प्रपितामहास्तथादित्या इत्येषा वैदिकी श्रुतिः। नामगोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः
श्राद्धस्य मन्त्रतस्तत्वमुपलभ्येत भक्तितः। अग्निष्वात्तादयस्तेषामाधिपत्ये व्यवस्थिताः
नामगोत्रास्तदा देशा भवंत्युद्भवतामपि। प्राणिनः प्रीणयत्येतदर्हणं समुपागतं
दिव्यो यदि पिता माता गुरुः कर्मानुयोगतः। तस्यान्नममृतं भूत्वा दिव्यत्त्वेप्यनुगच्छति
दैत्यत्वे भोगरूपेण पशुत्वेपि तृणं भवेत्। श्राद्धान्नं वायुरूपेण नागत्वेप्युपतिष्ठति
पानं भवति यक्षत्वे राक्षसत्वे तथामिषं। दानवत्वे तथा पानं प्रेतत्वे रुधिरोदकम्
मनुष्यत्वेन्नपानादि नानाभोगवतां भवेत्। रतिशक्तिस्त्रियः कान्तेऽन्येषां भोजनशक्तिता
दानशक्तिः स विभवा रूपमारोग्यमेव च। श्राद्धपुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमः
आयुः पुत्रान्धनं विद्यां स्वर्गं मोक्षं सुखानि च। प्रयच्छन्ति तथा राज्यं प्रीताः पितृगणा नृप
श्रूयते च पुरा मोक्षं प्राप्ताः कौशिकसूनवः। पंचभिर्जन्मसंबंधैः प्राप्ता ब्रह्मपरं पदम्
भीष्म उवाच। कथं कौशिकदायादाः प्राप्ता योगमनुत्तमम्। पंचभिर्जन्मसंबन्धैः कथं कर्मक्षयो भवेत्
पुलस्त्य उवाच। कौशिको नाम धर्मात्मा कुरुक्षेत्रे महानृषिः। नामतः कर्मतस्तस्य पुत्राणां तन्निबोध मे
स्वसृपः क्रोधनो हिंस्रः पिशुनः कविरेव च। वाग्दुष्टः पितृवर्ती च गर्गशिष्यास्तदाभवन्५० 1.10.
पितर्युपरते तेषामभूद्दुर्भिक्षमुल्बणं। अनावृष्टिश्च महती सर्वलोकभयंकरी
गर्गादेशाद्वने दोग्ध्रीं रक्षंति च तपोधनाः। खादामः कपिलामेतां वयं क्षुत्पीडिता भृशं
इति चिंतयतां पापं लघुः प्राह तदानुजः। यद्यवश्यमियं वध्या श्राद्धरूपेण योज्यतां
श्राद्धे नियोज्यमानायां पापं नश्यति नो ध्रुवं। एवं कुर्वित्यनुज्ञातः पितृवर्ती तदानुजैः
चक्रे समाहितः श्राद्धमुपयुज्याथ तां पुनः। द्वौ दैवे भ्रातरो कृत्वा पित्र्ये त्रींश्चापरान्क्रमात्
तथैकमतिथिं कृत्वा श्राद्धदः स्वयमेव तु। चकार मंत्रवच्छ्राद्धं स्मरन्पितृपरायणः
तदा गत्वा विशंकास्ते गुरवे च न्यवेदयन्। व्याघ्रेण निहता धेनुर्वत्सोयं प्रतिगृह्यतां
एवं सा भक्षिता धेनुः सप्तभिस्तैस्तपोधनैः। वैदिकं बलमाश्रित्य क्रूरे कर्मणि निर्भयाः
ततः काले प्रणष्टास्ते व्याधा दश पुरेभवन्। जातिस्मरत्वं प्राप्तास्ते पितृभावेन भाविताः
तत्र विज्ञाय वैराग्यं प्राणानुत्सृज्य धर्मतः। लोकैरवीक्ष्यमाणास्ते तीर्थांतेनशनेन तु
संजाता मृगरूपास्ते सप्त कालंजरे गिरौ। प्राप्तविज्ञानयोगास्ते तत्यजुस्तां निजां तनुम्
मम्रुः प्रपतनेनाथ जातवैराग्यमानसाः। मानसे चक्रव्राकास्ते संजाताः सप्तयोगिनः
नामतः कर्मतः सर्वे सुमनाः कुसुमोवसुः। चित्तदर्शी सुदर्शी च ज्ञाता ज्ञानस्य पारगः
ज्येष्ठानुरक्ताः श्रेष्ठास्ते सप्तैते योगपावनाः। योगभ्रष्टास्त्रयस्तेषां बभूवुश्चलचेतसः
दृष्ट्वा विभ्राजमानं तमणुहं स्त्रीभिरन्वितम्। क्रीडंतं विविधैर्भोगैर्महाबलपराक्रमम्
पञ्चालान्वयसंभूतं प्रभूतबलवाहनम्। राज्यकामोभवत्त्वेकस्तेषां मध्ये जलौकसाम्
पितृवर्ती च यो विप्रः श्राद्धकृत्पितृवत्सलः। अपरौ मंत्रिणौ दृष्ट्वा प्रभूतबलवाहनौ