भीष्म उवाच। कस्मिन्वासरभागे तु श्राद्धी श्राद्धं समाचरेत्। तीर्थेषु केषु वै श्राद्धं कृतं बहुफलं द्विज
पुलस्त्य उवाच। तीर्थं तु पुष्करं नाम यत्तु श्रेष्ठतमं स्मृतम्। सर्वेषां द्विजमुख्यानां मनोरथमिव स्थितम्
तत्र दत्तं हुतं जप्तमनन्तं भवति ध्रुवम्। पितॄणां वल्लभं नित्यमृषीणां परमं मतम्
नंदाथ ललिता तद्वत्तीर्थं मायापुरी शुभा। तथा मित्रपदं राजंस्ततः केदारमुत्तमम्
गंगासागरमित्याहुः सर्वतीर्थमयं शुभम्। तीर्थं ब्रह्मसरस्तद्वच्छतद्रुसलिलं शुभम्
तीर्थं तु नैमिषं नाम सर्वतीर्थफलप्रदम्। गंगोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः
तथा यज्ञवराहस्तु देवदेवश्च शूलधृक्। यत्र तत्कांचनं दानमष्टादशभुजो हरः
नेमिस्तु धर्मचक्रस्य शीर्णा यत्राभवत्पुरा। तदेतन्नैमिशारण्यं सर्वतीर्थनिषेवितम्
देवदेवस्य तत्रापि वराहस्य च दर्शनम्। यः प्रयाति स पूतात्मा नारायणपुरं व्रजेत्
कोकामुखं परं तीर्थमिन्द्रमार्गोपि लक्ष्यते। अथापि पितृतीर्थं तु ब्रह्मणोव्यक्तजन्मनः
पुष्करारण्यसंस्थोसौ यत्र देवः पितामहः। विरिंचिदर्शनं श्रेष्ठमपवर्गफलप्रदम्
कृतं नाम महापुण्यं सर्वपापनिषूदनम्। यत्राद्यो नारसिंहस्तु स्वयमेव जनार्दनः
तीर्थमिक्षुमतीनाम पितॄणां च शुभावहा। तुष्यन्ति पितरो नित्यं गंगायमुनसंगमे
कुरुक्षेत्रं महापुण्यं यत्र मार्गोपि लक्ष्यते। अद्यापि पितृतीर्थं तु सर्वकामफलप्रदम्
नीलकण्ठमिति ख्यातं पितृतीर्थं नराधिप। तथा भद्रसरः पुण्यं सरो मानसमेव च
मंदाकिनी तथाऽच्छोदा विपाशा च सरस्वती। सर्वमित्रपदं तद्वद्वैद्यनाथं महाफलम्
क्षिप्रा नदी तथा पुण्या तथा कालञ्जरं शुभम्। तीर्थोद्भेदं हरोद्भेदं गर्भभेदं महालयम्
भद्रेश्वरं विष्णुपदं नर्मदा द्वारमेव च। गयापिंडप्रदानेन समान्याहुर्महर्षयः
एतानि पितृतीर्थानि सर्वपापहराणि च। स्मरणादपि लोकानां किमु श्राद्धप्रदायिनाम्
ॐकारं पितृतीर्थं तु कावेरीकपिलोदकम्। संभेदश्चण्डवेगायां तथैवामरकंटकम्
कुरुक्षेत्राच्चद्विगुणं तस्मिन्स्नानादिकं भवेत्। शुक्लतीर्थं तु विख्यातं तीर्थं सोमेश्वरं परम्
सर्वव्याधिहरंपुण्यंफलंकोटिगुणाधिकम्। श्राद्धेदानेतथाहोमेस्वाध्यायेचापिसन्निधौ
कायावारोहणं नाम देवदेवस्य शूलिनः। अवतारं रोचमानं ब्राह्मणावसथे शुभे
जातं तत्सुमहापुण्यं तथा चर्मण्वती नदी। शूलतापी पयोष्णी च पयोष्णीसंगमस्तथा
महौषधी चारणा च नागतीर्थप्रवर्त्तिनी। महावेणा नदी पुण्या महाशालस्तथैव च
गोमती वरुणा तद्वत्तीर्थं हौताशनं परम्। भैरवं भृगुतुंगं च गौरीतीर्थमनुत्तमम्
तीर्थं वैनायकं नाम वस्त्रेश्वरमनुत्तमम्। तथा पापहरं नाम पुण्या वेत्रवती नदी
महारुद्रं महालिंगं दशार्णा च महानदी। शतरुद्रा शताह्वा च तथा पितृपदं पुरम्
अंगारवाहिका तद्वन्नदौ द्वौ शोणघर्घरौ। कालिका च नदी पुण्या पितरा च नदी शुभा
एतानि पितृतीर्थानि शस्यंते स्नानदानयोः। श्राद्धमेतेषु यद्दत्तं तदनंतफलं स्मृतम्