सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः। वर्णाश्रमाणां गेहेपि तीर्थं शम उदाहृतम्
येषु तीर्थेषु यच्छ्राद्धं तत्कोटिगुणमिष्यते। गयायां यत्तु वै श्राद्धं तच्छ्राद्धमपवर्गदम्
यस्मात्तस्मात्प्रयत्नेन तीर्थे श्राद्धं विधीयते। प्रातःकालो मुहूर्तांस्त्रीन्संगवस्तावदेव तु
मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्ततः परम्। सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत्
राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु। अह्नो मुहूर्ता व्याख्याता दशपंच च सर्वदा
तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः। मध्याह्नात्सर्वदा यस्मान्मंदी भवति भास्करः
तस्मादनंतफलदस्तत्रारंभो विशिष्यते। खड्गपात्रं च कुतपस्तथा नैपालकंबलम्
रुक्मं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः। पापं कुत्सितमित्याहुस्तस्य तत्तापकारिणः
अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः। ऊर्ध्वं मुहुर्त्तात्कुतपान्महूर्त्तं च चतुष्टयम्
मुहूर्त्तपंचकं चैव स्वधावाचनमिष्यते। विष्णुदेहसमुद्भूताः कुशाः कृष्णतिलास्तथा
श्राद्धस्य लक्षणं कालमिति प्राहुर्मनीषिणः। तिलोदकांजलिर्देयो जलांते तीर्थवासिभिः
सदर्भहस्तेनैकेन गृहे श्राद्धं गमिष्यति। पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम्
ब्रह्मणा चैव कथितं तीर्थश्राद्धानुकीर्तनम्। शृणोति यः पठेद्वापि श्रीमान्संजायते नरः
श्राद्धकाले च वक्तव्यं तथा तीर्थनिवासिभिः। सर्वपापोपशांन्त्यर्थमलक्ष्मीनाशनं मतं
इदं पवित्रं यशसो निधानमिदं महापातकनाशनं च। ब्रह्मार्करुद्रैरभिपूजितं च श्राद्धस्य माहात्म्यमुशंति तज्ज्ञाः
भीष्म उवाच। सोमवंशः कथं जातः कथयात्र विशारद। तद्वंशे केतुराजानो बभूवुः कीर्तिवर्द्धनाः
पुलस्त्य उवाच। आदिष्टो ब्रह्मणा पूर्वमत्रिः सर्गविधौ पुरा। अनंतरं नाम तपः सृष्ट्यर्थं तप्तवान्विभुः
यदानंदकरं ब्रह्म भगवन्क्लेशनाशनं। ब्रह्मरुद्रेन्द्रसूर्याणामभ्यंतरमतींद्रियं
शान्तिं कृत्वात्ममनसा तदत्रिः संयमे स्थितः। माहात्म्यं तपसो वापि परमानंदकारकं
यस्माद्वंशपतिः सार्द्धं समये तदधिष्ठितः। तं दृष्ट्वाचष्ट सोमेन तस्मात्सोमोभवद्विभुः
अथ सुस्राव नेत्राभ्यां जलं तत्रात्रिसंभवम्। द्योतयद्विश्वमखिलं ज्योत्स्नया सचराचरम्
तद्दिशो जगृहुस्तत्र स्त्रीरूपेणासहृच्छयाः। गर्भो भूत्वोदरे तासां स्थितः सोप्यत्रिसंभवः
आशाश्च मुमुचुर्गर्भमशक्ता धारणे ततः। समादायाथ तं गर्भमेकीकृत्य चतुर्मुखः
युवानमकरोद्ब्रह्मा सर्वायुधधरं नरम्। स्यंदनेथ सहस्तेन वेदशक्तिमये प्रभुः
आरोप्य लोकमनयदात्मीयं स पितामहः। ततो ब्रह्मर्षिभिः प्रोक्तं ह्यस्मत्स्वामीभवत्वयम्
ऋषिभिर्देवगंधर्वैरप्सरोभिस्तथैव च। स्तूयमानस्य तस्याभूदधिकं महदंतरम्
तेजोवितानादभवद्भुवि दिव्यौषधीगणः। तद्दीप्तिरधिका तस्माद्रात्रौ भवति सर्वदा
तेनौषधीशः सोमोभूद्द्विजेष्वपि हि गण्यते। वेदधामा रसश्चायं यदिदं मंडलं शुभम्
क्षीयते वर्द्धते चैव शुक्ले कृष्णे च सर्वदा। विंशतिं च तथा सप्त दक्षः प्राचेतसो ददौ
रूपलावण्यसंयुक्तास्तस्मै कन्याः सुवर्चसः। ततः शक्तिसहस्राणां सहस्राणि दशैव तु