न चान्यत्कारणं किंचिद्धास्यहेतुः शुचिस्मिते। न सामन्यततं देवी प्राहालीकमिदं तव
अहमेवेह हसिता न जीविष्ये त्वयाधुना। कथं पिपीलिकालापं मर्त्यो वेत्ति सुरादृते
तस्मात्त्वयाहमेवाद्य हसिता किमतः परम्। ततो निरुत्तरो राजा जिज्ञासुस्तद्वचो हरेः
आस्थाय नियमं तस्थौ सप्तरात्रमकल्मषः। स्वप्नान्ते प्राह तं ब्रह्मा प्रभाते पर्यटन्पुरम्
वृद्धद्विजोत्तमाद्वाक्यं सर्वं ज्ञास्यति ते प्रिया। इत्युक्त्वांतर्दधे ब्रह्मा प्रभाते च नृपः पुरात्
निर्गच्छन्मन्त्रिसहितः सभार्यो वृद्धमग्रतः। गदंतं विप्रमायांतं वृद्धं च स ददर्श ह
ब्राह्मण उवाच। ये विप्रमुख्याः कुरुजांगलेषु दाशास्तथा दाशपुरे मृगाश्च। कालंजरे सप्त च चक्रवाका ये मानसे तेत्र वसंति सिद्धाः
इत्याकर्ण्य वचस्तस्य स पपात शुचान्वितः। जातिस्मरत्वमगमत्तौ च मंत्रिवरात्मजौ
कामशास्त्रप्रणेता तु बाभ्रव्यः स तु बालकः। पंचाल इति लोकेषु विश्रुतः सर्वशास्त्रवित्
पुंडरीकोपि धर्मात्मा वेदशास्त्रप्रवर्तकः। भूत्वा जातिस्मरौ शोकात्पतितावग्रतस्तथा
हा वयं कर्मविभ्रष्टाः कामतः कर्मबंधनात्। एवं विलप्य बहुशस्त्रयस्ते योगपारगाः
विस्मयाच्छ्राद्धमाहाम्यमभिनंद्य पुनः पुनः। स तु तस्मै धनं दत्त्वा प्रभूतग्रामसंयुतम्
विसृज्य ब्राह्मणं तं च वृद्धं धनमदान्वितम्। आत्मीयं नृपतिः पुत्रं नृपलक्षणसंयुतम्
विष्वक्सेनाभिधानं च राजाराज्येभ्यषेचयत्। मानसे सलिले सर्वे ततस्ते योगिनां वराः
ब्रह्मदत्तादयस्तस्मिन्पितृभक्ता विमत्सराः। सन्नतिश्चाभवद्धृष्टा मयैव तव दर्शितम्
राजन्योगफलं सर्वं यदेतदभिलक्ष्यते। तथेति प्राह राजापि पुरस्तादभिनंदयन्
त्वत्प्रसादादिदं सर्वं मयैवं प्राप्यते फलम्
ततस्ते योगमास्थाय सर्व एव वनौकसः। ब्रह्मरंध्रेण परमं पदमापुस्तपोबलात्
एवमायुर्धनं विद्यां स्वर्गमोक्षसुखानि च। प्रयच्छंति सुतं राज्यं नृणां तुष्टाः पितामहाः
इदं च पितृमाहात्म्यं ब्रह्मदत्तस्य वै नृप। द्विजेभ्यः श्रावयेद्विद्वान्शृणोति पठतेपि वा। कल्पकोटिशतं साग्रं ब्रह्मलोके महीयते
भीष्म उवाच। कस्मिन्वासरभागे तु श्राद्धी श्राद्धं समाचरेत्। तीर्थेषु केषु वै श्राद्धं कृतं बहुफलं द्विज
पुलस्त्य उवाच। तीर्थं तु पुष्करं नाम यत्तु श्रेष्ठतमं स्मृतम्। सर्वेषां द्विजमुख्यानां मनोरथमिव स्थितम्
तत्र दत्तं हुतं जप्तमनन्तं भवति ध्रुवम्। पितॄणां वल्लभं नित्यमृषीणां परमं मतम्
नंदाथ ललिता तद्वत्तीर्थं मायापुरी शुभा। तथा मित्रपदं राजंस्ततः केदारमुत्तमम्
गंगासागरमित्याहुः सर्वतीर्थमयं शुभम्। तीर्थं ब्रह्मसरस्तद्वच्छतद्रुसलिलं शुभम्
तीर्थं तु नैमिषं नाम सर्वतीर्थफलप्रदम्। गंगोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः
तथा यज्ञवराहस्तु देवदेवश्च शूलधृक्। यत्र तत्कांचनं दानमष्टादशभुजो हरः
नेमिस्तु धर्मचक्रस्य शीर्णा यत्राभवत्पुरा। तदेतन्नैमिशारण्यं सर्वतीर्थनिषेवितम्
देवदेवस्य तत्रापि वराहस्य च दर्शनम्। यः प्रयाति स पूतात्मा नारायणपुरं व्रजेत्
कोकामुखं परं तीर्थमिन्द्रमार्गोपि लक्ष्यते। अथापि पितृतीर्थं तु ब्रह्मणोव्यक्तजन्मनः