निहत्य नमुचिं मित्रं तपसा स्वर्गमाप्तवान्। तत्र दत्तं नरैः श्राद्धमनंतफलदं भवेत्
पुष्करं नाम वै तीर्थं शालग्रामं तथैव च। शोणपातश्च विख्यातो यत्र वैश्वानराशयः
तीर्थं सारस्वतं चैव स्वामितीर्थं तथैव च। मलंदरा नदी पुण्या कौशिकी चंद्रका तथा
विदर्भा चाथ वेगा च पयोष्णी प्राङ्मुखा परा। कावेरी चोत्तरांगा च तथा जालंधरो गिरिः
एतेषु श्राद्धतीर्थेषु श्राद्धमानंत्यमश्नुते। लोहदंडं तथा तीर्थं चित्रकूटस्तथैव च
दिव्यं सर्वत्र गंगायास्तथा नद्यास्तटं शुभम्। कुब्जाम्रकं तथा तीर्थमुर्वशीपुलिनं तथा
संसारमोचनं तीर्थं तथैव ऋणमोचनम्। एतेषु पितृतीर्थेषु श्राद्धमानंत्यमश्नुते
अट्टहासं तथा तीर्थं गौतमेश्वरमेव च। तथा वसिष्ठतीर्थं च भारतं च ततः परम्
ब्रह्मावर्तं कुशावर्तं हंसतीर्थं तथैव च। पिंडारकं च विख्यातं शंखोद्धारं तथैव च
भांडेश्वरं बिल्वकं च नीलपर्वतमेव च। तथा च बदरीतीर्थं सर्वतीर्थेश्वरेश्वरम्
वसुधाराह्वयं तीर्थं रामतीर्थं तथैव च। जयंती विजया चैव शुक्लतीर्थं तथैव च
एषु श्राद्धप्रदातारः प्रयांति परमं पदम्। तीर्थं मातृगृहं नाम करवीरपुरं तथा
सप्तगोदावरीनाम सर्वतीर्थेश्वरेश्वरम्। तत्र श्राद्धं प्रदातव्यमनंतफलमीप्सुभिः
कीकटेषु गया पुण्या पुण्यं राजगृहं वनम्। च्यवनस्याश्रमं पुण्यं नदी पुण्या पुनःपुना
विषयाराधनं पुण्यं नदी या तु पुनःपुना। यत्र गाथा विचरति ब्रह्मणा परिकीर्तिता
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत्। यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्
एषा गाथा विचरति तीर्थेष्वायतनेषु च। सर्वे मनुष्या राजेंद्र कीर्त्तयंतः समागताः
किमस्माकं कुले कश्चिद्गयां यास्यति यः सुतः। प्रीणयिष्यति तान्गत्वा सप्तपूर्वांस्तथापरान्
मातामहानामप्येवं श्रुतिरेषा चिरंतनी। गंगायामस्थिनिचयं गत्वा क्षेप्स्यति यः सुतः
तिलैः सप्ताष्टभिर्वापि दास्यते च जलांजलिम्। अरण्यत्रितये वापि पिंडदानं करिष्यति
प्रथमं पुष्करारण्ये नैमिषे तदनंतरं। धर्मारण्यं पुनः प्राप्य श्राद्धं भक्त्या प्रदास्यति
गयायां धर्मपृष्ठे वा सरसि ब्रह्मणस्तथा। गयाशीर्षवटे चैव पितॄणां दत्तमक्षयम्
व्रजन्कृत्वा निवापं यस्त्वध्वानं परिसर्पति। नरकस्थान्पितॄन्सोपि स्वर्गं नयति सत्वरं
कुले तस्य न राजेंद्र प्रेतो भवति कश्चन। प्रेतत्वं मोक्षभावं च पिंडदानाच्च गच्छति
एको मुनिस्ताम्रकराग्रहस्तो ह्याम्रेषु मूले सलिलं ददाति। आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा
गयायां पिण्डदानस्य नान्यद्दानं विशिष्यते। एकेन पिंडदानेन तृप्तास्ते मोक्षगामिनः
धान्यप्रदानं प्रवरं वदंति वसुप्रदानं च तथामुनींद्राः। गया सुतीर्थेषु नरैः प्रदत्तं तद्धर्महेतुं प्रवरं वदंति
सर्वात्मना सुरुचिना महाचल महानदी। ये तु पश्यंति तां गत्वा मानसे दक्षिणोत्तरे
प्रणम्य द्विजमुख्येभ्यः प्राप्तं तैर्जन्मनः फलं। यद्यदिच्छति वै मर्त्यस्तत्तदाप्नोत्यसंशयम्
एष तूद्देशतः प्रोक्तस्तीर्थानां सग्रहो मया। वागीशोपि न शक्नोति विस्तरात्किमु मानुषः