पुलस्त्य उवाच। तस्मिन्नेव पुरे जाताश्चक्रवाका अथो नृप
वृद्धद्विजस्य दायादा विप्रा जातिस्मरा बुधाः। धृतिमांस्तत्त्वदर्शी च विद्यावर्णस्तपोधिकः
नामतः कर्मतश्चैव सुदरिद्रस्य ते सुताः। तपसे बुद्धिरभवत्तेषां वै द्विजजन्मनां
यास्यामः परमां सिद्धिमूचुस्ते द्विजसत्तमाः। तत्तेषां वचनं श्रुत्वा सुदरिद्रो महातपाः
उवाच दीनया वाचा किमेतदिति पुत्रकाः। अधर्म एष वः पुत्रा पिता तानित्युवाच ह
वृद्धं पितरमुत्सृज्य दरिद्रं वनवासिनम्। क्व नु धर्मोत्र भविता मां त्यक्त्वा गतिमेव च
ऊचुस्ते कल्पिता वृत्तिस्तव तात वचश्शृणु। व्रतमेतत्पुरा राज्ञः स ते दास्यति पुष्कलं
धनं ग्राम सहस्राणि प्रभाते पठतस्तव। कुरुक्षेत्रे तु ये विप्रा व्याधा दशपुरे तु ये
कालंजरे मृगा भूताश्चक्रवाकास्तु मानसे। इत्युक्त्वा पितरं जग्मुस्ते वनं तपसे पुनः
वृद्धोपि स द्विजो राजन्जगाम स्वार्थसिद्धये। अणुहो नाम वैभ्राजः पञ्चालाधिपतिः पुरा
पुत्रार्थी देवदेवेशं पद्मयोनिं पितामहम्। आराधयामास विभुं तीव्रव्रतपरायणः
ततः कालेन महता तुष्टस्तस्य पितामहः। वरं वरय भद्रं ते हृदयेभीप्सितं नृप
अणुह उवाच। पुत्रं मे देहि देवेश महाबलपराक्रमम्। पारगं सर्वविद्यानां धार्मिकं योगिनां वरम्१०० 1.10.
सर्वसत्वरुतज्ञं मे देहि योगिनमात्मजम्। एवमस्त्विति विश्वात्मा तमाह परमेश्वरः
पश्यतां सर्वभूतानां तत्रैवांतरधीयत। ततः स तस्य पुत्रोभूद्ब्रह्मदत्तः प्रतापवान्
सर्वसत्वानुकंपी च सर्वसत्वबलाधिकः। सर्वसत्वरुतज्ञश्च सर्वसत्वेश्वरेश्वरः
अथ सत्वेन योगात्मा स पिपीलकमागतः। यत्र तत्कीटमिथुनं रममाणमवस्थितम्
ततः सा सन्नतिर्दृष्ट्वा प्रहसंतं सुविस्मितं। किमप्याशंकमाना सा तमपृच्छन्नरेश्वरम्
सन्नतिरुवाच। अकस्मादतिहासोयं किमर्थमभवन्नृप। हास्यहेतुं न जानामि यदकाले कृतं त्वया
अवदद्राजपुत्रोसौ तं पिपीलिकभाषितम्। रागवद्विरसोत्पन्नमेतद्धास्यं वरानने
न चान्यत्कारणं किंचिद्धास्यहेतुः शुचिस्मिते। न सामन्यततं देवी प्राहालीकमिदं तव
अहमेवेह हसिता न जीविष्ये त्वयाधुना। कथं पिपीलिकालापं मर्त्यो वेत्ति सुरादृते
तस्मात्त्वयाहमेवाद्य हसिता किमतः परम्। ततो निरुत्तरो राजा जिज्ञासुस्तद्वचो हरेः
आस्थाय नियमं तस्थौ सप्तरात्रमकल्मषः। स्वप्नान्ते प्राह तं ब्रह्मा प्रभाते पर्यटन्पुरम्
वृद्धद्विजोत्तमाद्वाक्यं सर्वं ज्ञास्यति ते प्रिया। इत्युक्त्वांतर्दधे ब्रह्मा प्रभाते च नृपः पुरात्
निर्गच्छन्मन्त्रिसहितः सभार्यो वृद्धमग्रतः। गदंतं विप्रमायांतं वृद्धं च स ददर्श ह
ब्राह्मण उवाच। ये विप्रमुख्याः कुरुजांगलेषु दाशास्तथा दाशपुरे मृगाश्च। कालंजरे सप्त च चक्रवाका ये मानसे तेत्र वसंति सिद्धाः
इत्याकर्ण्य वचस्तस्य स पपात शुचान्वितः। जातिस्मरत्वमगमत्तौ च मंत्रिवरात्मजौ
कामशास्त्रप्रणेता तु बाभ्रव्यः स तु बालकः। पंचाल इति लोकेषु विश्रुतः सर्वशास्त्रवित्
पुंडरीकोपि धर्मात्मा वेदशास्त्रप्रवर्तकः। भूत्वा जातिस्मरौ शोकात्पतितावग्रतस्तथा