुग्मेन चान्वितम् । मंत्रैस्तु पूजनं कार्यं पुराणैः समुदीरितैः । पुष्पैः कालोद्भवैः शुभ्रैस्तुलसीपत्रैश्च कोमलैः
छत्रं तु विष्णवे दद्यात्पादुकाभ्यां सुसंयुतम् । निवेद्यानि मनोज्ञानि फलानि सुबहून्यपि
उपवीतं तु दातव्यं सोत्तरीयं नवं दृढम् । वैणवं दापयेद्दंडं सुरूपं सोन्नतं दृढम्
दामोदराय वै पादौ जानुनी माधवाय च । गुह्यं कामप्रदायेति कटिं वामनमूर्तये
पद्मनाभाय नाभिं तु जठरं विश्वयोनये । हृदयं ज्ञानगम्याय कंठं वैकुंठगामिने
सहस्रबाहवे बाहू चक्षुषी योगरूपिणे । संपूज्य विधिवद्भक्त्या दद्यादर्घं विधानतः
शुभ्रेण नालिकेरेण शंखोपरि स्थितेन हि । सूत्रैरावेष्टितेनैव हस्तयोरुभयोरपि
स्मृतो हरसि पापानि यदि नित्यं जनार्दन । दुःस्वप्नं दुर्निमित्तानि मनसा दुर्विचिन्विता
नारकं तु भयं देव भयदुर्गतिसंभवम् । यन्मम स्यान्महादेव ऐहिकं पारलौकिकम्
तेन देवेश मां रक्ष गृहाणार्घं नमोस्तु ते । कृपादृष्टिः सदैवास्तु दामोदर ममोपरि
धूपं दीपं च नैवेद्यं कुर्यान्नीराजनं ततः । शीर्षोपरि सरिच्छ्रेष्ठे भ्रामयेद्वारिजं हरेः
कृत्वा विधानमेतद्धि पूजयेत्स्वगुरुं ततः । दद्यात्सुवर्णं वस्त्राणि सोष्णीषं चैव कंचुकम्
उपानहोऽपि छत्रं च मुद्रिकां च कमंडलुम् । भोजनं चैव तांबूलं सप्तधान्यं च दक्षिणाम्
गुरुं संपूज्य देवेशं कुर्याज्जागरणं हरेः । गीतनृत्यसमायुक्तं तथा शास्त्रसमन्वितम्
निशांते चैव देवाय दत्वा चार्घं विधानतः । स्नानादिकां क्रियां कृत्वा भुंजीयाद्वाडवैः सह
शिव उवाच- द्विजैतत्त्रिस्पृशाख्यानमद्भुतं रोमहर्षणम् । श्रुत्वा तु लभते पुण्यं गंगां स्नानसमुद्भवम्
अश्वमेधसहस्राणि वाजपेयशतानि च । तत्फलं समवाप्नोति त्रिस्पृशा समुपोषणात्
पितृपक्षो मातृपक्षस्तथा चैवात्मपक्षकः । तैः सर्वैः सह संमुक्तो विष्णुलोके महीयते
तीर्थकोटिषु यत्पुण्यं क्षेत्रकोटिषु यत्फलम् । तत्फलं समवाप्नोति त्रिस्पृशा समुपोषणात्
ब्राह्मणा येऽपि कुर्वंति क्षत्रियाः कृष्णमानसाः । वैश्या वा शूद्रजन्मानो ये तथा चान्यजातयः
ते सर्वे मुक्तिमायांति भुवं त्यक्त्वा द्विजोत्तम । मंत्राणां मंत्रराजोऽथ यथा स्याद्द्वादशाक्षरः
व्रतानां च यथा चैषा येन वै त्रिस्पृशा कृता । ब्रह्मणा च कृता पूर्वं पश्चाद्राजर्षिभिः कृता
अन्येषां का कथा वत्स त्रिस्पृशा मुक्तिदायिनी । अनेन विधिना ब्रह्मंस्त्रिस्पृशासंभवं व्रतम्
यः करोति नरो भक्त्या शृणु वक्ष्यामि तत्फलम् । गंगावगाहने ब्रह्मन्वाराणस्यां तु यत्फलम्