मंत्रित्वे चक्रतुश्चेच्छामस्मिन्मर्त्यौ द्विजोत्तमौ। विभ्राजपुत्रस्त्वेकोभूद्ब्रह्मदत्त इति स्मृतः
मंत्रिपुत्रौ तथा चैव पुंडरीकसुबालकौ। ब्रह्मदत्तोभिषिक्तस्तु कांपिल्ये नगरोत्तमे
पंचालराजो विक्रांतः श्राद्धकृत्पितृवत्सलः। योगवित्सर्वजंतूनां चित्तवेत्ताभवत्तदा
तस्य राज्ञोभवद्भार्या सुदेवस्यात्मजा तदा। सन्नतिर्नाम विख्याता कपिलायाभवत्पुरा
पितृकार्ये नियुक्तत्वादभवद्ब्रह्मवादिनी। तया चकार सहितः स राज्यं राजनंदनः
कदाचिद्गतउद्यानं तया सह स पार्थिवः। ददर्श कीटमिथुनमनंगकलहान्वितम्
पिपीलिकामधोवक्त्रां पुरतः कीटकामुकः। पंचबाणाभितप्तांगः सगद्गदमुवाच ह
न त्वया सदृशी लोके कामिनी विद्यते क्वचित्। मध्ये क्षीणातिजघना बृहद्वक्त्रातिगामिनी
सुवर्णवर्णसदृशी सद्वक्त्रा चारुहासिनी। आलक्ष्यते च वदनं गुडशर्करवत्सलं
भोक्ष्यसे मयि भुक्ते त्वं स्नासि स्नाते तथा मयि। प्रोषिते मयि दीना त्वं क्रुद्धे च भयचंचला
किमर्थं वद कल्याणि सदाधोवदनास्थिता। सा तमाह ज्वलत्कोपा किमालपसि रे शठ
त्वया मोदकचूर्णं तु मां विहायापि भक्षितम्। प्रादास्त्वं तदतिक्रम्य मामन्यस्यै समन्मथः
पिपीलक उवाच। त्वत्सादृश्यान्मया दत्तमन्यस्यै वरवर्णिनि। तदेकमपराधं मे क्षंतुमर्हसि भामिनि
नैवं पुनः करिष्यामि त्यज कोपं च सुस्तनि। स्पृशामि पादौ सत्येन प्रणतस्य प्रसीद मे
रुष्टायां त्वयि सुश्रोणि मृत्युर्मे पुरतो भवेत्। तुष्टायां त्वयि वामोरु पूर्णाः सर्वमनोरथाः
पूर्णचंद्रोपमं वक्त्रं स्वादेमृतरसोपमम्। निर्भरं पिब सुश्रोणि कामासक्तस्य मे सदा
एतन्मत्वा शुभे कार्या सर्वदा तु कृपा मयि। इति सा वचनं श्रुत्वा प्रसन्ना चाभवत्ततः
आत्मानमर्पयामास मोहनाय पिपीलिका। ब्रह्मदत्तोपि तत्सर्वं ज्ञात्वा सस्मयमाहसत्
सर्वसत्वरुतज्ञानी प्रभावात्पूर्वकर्मणः। भीष्म उवाच। कथं सर्वरुतज्ञोभूद्ब्रह्मदत्तो नराधिपः
तच्चापि चाभवत्कुत्र चक्रवाकचतुष्टयं। तन्मे कथय सर्वज्ञ कुले कस्य च सुव्रतम्
पुलस्त्य उवाच। तस्मिन्नेव पुरे जाताश्चक्रवाका अथो नृप
वृद्धद्विजस्य दायादा विप्रा जातिस्मरा बुधाः। धृतिमांस्तत्त्वदर्शी च विद्यावर्णस्तपोधिकः
नामतः कर्मतश्चैव सुदरिद्रस्य ते सुताः। तपसे बुद्धिरभवत्तेषां वै द्विजजन्मनां
यास्यामः परमां सिद्धिमूचुस्ते द्विजसत्तमाः। तत्तेषां वचनं श्रुत्वा सुदरिद्रो महातपाः
उवाच दीनया वाचा किमेतदिति पुत्रकाः। अधर्म एष वः पुत्रा पिता तानित्युवाच ह
वृद्धं पितरमुत्सृज्य दरिद्रं वनवासिनम्। क्व नु धर्मोत्र भविता मां त्यक्त्वा गतिमेव च
ऊचुस्ते कल्पिता वृत्तिस्तव तात वचश्शृणु। व्रतमेतत्पुरा राज्ञः स ते दास्यति पुष्कलं
धनं ग्राम सहस्राणि प्रभाते पठतस्तव। कुरुक्षेत्रे तु ये विप्रा व्याधा दशपुरे तु ये
कालंजरे मृगा भूताश्चक्रवाकास्तु मानसे। इत्युक्त्वा पितरं जग्मुस्ते वनं तपसे पुनः
वृद्धोपि स द्विजो राजन्जगाम स्वार्थसिद्धये। अणुहो नाम वैभ्राजः पञ्चालाधिपतिः पुरा