शतावटा नदी ज्वाला शरद्वी च नदी तथा। द्वारका कृष्णतीर्थं च तथा ह्युदक्सरस्वती
नदी मालवती नाम तथा च गिरिकर्णिका। धूतपापं तथा तीर्थं समुद्रे दक्षिणे तथा
गोकर्णो गजकर्णश्च तथा चक्रनदी शुभा। श्रीशैलं शाकतीर्थं च नारसिंहमतः परम्
महेंद्रं च तथा पुण्या पुण्या चापि महानदी। एतेष्वपि सदा श्राद्धमनंतफलदं स्मृतम्
दर्शनादपि पुण्यानि सद्यः पापहराणि वै। तुंगभद्रा नदी पुण्या तथा चक्ररथीति च
भीमेश्वरं कृष्णवेणा कावेरी चांजना नदी। नदी गोदावरी पुण्या त्रिसंध्या पूर्णमुत्तमम्
तीर्थं त्रैयंबकं नाम सर्वतीर्थनमस्कृतम्। यत्रास्ते भगवान्भीमः स्वयमेव त्रिलोचनः
श्राद्धमेतेषु सर्वेषु दत्तं कोटिगुणं भवेत्। स्मरणादपि पापानि व्रजंति शतधा नृप
श्रीपर्णा च नदी पुण्या व्यासतीर्थमनुत्तमम्। तथा मत्स्यनदी कारा शिवधारा तथैव च
भवतीर्थं च विख्यातं पुण्यतीर्थं च शाश्वतम्। पुण्यं रामेश्वरं तद्वद्वेणापुरमलंपुरम्
अंगारकं च विख्यातमात्मदर्शमलंबुषम्। वत्सव्रातेश्वरं तद्वत्तथागोकामुखं परम्
गोवर्द्धनं हरिश्चंद्रं पुरश्चन्द्रं पृथूदकम्। सहस्राक्षं हिरण्याक्षं तथा च कदलीनदी
नामधेयानि च तथा तथा सौमित्रिसंगतम्। इंद्रनीलं महानादं तथा च प्रियमेलकम्
एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि च। एतेषु सर्वदेवानां सांनिध्यं पठ्यते यतः
दानमेतेषु सर्वेषु भवेत्कोटिशताधिकम्। बाहुदा च नदी पुण्या तथा सिद्धवटं शुभम्
तीर्थं पाशुपतं चैव नदी पर्यटिका तथा। श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरम्
तथैव पंचतीर्थं च यत्र गोदावरी नदी। युता लिंगसहस्रेण सव्येतर जलावहा
जामदग्न्यस्य तत्तीर्थं मोदायतनमुत्तमम्। प्रतीकस्य भयात्सिद्धा यत्र गोदावरी नदी
तीर्थं तद्धव्यकव्यानामप्सरोगणसंयुतम्। श्राद्धाग्नि दानकार्यं च तत्र कोटिशताधिकम्
तथा सहस्रलिंगं च राघवेश्वरमुत्तमम्। सेन्द्रकाला नदी पुण्या तत्र शक्रो गतः पुरा५० 1.11.
निहत्य नमुचिं मित्रं तपसा स्वर्गमाप्तवान्। तत्र दत्तं नरैः श्राद्धमनंतफलदं भवेत्
पुष्करं नाम वै तीर्थं शालग्रामं तथैव च। शोणपातश्च विख्यातो यत्र वैश्वानराशयः
तीर्थं सारस्वतं चैव स्वामितीर्थं तथैव च। मलंदरा नदी पुण्या कौशिकी चंद्रका तथा
विदर्भा चाथ वेगा च पयोष्णी प्राङ्मुखा परा। कावेरी चोत्तरांगा च तथा जालंधरो गिरिः
एतेषु श्राद्धतीर्थेषु श्राद्धमानंत्यमश्नुते। लोहदंडं तथा तीर्थं चित्रकूटस्तथैव च
दिव्यं सर्वत्र गंगायास्तथा नद्यास्तटं शुभम्। कुब्जाम्रकं तथा तीर्थमुर्वशीपुलिनं तथा
संसारमोचनं तीर्थं तथैव ऋणमोचनम्। एतेषु पितृतीर्थेषु श्राद्धमानंत्यमश्नुते
अट्टहासं तथा तीर्थं गौतमेश्वरमेव च। तथा वसिष्ठतीर्थं च भारतं च ततः परम्
ब्रह्मावर्तं कुशावर्तं हंसतीर्थं तथैव च। पिंडारकं च विख्यातं शंखोद्धारं तथैव च
भांडेश्वरं बिल्वकं च नीलपर्वतमेव च। तथा च बदरीतीर्थं सर्वतीर्थेश्वरेश्वरम्