प्राचीमाधव उवाच- न शक्नोषि यदागंतुं नित्यमेव हि जाह्नवि । तदान्यत्संप्रवक्ष्यामि यस्मान्मत्पादसंभवा
सरस्वत्यधिका या च तीर्थकोटिशताधिका । मखकोट्यधिका वापि व्रतदानाधिका च या
जपहोमाधिका या च चतुर्वर्गफलप्रदा । सांख्ययोगाधिका या च त्रिस्पृशा क्रियतां शुभा
यस्मिन्मासे समायाति सिता च यदि वासिता । कर्तव्या सा सरिच्छ्रेष्ठे कृते पापात्प्रमुच्यते
जाह्नव्युवाच-। कीदृशी त्रिस्पृशा देव ममाख्याहि सुमाधव । ईदृशो महिमा यस्यास्त्वया प्रोक्तो ममाधुना
दशम्येकादशीभद्रा दिनैकस्मिन्यदा भवेत् । त्रिस्पृशा सा भवेद्देव वान्यथा वद मे प्रभो
कृष्ण उवाच-। आसुरी त्रिस्पृशा देवी या त्वया परिकीर्तिता । वर्जनीया प्रयत्नेन वृत्तिहीनो यथा पतिः
असुराणां तु सा प्रोक्ता आयुर्बलविनाशिनी । वर्जनीया प्रयत्नेन यथा नारी रजस्वला
स्वजातिं च परित्यज्य या गताधमजातिषु । सैव त्याज्यं विशेषेण दशमीयुक्तं हि मद्दिनम्
यथा रजस्वलासंगाद्दूष्यंते ज्ञानवर्जिताः । तथैव दशमीयुक्तं मद्दिनं दूषितं नृणाम्
हत्यायुतशतं हंति त्रिस्पृशा समुपोषिता । एकादशी द्वादशी च रात्रिशेषे त्रयोदशी
त्रिस्पृशा सा तु विज्ञेया दशमीसहिता न हि । कृत्वापराधं मुच्येत प्रायश्चित्ते कृते नरः
दशमीवेधजं दोषं न क्षमामि सुरापगे । भुक्तं हालाहलं तेन विषस्य भक्षणं कृतम्
दशमीमिश्रितं येन कृतमेकादशीव्रतम् । इति मत्वा न कर्त्तव्यं मद्दिनं दशमीयुतम् 6.34.
जन्मकोटिकृतंपुण्यं संतानं याति संक्षयम् । पातयेत्स्वकुलं स्वर्गान्नयते रौरवादिकम्
स्वदेहं शोधयित्वा तु कर्त्तव्यो मम वासरः । वृद्धौ त्याज्या विना वेधाच्छ्रवणादिषु संयुता
जन्मपुण्यं क्षयं याति एकादश्युपवासिनाम् । संवृद्धौ तु विशेषेण संदेहे समुपस्थिते
ममाज्ञया च कर्त्तव्या द्वादशीवल्लभा मम
जाह्नव्युवाच- करिष्येऽहं जगन्नाथ त्रिस्पृशां वचनात्तव । सर्वपापविनिर्मुक्ता भविष्यामि तवाज्ञया
श्रीकृष्ण उवाच- स्वस्थानं गच्छ भद्रं ते न भीः कार्या कदाचन । तव देवि सरिच्छ्रेष्ठे न पापं संक्रमिष्यति
स्नात्वा सरस्वतीतोये येऽर्चयित्वा च माधवम् । प्रणमंति जगन्नाथं ते यांति परमां गतिम्
जाह्नव्युवाच-। विधानं ब्रूहि मे ब्रह्मन्सर्वस्वेन करोम्यहम् । प्रसादयामि देवेशं दामोदरमनामयम्
प्राचीमाधव उवाच-। शृणु देवि प्रवक्ष्यामि त्रिस्पृशाया विधानकम् । यं श्रुत्वापि सरिच्छ्रेष्ठे मुच्यते पातकैर्नरः
पलेन च पलार्धेन तदर्द्धेनापि वापगे । प्रतिमा मम सौवर्णा कार्या विभवसारतः
पात्रं ताम्रमयं कार्यं तिलैस्तु परिपूरितम् । सजलं तु घटं शुभ्रं पंचरत्नसमन्वितम्
वेष्टितं पुष्पमालाभिः कर्पूरागुरुवासितम् । न्यसेद्दामोदरं पश्चात्स्नापयित्वा विलिप्य च
परिधानं ततः कार्यं वस्त्रयुग्मेन चान्वितम् । मंत्रैस्तु पूजनं कार्यं पुराणैः समुदीरितैः । पुष्पैः कालोद्भवैः शुभ्रैस्तुलसीपत्रैश्च कोमलैः
छत्रं तु विष्णवे दद्यात्पादुकाभ्यां सुसंयुतम् । निवेद्यानि मनोज्ञानि फलानि सुबहून्यपि
उपवीतं तु दातव्यं सोत्तरीयं नवं दृढम् । वैणवं दापयेद्दंडं सुरूपं सोन्नतं दृढम्
दामोदराय वै पादौ जानुनी माधवाय च । गुह्यं कामप्रदायेति कटिं वामनमूर्तये