एवं सा भक्षिता धेनुः सप्तभिस्तैस्तपोधनैः। वैदिकं बलमाश्रित्य क्रूरे कर्मणि निर्भयाः
ततः काले प्रणष्टास्ते व्याधा दश पुरेभवन्। जातिस्मरत्वं प्राप्तास्ते पितृभावेन भाविताः
तत्र विज्ञाय वैराग्यं प्राणानुत्सृज्य धर्मतः। लोकैरवीक्ष्यमाणास्ते तीर्थांतेनशनेन तु
संजाता मृगरूपास्ते सप्त कालंजरे गिरौ। प्राप्तविज्ञानयोगास्ते तत्यजुस्तां निजां तनुम्
मम्रुः प्रपतनेनाथ जातवैराग्यमानसाः। मानसे चक्रव्राकास्ते संजाताः सप्तयोगिनः
नामतः कर्मतः सर्वे सुमनाः कुसुमोवसुः। चित्तदर्शी सुदर्शी च ज्ञाता ज्ञानस्य पारगः
ज्येष्ठानुरक्ताः श्रेष्ठास्ते सप्तैते योगपावनाः। योगभ्रष्टास्त्रयस्तेषां बभूवुश्चलचेतसः
दृष्ट्वा विभ्राजमानं तमणुहं स्त्रीभिरन्वितम्। क्रीडंतं विविधैर्भोगैर्महाबलपराक्रमम्
पञ्चालान्वयसंभूतं प्रभूतबलवाहनम्। राज्यकामोभवत्त्वेकस्तेषां मध्ये जलौकसाम्
पितृवर्ती च यो विप्रः श्राद्धकृत्पितृवत्सलः। अपरौ मंत्रिणौ दृष्ट्वा प्रभूतबलवाहनौ
मंत्रित्वे चक्रतुश्चेच्छामस्मिन्मर्त्यौ द्विजोत्तमौ। विभ्राजपुत्रस्त्वेकोभूद्ब्रह्मदत्त इति स्मृतः
मंत्रिपुत्रौ तथा चैव पुंडरीकसुबालकौ। ब्रह्मदत्तोभिषिक्तस्तु कांपिल्ये नगरोत्तमे
पंचालराजो विक्रांतः श्राद्धकृत्पितृवत्सलः। योगवित्सर्वजंतूनां चित्तवेत्ताभवत्तदा
तस्य राज्ञोभवद्भार्या सुदेवस्यात्मजा तदा। सन्नतिर्नाम विख्याता कपिलायाभवत्पुरा
पितृकार्ये नियुक्तत्वादभवद्ब्रह्मवादिनी। तया चकार सहितः स राज्यं राजनंदनः
कदाचिद्गतउद्यानं तया सह स पार्थिवः। ददर्श कीटमिथुनमनंगकलहान्वितम्
पिपीलिकामधोवक्त्रां पुरतः कीटकामुकः। पंचबाणाभितप्तांगः सगद्गदमुवाच ह
न त्वया सदृशी लोके कामिनी विद्यते क्वचित्। मध्ये क्षीणातिजघना बृहद्वक्त्रातिगामिनी
सुवर्णवर्णसदृशी सद्वक्त्रा चारुहासिनी। आलक्ष्यते च वदनं गुडशर्करवत्सलं
भोक्ष्यसे मयि भुक्ते त्वं स्नासि स्नाते तथा मयि। प्रोषिते मयि दीना त्वं क्रुद्धे च भयचंचला
किमर्थं वद कल्याणि सदाधोवदनास्थिता। सा तमाह ज्वलत्कोपा किमालपसि रे शठ
त्वया मोदकचूर्णं तु मां विहायापि भक्षितम्। प्रादास्त्वं तदतिक्रम्य मामन्यस्यै समन्मथः
पिपीलक उवाच। त्वत्सादृश्यान्मया दत्तमन्यस्यै वरवर्णिनि। तदेकमपराधं मे क्षंतुमर्हसि भामिनि
नैवं पुनः करिष्यामि त्यज कोपं च सुस्तनि। स्पृशामि पादौ सत्येन प्रणतस्य प्रसीद मे
रुष्टायां त्वयि सुश्रोणि मृत्युर्मे पुरतो भवेत्। तुष्टायां त्वयि वामोरु पूर्णाः सर्वमनोरथाः
पूर्णचंद्रोपमं वक्त्रं स्वादेमृतरसोपमम्। निर्भरं पिब सुश्रोणि कामासक्तस्य मे सदा
एतन्मत्वा शुभे कार्या सर्वदा तु कृपा मयि। इति सा वचनं श्रुत्वा प्रसन्ना चाभवत्ततः
आत्मानमर्पयामास मोहनाय पिपीलिका। ब्रह्मदत्तोपि तत्सर्वं ज्ञात्वा सस्मयमाहसत्
सर्वसत्वरुतज्ञानी प्रभावात्पूर्वकर्मणः। भीष्म उवाच। कथं सर्वरुतज्ञोभूद्ब्रह्मदत्तो नराधिपः
तच्चापि चाभवत्कुत्र चक्रवाकचतुष्टयं। तन्मे कथय सर्वज्ञ कुले कस्य च सुव्रतम्