चिरं विहृत्याथ जगाम तारां विधुर्गृहीत्वा स्वगृहं ततोपि। न तृप्तिरासीत्स्वगृहेपि तस्य तारानुरक्तस्य सुखागमेषु
बृहस्पतिस्तद्विरहाग्निदग्धस्तद्ध्याननिष्ठैकमना बभूव। शशाक शापं न च दातुमस्मै न मंत्रशस्त्राग्निविषैरनेकैः
तस्यापकर्तुं विविधैरुपायैर्नैवाभिचारैरपि वागधीशः। स याचयामास ततस्तु देवं सोमं स्वभार्यार्थमनंगतप्तः
स याच्यमानोपि ददौ न भार्यां बृहस्पतेः कामवशेन मोहितः। महेश्वरेणाथ चतुर्मुखेन साध्यैर्मरुद्भिः सह लोकपालैः
ददौ यदा तां न कथंचिदिंदुस्तदा शिवः क्रोधपरो बभूव। यो वामदेवप्रथितः पृथिव्यामनेकरुद्रार्चितपादपद्मः
ततः सशिष्यो गिरिशः पिनाकी बृहस्पतेः स्नेहवशानुबद्धः। धनुर्गृहीत्वाजगवं पुरारिर्जगाम भूतेश्वरसिद्धजुष्टः
युद्धाय सोमेन विशेषदीप्तस्तृतीयनेत्रानलभीमवक्त्रः। सहैव जग्मुश्च गणेश्वराणां विंशाधिका षष्टिरथोग्रमूर्तिः
यक्षेश्वराणां सगणैरनेकैर्युतोन्वगात्स्यंदनसंस्थितानां। वेतालयक्षोरगकिन्नराणां पद्मेन चैकेन तथार्बुदानाम्
लक्षैस्त्रिभिर्द्वा दशभी रथानां सोमोप्यगात्तत्र विवृद्धमन्युः। शनैश्चरांगारकवृद्धतेजा नक्षत्रदैत्यासुरसैन्ययुक्तः
जग्मुर्भयं सप्त तथैव लोका धरावनद्वीपसमुद्रगर्भाः। ससोममेवाभ्यगमत्पिनाकी गृहीतदीप्तास्त्रविशालवह्निः
अथाभवद्भीषण भीम सोम सैन्यद्वयस्याथ महाहवोसौ। अशेषसत्वक्षयकृत्प्रवृद्धस्तीक्ष्णप्रधानो ज्वलनैकरूपः
शस्त्रैरथान्योन्यमशेषसैन्यं द्वयोर्जगामक्षयमुग्रतीक्ष्णैः। पतंति शस्त्राणि तथोज्वलानि स्वर्भूमिपातालमलं दहंति
रुद्रः क्रोधाद्ब्रह्मशिरो मुमोच सोमोपि सोमास्त्रममोघवीर्यं। तयोर्निपातेन समुद्रभूम्योरथांतरिक्षस्य च भीतिरासीत्
तदा सुयुद्धं जगतां क्षयाय प्रवृद्धमालोक्य पितामहोपि। ततः प्रविश्याथ कथंचिदेव निवारयामास सुरैः सहैव
अकारणं किं क्षयकृज्जनानां सोम त्वयापीदमकार्यकार्यं। यस्मात्परस्त्रीहरणाय सोम त्वया कृतं युद्धमतीव भीमम्
पापग्रहस्त्वं भविता जनेषु पापोस्यलं वह्निमुखाशिनां त्वं। भार्यामिमामर्पय वाक्पतेस्त्वं प्रमाणयन्नेव मदीय वाचम्
तथेति चोवाच हिमांशुमाली युद्धादपाक्रामदतः प्रशांतः। बृहस्पतिस्तामथ गृह्य तारां हृष्टो जगाम स्वगृहं च रुद्रः
पुलस्त्य उवाच। ततः संवत्सरस्यांते द्वादशादित्यसन्निभः। दिव्यपीताम्बरधरो दिव्याभरणभूषितः
तारोदरविनिष्क्रान्तः कुमारस्सूर्यसन्निभः। सर्वार्थशास्त्रविद्विद्वान्हस्तिशास्त्रप्रवर्त्तकः
नामयद्राजपुत्रोयं विश्रुतो राजवैद्यकः। राज्ञः सोमस्य पुत्रत्वाद्राजपुत्रो बुधः स्मृतः
जनानां तु स तेजांसि सर्वाण्येवाक्षिपद्बली। ब्रह्माद्यास्तत्र चाजग्मुर्देवा देवर्षिभिः सह
बृहस्पतिगृहे सर्वे जातकर्मोत्सवे तदा। पप्रच्छुस्ते सुरास्तारां केन जातः कुमारकः
ततः सा लज्जिता तेषां न किंचिदवदत्तदा। पुनः पुनस्तदा पृष्टा लज्जयंती वरांगना
सोमस्येति चिरादाह ततो गृह्णाद्विधुः सुतं। बुध इत्यकरोन्नाम प्रादाद्राज्यं च भूतले
अभिषेकं ततः कृत्वा प्रदानमकरोद्विभुः। ग्रहमध्यं प्रदायाथ ब्रह्मा ब्रह्मर्षिभिर्युतः५० 1.12.
पश्यतां सर्वभूतानां तत्रैवांतरधीयत। इलोदरे च धर्मिष्ठं बुधः पुत्रमजीजनत्
अश्वमेधशतंसाग्रमकरोद्यस्स्वतेजसा। पुरूरवा इति ख्यातः सर्वलोकनमस्कृतः
हिमवच्छिखरे रम्ये समाराध्य पितामहं। लोकैश्वर्यमगाद्राजन्सप्तद्वीपपतिस्तदा
केशिप्रभृतयो दैत्यास्तद्भृत्यत्वं समागताः। उर्वशी यस्य पत्नीत्वमगमद्रूपमोहिता
सप्तद्वीपावसुमती सशैलवनकानना। धर्मेण पालिता तेन सर्वलोकहितैषिणा