जनानां तु स तेजांसि सर्वाण्येवाक्षिपद्बली। ब्रह्माद्यास्तत्र चाजग्मुर्देवा देवर्षिभिः सह
बृहस्पतिगृहे सर्वे जातकर्मोत्सवे तदा। पप्रच्छुस्ते सुरास्तारां केन जातः कुमारकः
ततः सा लज्जिता तेषां न किंचिदवदत्तदा। पुनः पुनस्तदा पृष्टा लज्जयंती वरांगना
सोमस्येति चिरादाह ततो गृह्णाद्विधुः सुतं। बुध इत्यकरोन्नाम प्रादाद्राज्यं च भूतले
अभिषेकं ततः कृत्वा प्रदानमकरोद्विभुः। ग्रहमध्यं प्रदायाथ ब्रह्मा ब्रह्मर्षिभिर्युतः५० 1.12.
पश्यतां सर्वभूतानां तत्रैवांतरधीयत। इलोदरे च धर्मिष्ठं बुधः पुत्रमजीजनत्
अश्वमेधशतंसाग्रमकरोद्यस्स्वतेजसा। पुरूरवा इति ख्यातः सर्वलोकनमस्कृतः
हिमवच्छिखरे रम्ये समाराध्य पितामहं। लोकैश्वर्यमगाद्राजन्सप्तद्वीपपतिस्तदा
केशिप्रभृतयो दैत्यास्तद्भृत्यत्वं समागताः। उर्वशी यस्य पत्नीत्वमगमद्रूपमोहिता
सप्तद्वीपावसुमती सशैलवनकानना। धर्मेण पालिता तेन सर्वलोकहितैषिणा
चामरग्रहणाकीर्तिः स्वयं चैवांगवाहिका। ब्रह्मप्रसादाद्देवेंद्रो ददावर्द्धासनं तदा
धर्मार्थकामान्धर्मेण समवेतोभ्यपालयत्। धर्मार्थकामास्तं द्रष्टुमाजग्मुः कौतुकान्विताः
जिज्ञासवस्तच्चरितं कथं पश्यति नः समम्। भक्त्या चक्रे ततस्तेषामर्घ्यपाद्यादिकं ततः
आसनत्रयमानीय दिव्यं कनकभूषणम्। निवेश्याथाकरोत्पूजामीषद्धर्मेधिकां पुनः
जग्मतुस्तौ च कामार्थावतिकोपं नृपं प्रति। अर्थः शापमदात्तस्मै लोभात्त्वं नाशमेष्यसि
कामोप्याह तवोन्मादो भविता गंधमादने। कुमारवनमाश्रित्य वियोगाच्चोर्वशीभवात्
धर्मोप्याह चिरायुस्त्वं धार्मिकश्च भविष्यसि। संततिस्तव राजेंद्र यावदाचंद्रतारकम्
शतशो वृद्धिमायाति न नाशं भुवि यास्यति। षष्टिं वर्षाणि चोन्माद ऊर्वशीकामसंभवः
अचिरादेव भार्यापि वशमेष्यति चाप्सराः। इत्युक्त्वांतर्दधुः सर्वे राजा राज्यं तदान्वभूत्
अहन्यहनि देवेंद्रं द्रष्टुं याति पुरूरवाः। कदाचिदारुह्य रथं दक्षिणांबरचारिणा
सार्धं शक्रेण सोऽपश्यन्नीयमानामथांबरे। केशिना दानवेंद्रेण चित्रलेखामथोर्वशीम्
तं विनिर्जित्य समरे विविधायुधपातनैः। पुरा शक्रोपि समरे येन वज्री विनिर्जितः
मित्रत्वमगमत्तेन प्रादादिंद्राय चोर्वशीं। ततःप्रभृति मित्रत्वमगमत्पाकशासनः
सर्वलोकेतिशयितं पुरूरवसमेव तम्। प्राह वज्री तु संतुष्टो नीयतामियमेव च
सा पुरूरवसः प्रीत्यै चागायच्चरितं महत्। लक्ष्मीस्वयंवरंनाम भरतेन प्रवर्तितम्
मेनकां चोर्वशीं रंभां नृत्यध्वमिति चादिशत्। ननर्त सलयं तत्र लक्ष्मीरूपेण चोर्वशी
सा पुरूरवसं दृष्ट्वा नृत्यंती कामपीडिता। विस्मृताभिनयं सर्वं यत्पुरातनचोदितम्
शशाप भरतः क्रोधाद्वियोगात्तस्य भूतले। पंचपंचाशदब्दानि लताभूता भविष्यसि
ततस्तमुर्वशी गत्वा भर्त्तारमकरोच्चिरं। शापानुभवनांते च उर्वशी बुधसूनुना
अजीजनत्सुतानष्टौ नामतस्तान्निबोध मे। आयुर्दृढायुर्वश्यायुर्बलायुर्धृतिमान्वसुः