अथ सुस्राव नेत्राभ्यां जलं तत्रात्रिसंभवम्। द्योतयद्विश्वमखिलं ज्योत्स्नया सचराचरम्
तद्दिशो जगृहुस्तत्र स्त्रीरूपेणासहृच्छयाः। गर्भो भूत्वोदरे तासां स्थितः सोप्यत्रिसंभवः
आशाश्च मुमुचुर्गर्भमशक्ता धारणे ततः। समादायाथ तं गर्भमेकीकृत्य चतुर्मुखः
युवानमकरोद्ब्रह्मा सर्वायुधधरं नरम्। स्यंदनेथ सहस्तेन वेदशक्तिमये प्रभुः
आरोप्य लोकमनयदात्मीयं स पितामहः। ततो ब्रह्मर्षिभिः प्रोक्तं ह्यस्मत्स्वामीभवत्वयम्
ऋषिभिर्देवगंधर्वैरप्सरोभिस्तथैव च। स्तूयमानस्य तस्याभूदधिकं महदंतरम्
तेजोवितानादभवद्भुवि दिव्यौषधीगणः। तद्दीप्तिरधिका तस्माद्रात्रौ भवति सर्वदा
तेनौषधीशः सोमोभूद्द्विजेष्वपि हि गण्यते। वेदधामा रसश्चायं यदिदं मंडलं शुभम्
क्षीयते वर्द्धते चैव शुक्ले कृष्णे च सर्वदा। विंशतिं च तथा सप्त दक्षः प्राचेतसो ददौ
रूपलावण्यसंयुक्तास्तस्मै कन्याः सुवर्चसः। ततः शक्तिसहस्राणां सहस्राणि दशैव तु
तपश्चकार शीतांशुर्विष्णुध्यानैकतत्परः। ततस्तुष्टश्च भगवांस्तस्मै नारायणो हरिः
वरं वृणीष्व चोवाच परमात्मा जनार्दनः। ततो वव्रे वरं सोमः शक्रलोके यजाम्यहम्
प्रत्यक्षमेव भोक्तारो भवंतु मम मंदिरे। राजसूये सुरगणा ब्रह्माद्या ये चतुर्विधाः
रक्षपालः सुरोस्माकमास्तां शूलधरो हरः। तथेत्युक्तः समाजह्रे राजसूयं तु विष्णुना
होतात्रिर्भृगुरध्वर्युरुद्गाता च चतुर्मुखः। ब्रह्मत्वमगमत्तस्य उपद्रष्टा हरिः स्वयम्
सदस्याः सर्वदेवास्तु राजसूयविधिः स्मृतः। वसवोध्वर्यवस्तद्वद्विश्वेदेवास्तथैव च
त्रैलोक्यं दक्षिणा तेन ऋत्विग्भ्यः प्रतिपादिता। सोमः प्राप्याथदुष्प्राप्यमैश्वर्यं सृष्टिसत्कृतं
सप्तलोकैकनाथत्वं प्राप्तस्स्वतपसा तदा। कदाचिदुद्यानगतामपश्यदनेकपुष्पाभरणोपशोभाम्
बृहन्नितंबस्तनभारखेदां पुष्पावभंगेप्यतिदुर्बलांगीं। भार्यां च तां देवगुरोरनंगबाणाभिरामायत चारुनेत्रां
तारां स ताराधिपतिः स्मरार्तः केशेषु जग्राह विविक्तभूमौ। सापि स्मरार्ता सहते न रेमे तद्रूपकांत्याहृतमानसैव
चिरं विहृत्याथ जगाम तारां विधुर्गृहीत्वा स्वगृहं ततोपि। न तृप्तिरासीत्स्वगृहेपि तस्य तारानुरक्तस्य सुखागमेषु
बृहस्पतिस्तद्विरहाग्निदग्धस्तद्ध्याननिष्ठैकमना बभूव। शशाक शापं न च दातुमस्मै न मंत्रशस्त्राग्निविषैरनेकैः
तस्यापकर्तुं विविधैरुपायैर्नैवाभिचारैरपि वागधीशः। स याचयामास ततस्तु देवं सोमं स्वभार्यार्थमनंगतप्तः
स याच्यमानोपि ददौ न भार्यां बृहस्पतेः कामवशेन मोहितः। महेश्वरेणाथ चतुर्मुखेन साध्यैर्मरुद्भिः सह लोकपालैः
ददौ यदा तां न कथंचिदिंदुस्तदा शिवः क्रोधपरो बभूव। यो वामदेवप्रथितः पृथिव्यामनेकरुद्रार्चितपादपद्मः
ततः सशिष्यो गिरिशः पिनाकी बृहस्पतेः स्नेहवशानुबद्धः। धनुर्गृहीत्वाजगवं पुरारिर्जगाम भूतेश्वरसिद्धजुष्टः
युद्धाय सोमेन विशेषदीप्तस्तृतीयनेत्रानलभीमवक्त्रः। सहैव जग्मुश्च गणेश्वराणां विंशाधिका षष्टिरथोग्रमूर्तिः
यक्षेश्वराणां सगणैरनेकैर्युतोन्वगात्स्यंदनसंस्थितानां। वेतालयक्षोरगकिन्नराणां पद्मेन चैकेन तथार्बुदानाम्
लक्षैस्त्रिभिर्द्वा दशभी रथानां सोमोप्यगात्तत्र विवृद्धमन्युः। शनैश्चरांगारकवृद्धतेजा नक्षत्रदैत्यासुरसैन्ययुक्तः
जग्मुर्भयं सप्त तथैव लोका धरावनद्वीपसमुद्रगर्भाः। ससोममेवाभ्यगमत्पिनाकी गृहीतदीप्तास्त्रविशालवह्निः